अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ४७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
शृणु व्यास महाभाग पुरी ह्येषामरावती ॥
विशाला च समाख्याता सर्वलोकेषु गीयते ॥१॥
तथाहं संप्रवक्ष्यामि ब्रह्मणा कथितं पुरा ॥
गुह्याद्गुह्यतरं क्षेत्रं सर्वपापप्रणाशनम् ॥२॥
उमया सहितो देव एक एवाचरद्वने ॥
ततो भूतगणाः सर्वे पश्चात्सर्वे सुरासुराः ॥३॥
विष्णुर्दशाकृतिर्यत्र देव्यो वै लोकमातरः ॥
विनायकाश्च वैतालाः कूष्मांडा भैरवादयः ॥४॥
कल्पोद्भेदाश्च लिंगाश्च चतुराशीतिसंख्यकाः ॥
क्षेत्राणि क्षेत्रपालाश्च ऋद्धिः सिद्धिस्तथैव च ॥५॥
पितरो लोकपालाश्च सिद्धाः सिद्धिप्रदाश्च ये ॥
ऋषयश्च महाभागा ऋषिपत्न्योऽमलाशयाः ॥६॥
किंनरा देवगन्धर्वा ह्यप्सराश्च वरांगनाः ॥
मरुद्गणाश्च ये सर्वे साधकानां गणाश्च ये ॥७॥
यक्षा गुह्यकसंघाश्च पिशाचोरगराक्षसाः ॥
स्थावरा जंगमाः सर्वे ध्यानं मानसमाश्रिताः ॥८॥
उपासांचक्रिरे तत्र देवदेवमुमापतिम्॥
तान्दृष्ट्वा सा तदा देवी पार्वती गिरिजा तदा ॥
उवाच श्लक्ष्णया वाचा शंकरं जगदाश्रयम् ॥९॥
॥ पार्वत्युवाच ॥
देवदेव जगन्नाथ जगदाधारतत्पर ॥
पश्य एतान्महाभागान्ध्यायमानांस्तवाश्रितान् ॥१०॥
नानुपेक्ष्याश्च तान्सर्वान्वातवर्षातपार्दितान् ॥
कल्पय त्वं महा भाग एतेषामात्मनो हितम्॥११॥
यथायोग्यं वासनार्थं स्थानं परमशोभनम्॥
पुरीं कल्पय मे नाथ वासार्थं सर्वकामदाम् ॥१२॥
एषा मे वासना स्वामिन्भवतां यदि रोचते ॥
इति श्रुत्वा वचस्तस्याः पार्वत्याः परमेश्वरः ॥
कल्पयामास पुरीं रम्यां सर्वभूतमनोरमाम् ॥१३॥।
आत्मनोपि हितां पुण्यां शंभुः सर्वात्मना तदा॥
बहुयोजनविस्तीर्णां दिव्यां दिव्यजनप्रियाम्॥१४॥
दिव्याभिप्रायसंयुक्तां दिव्यस्थानमनोरमाम्॥
दिव्यसर्वगुणोपेता विशालां विरजां शुभाम् ॥१५॥
क्रयविक्रयसंपन्नहट्टाट्टालकचत्वराम् ॥
बहुहर्म्यगृहाकीर्णां सौधपंक्तिविराजिताम् ॥१६॥
स्फाटिकाभित्तिरचितां वैडूर्यमणिभूमिकाम् ॥
प्रवालस्तंभप्रवरां हेमाभरणसंभराम् ॥१७॥
आरक्तमणिदेहल्यां द्वारशाखाभिमंडिताम् ॥
जांबूनदकपाटाढ्यां वज्रार्गलसुसंस्कृताम् ॥१८॥
मणिरत्नसमाभूमिद्वाराजिरगृहांतराम् ॥
घोषजालातिरम्यां च मुक्तादामविलंबिनीम् ॥१९॥
हेमस्तं भध्वजोपेताः पताकाश्च गृहेगृहे ॥
कलशाश्च विराजंते मणिहेमाचिता गृहे ॥२०॥
वापीकूपतडागानि सरांसि विमलानि च ॥
पद्मकिंजल्कगंधीनि जलयंत्रोपशोभिताम् ॥२१॥
हंसकारंडवाकीर्णां शिखंडिगणशोभिताम् ॥
जलयंत्रकृताधारां गृहवापीवनाकराम् ॥२२॥
क्वचिन्नृत्यंति मयूराः क्वचित्कूजंति कोकिलाः ॥
भ्रमरावलीढपुष्पाढ्यस्तबका वनराजयः ॥२३॥
नरनारीगणाकीर्णां वर्णाश्रमनिषेविताम् ॥
हर्म्यांतरागता नार्यो विलोकनपरा बभुः ॥२४॥
चंद्रमालाकृतश्रेणीतोरणानीव च शोभते ॥
एवं व्यास पुरी रम्या आत्मयोगेन वासिता ॥२५॥
यत्रालकापुरी रम्या कुबेरभवनांकिता ॥
धवला पुण्यजनैः कीर्णा पक्षिभिश्चोपशोभिता ॥२६॥
तत्र भोगवती दिव्या वरुणालय उत्तमः ॥
नागकन्याभिरुग्राभि र्नागपत्नीभिः संकुला ॥२७॥
संयमनीपुरी श्रेष्ठा धर्मराजेन पालिता ॥
सदाचारजनैः पूर्णा कृता कृतविचक्षणैः ॥२८॥
देवतानां पुरी रम्या वासवेनाभिरक्षिता ॥
पुण्यस्त्रीणां गणाकीर्णा किन्नरोद्गीतमंडिता ॥२९॥
एवंविधानि रम्याणि पुरा बहुतराणि च ॥
बहुविस्तीर्णमानानि शुभ्रा ण्यतितराणि च ॥३०॥
क्वचिद्रंभाकृतद्वारा यवांकुरघटाः शुभाः ॥
क्वचिद्गायन्ति गन्धर्वाः क्वचिन्नृत्यंति नर्तकाः ॥३१॥
क्वचिद्बालाः पठंति स्म वेदाध्ययनका द्विजाः ॥
क्वचिद्यज्ञान्यजंति स्म यजमानाः सऋत्विजः ॥३२॥
क्वचिच्चावभृथस्नाताः क्वचिद्दानान्यकुर्वत ॥
क्वचित्क्वचित्तूपनयनं विवाहाग्निपरिग्रहम् ॥३३॥
क्वचिदारामपूर्तं वै क्वचिद्यात्रावधारणम् ॥
वापीकूपतडागानां तथैव विधिपूर्वकम् ॥३४॥
क्वचित्कथाप्रसंगांश्च परिशंसंति वाचकाः ॥
क्वचिद्गाथाः प्रकुर्वंति कवयः पुर उत्तमे ॥३५॥
क्वचिन्मल्ला नियुध्यंते नटा नाट्यपराः क्वचित् ॥
तडागानि विराजंते मणिसोपानपंक्तिभिः ॥३६॥
चंचलाश्चपला बालाः श्यामाः षोडशवार्षिकाः ॥
वारिहारपरास्तत्र मणिहेमघटोत्कटाः ॥३७॥
एवं व्यास पुरी रम्या निर्मिता योगमायया ॥
शंभुना सर्वपापघ्नी प्रियाप्रियचिकीर्षया ॥३८॥
विशाला बहुविस्तीर्णा पुण्या पुण्यजनाश्रया ॥
तस्मात्सर्वेषु कालेषु सर्वलोकेषु गीयते ॥३९॥
विशालेति समाख्याता पुरी रम्या सनातनी ॥
यत्रतत्र स्थितो वापि सर्वावस्थां गतोऽपि वा ॥४०॥
विशालेति वदेन्नित्यं शिवलोके महीयते ॥
ईदृशी न पुरीव्यास भुवि ब्रह्मांडगोलके ॥४१॥
विशाला सदृशी चान्या भुक्तिमुक्तिप्रदा नृणाम् ॥
पितॄनुद्दिश्य कुर्वंति श्राद्धं काले नरा यदि ॥४२॥
तदक्षयं भवेत्तेषां पितृकल्पे च गीयते ॥
स्नानदानादिकं यैस्तु विशालायां प्रसंगतः ॥४३॥
यत्र कुत्र गतास्ते वै मृता यांति शिवालयम् ॥
धन्याः पुण्यतमा लोके प्रीतिर्येषां सदाचला ॥४४॥
विशालायां फलं शश्वच्छेषः शक्तो न वर्णितुम् ॥
कथाश्रवणमात्रेण वाच्यमानेन तत्क्षणात् ॥
महापापोद्भवात्पापान्मुच्यते नात्र संशयः ॥४५॥
एवं व्यास पुरी जाता विशाला च कुशस्थली ॥
प्रतिकल्पा यथा जाता तथा मे शृणु भाषतः ॥४६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्र माहात्म्ये विशालाभिधानकथनंनाम सप्तचत्वारिंशोऽध्यायः ॥४७॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP