संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ७१

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ७१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ व्यास उवाच ॥
भगव न्भवता सर्वं कथितं देवमूर्तिना ॥
अवंतीतीर्थमाहात्म्यं पवित्रं वेदसंमितम् ॥१॥
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥
महाकालवने रम्ये अवंत्यां भुवि सत्तम ॥
तीर्थानि कतिसंख्यानि विद्यंते ह्यत्र सुव्रत ॥२॥
॥ सनत्कुमार उवाच ॥
श्रूयतां भो द्विजश्रेष्ठ कथां पापहरां पराम् ॥३॥
उमामहेश्वरसंवादं नारदस्य च धीमतः ॥
नारदेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम ॥४॥
॥ नारद उवाच ॥
भगवञ्च्छ्रोतुमिच्छामि महाकाल वने शुभे ॥
तीर्थानि यानि वर्तंते तानि नो वद विस्तरात् ॥५॥
इति पृष्टस्तदा विप्र नारदेन पुराऽनघ ॥
उवाच श्लक्ष्णया वाचा उमया सहितो हरः ॥६॥
॥ श्रीमहादेव उवाच ॥
शृणुष्व भो ऋषिश्रेष्ठ महाकालवने शुभे ॥
तीर्थानि यानि तिष्ठंति तानि वक्ष्यामि सुव्रत ॥७॥
पुष्कराद्यानि तीर्थानि यानि कानि महीतले ॥
तानि सर्वाणि वर्तंते महाकालवनोत्तमे ॥८॥
असंख्यातसहस्राणि कोटिकोटीनि सत्तम ॥
रुद्रसरे निमज्जंति कोटितीर्थं तथोच्यते ॥९॥
नीहारकणिकावृष्टिं गिरौ वर्षंति किन्नराः ॥
हेमंते चैव दृश्यंते तीर्थे पैशाचमोचने ॥१०॥
न हि संख्यां विजानामि तीर्थानां भुवि सत्तम ॥
कियन्ति संति तीर्थानि लिंगानि च तथैव च ॥११॥
तथाऽपि च प्राधान्येन कथयिष्यामि सत्तम ॥
संवत्सरस्य यावंति अहानि च द्विजोत्तम ॥१२॥
तावंति प्रापणीयानि प्रसिद्धानि परंतप ॥
वत्सरे परिपूर्णे च जायतेऽवंतियात्रिका ॥१३॥
विधिवत्कुरुते यस्तु साक्षाच्छंभुर्भवेच्च सः ॥
मन्वंतरसहस्रेषु काशीवासे च यत्फलम् ॥१४॥
तत्फलं जायतेऽवंत्यां वैशाखे पंचभिर्दिनैः ॥
अवंती यात्रा कर्तव्या प्रयत्नेन मुमुक्षुणा ॥१५॥
माधवेऽपि विशेषेण ह्यवंतीस्नानमाचरेत् ॥
यो हि वैशाखमासाद्य अवंत्यां व्यास मानवः ॥१६॥
संवत्सरव्रती स्नातस्तीर्थेतींर्थे यथाविधि ॥
दत्त्वा दानानि सर्वाणि समूलं फलमश्नुते ॥१७॥
भुक्त्वा भोगान्सुविपुलाञ्छिवलोके महीयते ॥१८॥
माहात्म्यमेतच्छिवभक्तिवर्द्धनं यशस्करं पुण्यविवर्द्धनं च ॥
यः श्रावयेद्वा शृणुयाच्च भक्त्या कुलं समुद्धृत्य हरः पदं व्रजेत् ॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे ऽवन्तीक्षेत्रमाहात्म्यवर्णनंनामैक सप्ततितमोऽध्यायः ॥७१॥
 ॥ इति श्रीस्कांदे महापुराणे पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रथमं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP