अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ५२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥।
भूयः शृणु महाभाग शिप्रामाहात्म्यमुत्तमम् ॥
यस्य श्रवणमात्रेण हयमेधफलं भवेत् ॥१॥
शिप्रा च सर्वतः पुण्या पवित्रा पापहारिणी ॥
अवंत्यां च विशेषेण शिप्रा चोत्तरवाहिनी ॥२॥
तथापि तत्समुत्पत्तिं विस्तराद्गदतो मम ॥
यथा वाराहतनया विष्णुदेहोद्भवा शिवा ॥
शृणु व्यास महापुण्यां कथां पौराणिकीं शुभाम् ॥९३॥
पुरा महासुरो जातो हिरण्याक्षो महाबलः ॥४॥
स चेमां सकलां पृथ्वीं वशीकृत्वा चकार ह ॥
राज्यं च सार्वभौमानां दानवैश्च दुरात्मभिः ॥५॥
जित्वा च सकलाँल्लोकान्सुरानिंद्रपुरोगमान् ॥
दिक्पालान्वसुपालांश्च तिरस्कृत्यसुरा धिपः ॥६॥
स सर्वान्सर्वलोकेभ्यः स्वयमेवाधितिष्ठति ॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ॥७॥
विचरंति यथा मर्त्या भ्रष्टराज्याः पराजिताः ॥
अलब्धशरणाः सर्वे ब्रह्माणं शरणं ययुः ॥८॥
तत्र गत्वा नमस्कृत्य दैत्यकृत्यं न्यवेदयन् ॥
भगवन्किमिदं कार्यं भवता परमेष्ठिना ॥९॥
येन देवगणाः सर्वे नष्टप्रायाश्च तत्क्षणात् ॥
हिरण्याक्षेण दैत्येन हृतं स्वर्गमकण्टकम् ॥१०॥
यज्ञभागांश्च वै सर्वानुपाश्नाति पृथक्पृथक् ॥
केनोपायेन जीवाम कथं तिष्ठाम भूतले ॥११॥
इति विक्लवितं तेषां देवानां स पितामहः ॥
उवाच वचनं रम्यं तत्कालसमयोचितम् ॥१२॥
॥ब्रह्मोवाच ॥
शृणुध्वं भोः सुरश्रेष्ठा यूयं सर्वे समाहिताः ॥
पुरायं पार्षदश्रेष्ठो द्वारपालः समाहितः ॥१३॥
वैकुण्ठभवने रम्ये विष्णोरतुलतेजसः ।
जयोनाम महाबाहुर्विजयेन समन्वितत॥ १०॥
द्वावेव सचिवौ दांतौ विष्णुवेषधरावुभौ॥
आत्तयष्टी च विक्रांतौ द्वारे संतिष्ठतः सदा ॥१५॥
एकदा वै मुनिश्रेष्ठ ब्रह्मणो मानसात्मजाः॥
स्वैरं चरंतो लोकानां विष्णोर्भवनमागताः ॥१६॥
सनकादयो महाभागा भगवद्दर्शनलालसाः॥
ताभ्यां निवारिताः सर्वे पेतुर्वै धरणीतले ॥१७॥
मुमुहुश्च तदा व्यास कुमारा भृशदुःखिताः ॥
ततोऽगात्स महाबाहुर्भगवान्कमलेक्षणः ॥१८॥
ददर्श सहसा विष्णुः कुमारान्भुवि दुःखितान् ॥
उत्थाप्यांकं समारोप्य सस्वजे मधुसूदनः ॥१९॥
मूर्ध्नि चाघ्राय बाहुभ्यां परिष्वज्य ह्युवाच ह॥
कस्माद्वः कश्मलमिदं केनापि दुःखिता भृशम् ॥२०॥
सर्वं तत्कारणं बाला ब्रूत नो धर्मवित्तमाः ॥२१॥
॥ कुमारा ऊचुः ॥
श्रूयतां भो महाराज अस्माकं दुःखमीदृशम् ॥
येन प्राप्ता वयं ब्रह्मन्दशामेतां शृणुष्व ह ॥२२॥
आयाता भ्रातरो ह्येते चत्वारो लोकपर्यटाः ॥
दर्शनार्थं रमानाथ साभिलाषाः शुचार्दिताः ॥२३॥
निवारिताश्च सहसा ताभ्यां वै द्वारपालनात् ॥
तेनैवेयं दशा प्राप्ता भवता परिपालिताः ॥२४॥
॥ भगवानुवाच ॥
अतः प्रभृति स्थानेस्मिन्स्थितिर्नास्ति च शाश्वती ॥
एतयोरासुरी योनिः प्राप्स्यते यन्ममाहितौ ॥२५॥
सद्यः प्राप्तौ तदा व्यास आसुरीं योनिमेव तौ ॥
जयविजयनामाख्यौ दुष्टभावसमाश्रितौ ॥२६॥
जन्मांतरसहस्रेण तपोदानसमाधिभिः ॥
नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥२७॥
दुष्टभावेन सद्यो वै जन्मभिर्जायते त्रिभिः ॥
भविष्यति च तस्माद्वो विष्णुभक्तिः परा स्मृता ॥२८॥
जन्मजन्मांतरे जातौ तामसीं योनिमुद्धतौ ॥
हिरण्यकशिपुश्चैव हिरण्याक्षो महाबलः ॥२९॥
तथैव कुंभकर्णाख्यो रावणो लोकरावणः ॥
दंत वक्त्रः शिशुपालश्च जन्मत्रयमिति स्मृतम् ॥३०॥
योऽसौ महाबली दैत्यो हिरण्याक्ष इति स्मृतः ॥
दुष्टभावसमापन्नो देवब्राह्मणनिंदकः ॥३१॥
जित्वा च सकलान्देवान्स्वयमेवाधितिष्ठति ॥३२॥
स्वर्गान्निराकृताः सर्वे भ्रष्टराज्याः पराजिताः ॥
विचरंति यथा मर्त्यास्तेन देव गणा भुवि ॥३३॥
स्वधाकारो वषट्कारः स्वाहाकारो न दृश्यते ॥
देवपूजार्चनं नास्ति ब्राह्मणानां विशेषतः ॥३४॥
नैव तीर्थं प्रकाशेत पुण्यान्यायतनानि च ॥
आश्रमेषु च सर्वेषु ऋषीणां च महात्मनाम् ॥३५॥
उद्वृत्तं च प्रकुर्वंति दुष्टदैत्याः प्रहारिणः ॥
वर्णाश्रमवतां धर्माः स्त्रीणां चैव सुशीलता॥ १८॥
उच्छिन्ना हि तदा जातास्तस्मिन्राज्ञि दुरात्मनि ॥
दुष्टाचारा दुरात्मानो मायिनो बहुमानिनः ॥३७॥
पाखंडिनोऽपरा क्रांताः सर्वे धर्मबहिर्मुखाः ॥
पशुधर्मरताः सर्वे सर्वे ब्रह्मेतिशंसिनः ॥३८॥
बहुम्लेच्छा बहुक्लेशा बह्वाबाधावनी कृता ॥
को वेदः का स्मृतिः को यज्ञः का च दक्षिणा ॥३९॥
तमीभूतं जगत्सर्वं दृश्यते वसुधातले ॥
एवं व्यास यदा जातं दुष्टं सर्वं जगत्त्रयम् ॥४०॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥४१॥
इति ज्ञात्वा महाविष्णुर्वाराहं वपुरात्मवान् ॥
दधार लीलया दिव्यं श्वेतद्वीपोपमं शुभम् ॥४२॥
यूपदंष्ट्रो हविर्गंधो बीजौषधितनूरुहः ॥
वेदपादः शुचिर्दंडी जिह्वाग्निस्तालुकाहुतिः ॥४३॥
अंतरास्यरुचादार्ढो यज्ञकायः सुदक्षिणः ॥
उद्गानघुर्घुरोन्नादो विहार ऋत्विजाकृतिः ॥४४॥
हौत्रश्वासपरो दक्षसदस्यावयवः स्मृतः ॥
पुच्छ कर्माशनो नित्यं यजमानसुमानदः ॥४५॥
वेदिपल्वलसंस्तारो ब्रह्माध्वर्युर्वनाकरः ॥
लोककल्पो लोकसाक्षी परावरवहः शुचिः ॥४६॥
आद्यः पुरुष ईशानः पुरुहूतः पुरुष्टुतः ॥
तेनासौ निहतो दैत्यो हिरण्याक्षो दुरासदः ॥४७॥
संग्रामान्सुबहून्कृत्वा बहुकष्टेन विष्णुना ॥
दैत्येन पीडिता पृथ्वी रसातलतलंगता ॥४८॥
उद्धृता च वराहेण दंष्ट्रया चंद्ररेखया ॥
हतास्ते दानवाः सर्वे शेषाः पातालमाययुः ॥४९॥
ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥
जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः ॥५०॥
सरितो मार्गवाहिन्यः सागराः प्रकृतिं गतः ॥
दृष्ट्वा देवोऽखिलं व्यास प्रसन्नात्मा बभूव ह ॥५१॥
वाराहमूर्तिर्भगवान्सर्वकामफलप्रदः ॥
आनंदनिर्भरो देवो हतदैत्यो वरप्रदः ॥५२॥
तस्यापि हृदयाज्जाता नदी ह्येषा सनातनी ॥
आनंदजलसंपूर्णा सर्वानंदवरप्रदा ॥५३॥
बहुयोजनविस्तारा बहुला कामचारिणी ॥
पद्माकरसमाकीर्णा हंसकारण्डसंकुला ॥५४॥
सरला तरलच्छाया यक्षगंधर्वसेविता ॥
किन्नरीगीयमाना च गीयमाना खगालिभिः ॥५५॥
अप्सरोभिर्नृत्यमाना स्तूयमाना महर्षिभिः॥
हूयमाना हुताग्निभी राजर्षिभिः समाश्रिता ॥५६॥
तुंगस्तनभराक्रांतयोषिद्भिः क्रीडितान्तरा ॥
क्वचित्कीरवरांदोलै रम्यमाणा विराजिता ॥५७॥।
वेदविद्भिर्द्विजैः सेव्या ऋषिभिस्संशितात्मभिः ॥
सर्वदा सर्वकाले च सिद्धैः सिद्धिप्रदा नृणाम् ॥५८॥
महाकालवने रम्ये रम्या पद्मावती पुरी ॥
सुन्दरं कुण्डमपरं रम्यं प्राचीनकं शुभम् ॥५९॥
यत्र स्नात्वा नरा यांति शिवलोकं सनातनम् ॥
यत्र नीला परा व्यास शिप्रा वै लोकपावनी ॥६०॥
वाराहेण कृतं सर्वं दुष्टदैत्यनिबर्हणम् ॥
तेन देवा निरातंकाः कृता वाराहमूर्तिना ॥६१॥
कृतप्रांजलयः सर्वे देवा इंद्रपुरोगमाः ॥
स्तुतिं कृत्वा महाविष्णोः सततं पुरतः स्थिताः ॥६२॥
देवदेव जगन्नाथ पुण्यश्रवणकीर्तन ॥
किं दानं किं तपः पुण्यं किं तीर्थं का च देवता ॥६३॥
येन पुण्यप्रभावेन पुनः स्वर्गो ह्यवाप्स्यते ॥
एतन्निश्चित्य नो ब्रूहि सर्वं गुह्यतरं विभो ॥६४॥
॥ विष्णुरुवाच ॥
शृणुध्वं भोः सुराः सर्वे युष्माकं सिद्धिकारणम् ॥
गुह्याद्गुह्यतरं पुण्यं महाकालवनं शुभम् ॥६५॥
मम देहोद्भवा शिप्रा यत्र लीना पयस्विनी ॥
नीलगंगा सरिच्छ्रेष्ठा यत्र प्राची सरस्वती ॥६६॥
पुष्करं च गयातीर्थं पुरुषोत्तमसरः शुभम् ॥
तत्रैव गच्छत क्षिप्र पुनर्लोकानवाप्स्यथ ॥६७॥
इति श्रुत्वा परं वाक्यं देवदेवजगद्गुरोः ॥
तत्र देवगणाः सर्वे ब्रह्मशक्रपुरोगमाः ॥६८॥
महाकालवने रम्ये यत्र शिप्रा सरिद्वरा ॥
स्नानदानादिकं कृत्वा श्राद्धं कृत्वा यथोचितम् ॥६९॥
तेन पुण्यप्रभावेन स्वकाँल्लोकान्गताः सुराः ॥
एवं व्यास समाख्याता शिप्रा वै लोकपावनी ॥७०॥
जातं सरो वराहस्य विष्णोरतुलतेजसः ॥
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥७१॥
अत्र स्नात्वा पयः पीत्वा श्राद्धं कृत्वा यथोचितम् ॥
पयस्विनीं च गां दत्त्वा विष्णुलोके महीयते ॥७२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्ती क्षेत्रमाहात्म्ये शिप्रामाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP