अवन्तीक्षेत्रमाहात्म्यम् - अध्याय २३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
अथ यात्रां प्रवक्ष्यामि महाकालस्य यत्नतः ॥
शिवां श्रेयस्करीं पुण्यां पुण्यलोकप्रदायिनीम् ॥१॥
स्नात्वा सरसि रुद्रस्य दृष्ट्वा कोटेश्वरं शिवम्॥
नमस्कृत्य ततो गच्छेन्महाकालं सनातनम् ॥२॥
गन्धैः पुष्पैर्नमस्कारैः संपूज्य त्रिदशेश्वरम्॥
प्रणिपत्य ततो गच्छेद्देवं कपालमोचनम् ॥३॥
तत्रैव देवदेवेशः कपालं न्यस्तवान्क्षितौ ॥
कपाले तत्क्षणान्न्यस्ते तत्राभूल्लिंगमुत्तमम् ॥४॥
कपालमोचनं नाम सर्वपापप्रणाशनम् ॥
तत्र वै स्नपनं कुर्यादाज्यपलशतेन वै ॥५॥
तदर्धार्धेन पादेन वित्तशाठ्यविवर्जितः ॥
काले पूर्णे स विप्रेन्द्र शिवलोके महीयते ॥६॥
नमस्कृत्य ततो गच्छेत्कपिलेश्वरमुत्तमम् ॥
दर्शनादस्य देवस्य मुच्यते ब्रह्महत्यया ॥७॥
हनुमत्केश्वरं देवं ततो गच्छेत्समाहितः ॥
ऐश्वर्यमतुलं व्यास दर्शनादस्य जायते ॥८॥
ततो गच्छेन्महादेवं पैप्पलाख्यं सनातनम् ॥
यस्य दर्शनमात्रेण मुक्तिः स्याद्द्विजसत्तम ॥९॥
स्वप्नेश्वरं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ॥
दर्शनादस्य देवस्य दुःस्वप्नं च विनश्यति ॥१०॥
ततो गच्छेन्महादेवमीशानं विश्वतोमुखम्॥
यस्य दर्शनमात्रेण विश्वस्यैव पतिर्भवेत् ॥११॥
सोमेश्वरं ततो गच्छेज्जितक्रोधो जितेंद्रियः ॥
कुष्ठरोगादिदोषेभ्यो दर्शनादस्य मुच्यते ॥१२॥
वैश्वानरेश्वरं व्यास ततो गच्छेत्समाहितः ॥
तस्य वृद्धिः सदा लोके जायते तस्य दर्शनात् ॥१३॥
बीजपूरकहस्तं तु लकु लीशं ततो व्रजेत् ॥
रुद्रत्वं दर्शनात्तस्य जायते नात्र संशयः ॥१४॥
ततो गच्छेन्महादेवं गद्याणेश्वरमुत्तमम् ॥
यस्य दर्शनमात्रेण जायंते सर्व सिद्धयः ॥१५॥
अभ्यर्थितः सदा देवैः पूजितः सिद्धिकारणात् ॥
तेनाभ्यर्थितेश्वरोऽयं विख्यातो विघ्ननायकः ॥१६॥
वयोवृद्धं ततो गच्छेन्महाकालं सनातनम् ॥
न रोगो न जराव्याधिर्दर्शनान्नात्र संशयः ॥१७॥
विघ्ननाशं ततो गच्छेत्प्राणीशं बलमुत्तमम् ॥
स्नानं घटशतैस्तस्य कुर्याद्भक्त्या समाहितः ॥१८॥
तस्य चैव कृते स्नाने लभ्यंते सर्वसिद्धयः ॥
स्वर्गश्चापि सदा व्यास दर्शनादस्य जायते ॥१९॥
तनयं तमनूल्लंघ्य दंड पाणिं ततो व्रजेत् ॥
यस्य दर्शनमात्रेण यमलोको न दृश्यते ॥२०॥
पुष्पदन्तं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ॥
यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ॥२१॥
गुह्यं चैव महाकालं ततो गच्छेत्समाहितः ॥
यस्य दर्शनमात्रेण गुह्यपापैः प्रमुच्यते ॥२२॥
ततो गच्छेत्समाधिस्थो दुर्वासेश्वरमुत्तमम् ॥
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ॥२३॥
श्वासावरोधनं कृत्वा दुर्वाससः समीपतः ॥
गौरीं गत्वा महादुर्गां त्यजेच्छ्वासमनंतरम् ॥२४॥
तत्रोच्छ्वासो विमोक्त्यस्तामभ्यर्च्य तु सर्वथा ॥
कालेश्वरं ततो गच्छेद्देवदेवं महेश्वरम् ॥२५॥
यस्य दर्शनमात्रेण यमलोकं न पश्यति ॥
विधीशं च ततो गच्छेद्देवदेवं महेश्वरम् ॥२६॥
यस्य दर्शनमात्रेण बधिरत्वं न जायते ॥
कीर्तयेदात्मनो नाम स्थानं गोत्रं च तस्य वै ॥२७॥
न कीर्तयेद्यदा नाम सा यात्रा विफली भवेत् ॥
देवस्याग्रे ततो व्यास उपविश्य समाहितः ॥२८॥
भक्तियुक्तस्ततो ब्रूयान्नमस्कृत्वा पुनःपुनः ॥
मया समर्पिता यात्रा त्वत्प्रसादान्महेश्वर ॥२९॥
संसारसागराद्धोरान्मामुद्धर जगत्पते ॥
अनेन विधिना यस्तु महाकालं प्रदक्षयेत् ॥३०॥
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ॥
गोलक्षं द्विजलक्षाय दत्त्वा यल्लभते फलम् ॥३१॥
तत्फलं देवदेवस्य सकृद्दत्त्वा प्रदक्षिणम्॥
भक्त्या परमया युक्तो महाकालं प्रदक्षयेत् ॥३२॥
पदेपदे यज्ञफलमिति मे शंकरोऽब्रवीत् ॥
षष्टिकोटि सहस्राणि षष्टिकोटिशतानि च ॥३३॥
पूजितानि भवंत्यत्र यात्रेश्वरसमर्चनात् ॥
य एवं कुरुते यात्रां शिवध्यानपरायणः ॥३४॥
सहस्रदक्षिणां दद्यात्तस्य पुण्यफलं शृणु ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥३५॥
एवं यात्रां समाप्याथ गत्वा निजगृहं नरः ॥
यात्रादैवत संख्यान्वै षड्विंशतिद्विजोत्तमान्॥ ३६॥
भोजयेच्छिवभक्तांश्च शिवध्यानपरायणान् ॥
सवस्त्रां दक्षिणां दत्त्वा प्राप्यानुज्ञां विसर्जयेत् ॥३७॥
यात्राक्रमेण चैकैकं द्वारांतरमनुव्रजेत् ॥
धर्मोपदेशके पश्चात्सर्वोपस्करसंयुताम् ॥३८॥
धेनुं पयस्विनीं दद्याद्वित्तशाठ्यविवर्जितः ॥
भुञ्जीताथ स्वयं व्यास सर्वभृत्यसमन्वितः ॥३९॥
दीनानाथदरिद्रांधविकलाद्यांश्च भोजयेत् ॥
यदत्र फलमुद्दिष्टं तद्वदामि शृणुष्व मे ॥४०॥
कुलानां शतमुद्धृत्य मातापित्रोः समाहितः ॥
कल्पकोटिसहस्राणि शिवलोके स मोदते ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालेश्वरयात्रामाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP