अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३५
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
स्वर्णक्षुरे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ॥
कपिलाशतदानस्य फलमप्यधिकं भवेत् ॥१॥
वाप्यां पितामह स्यापि यः स्नायाद्विजितेंद्रियः ॥
हंसयुक्तेन यानेन ब्रह्मलोकं स गच्छति ॥२॥
तैलाभिधानमातॄणां रात्रौ यच्छति यो बलिम् ॥
तस्य सिद्धिर्भवे त्सद्यो मृतः शिवपुरं यजेत् ॥३॥
विष्णुवाप्यां नरः स्नात्वा चैत्रे वा फाल्गुनेऽथवा ॥
जागरं यस्तु कुर्वीत सोपवासो जितेन्द्रियः ॥
मुच्यते सर्व पापेभ्यो विष्णुलोकं स गच्छति ॥४॥
अभयेश्वरदेवस्य भक्त्या नियतमानसः ॥
पूजाबन्धमथो दृष्ट्वा रुद्रलोकं स गच्छति ॥५॥
लोके तु जायते दाता सार्वभौमो महीपतिः ॥
यस्त्वगस्त्वेश्वरं गच्छेदेकचित्तो नरो मुने ॥६॥
दृष्ट्वागस्त्येश्वरं देवं सोपवासो जितेंद्रियः ॥
अगस्त्योदयवेलायां मुच्यते सर्वपातकैः ॥७॥
कृत्वागस्त्यं च सौवर्णं रौप्यं वाथ स्वशक्तितः ॥
पञ्चरत्नसमायुक्तं वस्त्रेण च समन्वितम् ॥८॥
तत्कालीनैः फलैः पुष्पैः पूजनीयो विधानतः ॥
विधानं तस्य वक्ष्यामि चातुर्वर्ण्ये द्विजोत्तम ॥९॥
सप्तधान्यानि मुख्यानि तावन्त्येव फलानि च ॥
एकं धान्यं फलं चैकमग्रे त्याज्यं भवेन्मुने ॥१०॥
यावद्वै सप्त वर्षाणि व्रतमेवं समाचरेत् ॥११॥
॥ अर्घ्यमन्त्रः ॥
काशपुष्पप्रतीकाश वह्निमारुतसं भव ॥
मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥१२॥
दत्तेऽर्घे यत्फलं व्यास तद्वै ह्येकमनाः शृणु ॥
पुत्रवान्धनवांश्चैव जायते नात्र संशयः ॥१३॥
मृतः स्वर्गमवाप्नोति संपन्ने जायतेकुले ॥
मर्त्यलोकं पुनः प्राप्य महायोगीश्वरो भवेत् ॥१४॥
यश्चैतच्छृणुयान्नित्यं पठेद्वा सुसमाहितः॥
सर्वपापविनिर्मुक्तो मुनिलोके स मोदते ॥१५॥
॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खण्डेऽवन्तीक्षेत्रमाहात्म्येऽगस्त्येश्वरमाहात्म्यवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥३५॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP