अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ४०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
भगवन्भवता सर्वं भवभीतिविनाशकम् ॥
ईश्वरस्थानमाख्यातं समंतात्साग्रयोजनम् ॥१॥
यत्र क्षेत्रे मृता मर्त्याः सदाचारास्तथोत्तमाः ॥
विमानस्था पुरे नूनमैश्वरे ते वसंति च ॥२॥
यत्र कीटपतंगाद्या मृता यांति परां गतिम् ॥
किं तीर्थं पुण्यमन्यच्च महाकालवनादृते ॥३॥
तस्माद्ब्रूहि ममैकं तु प्रश्नं तथ्येन सांप्रतम् ॥
कथं कनकशृंगेति ख्याता ह्येषा पुरा मुने ॥४॥
कुशस्थली कथं नाम तथावंती कथं स्मृता ॥
पद्मावती कथं साधो कथमुज्जयिनी तथा ॥५॥
नाम्नां हेतुमथो तेषां ब्रूहि त्वं मुनिसत्तम ॥६॥
॥ सनत्कुमार उवाच ॥
शृणु व्यास प्रवक्ष्यामि यथा पूर्वं विरंचिना ॥
कथितं वामदेवाय गौरकल्पे पुरातने ॥७॥
महेशेन भगवता विधिश्चैवात्र हेतुतः ॥
पृष्टस्तु स्वश्च्युतानां च कुतो निवसतां सुखम् ॥८॥
स्वर्गप्राप्तिश्च भवति स्वेच्छाचारविहारिणाम् ॥
कोऽतिपुण्यतमः श्रेष्ठः प्रदेशः पापदारकः ॥९॥
कुतो निवर्तितं चित्तं जायते वसतां क्वचित् ॥
वसतामपि लोके शमैहिकं पारलौकिकम् ॥
एतन्मे भगवन्ब्रूहि हितार्थं सर्वदेहिनाम् ॥१०॥
॥ सनत्कुमार उवाच ॥
एवमादौ पुरा कल्पे प्रोक्तः श्रेष्ठः स शंभुना ॥११॥
प्रोवाच पार्वतीकांतं प्रभुः प्रीतः पितामहः ॥
भगवन्सर्वकर्ता त्वं सर्वदर्शी सदाशिवः ॥१२॥
अजानन्निव त्वं सर्वं मां पृच्छसि सनातन ॥
यत्र कल्पांतको वह्निरधिज्वालः प्रतिष्ठितः ॥१३॥
त्वमेव च महाकालः सर्वं वै ज्ञायते त्वया ॥
नाथ ये मानवास्तत्र सदाचारास्तथा परे ॥१४॥
निवसंति न ते मर्त्याः सुरास्ते वै न संशयः ॥
लभंते च पुनः स्वर्गं मृता वै कालपर्यये ॥१५॥
वर्तते च पुरी तत्र रम्यहर्म्या सुशोभना ॥
यस्यां भांति विचित्राणि हर्म्याणि विविधानि च ॥१६॥
स्वर्णशृङ्गाश्च प्रासादा विहिता विश्वकर्मणा ॥
देवाः संति सदा तत्र तीर्थानि विविधानि च ॥१७॥
पूर्वकल्पे स्थितोऽहं च यत्र त्वं केशवस्तथा ॥
तामेव च पुरीं द्रष्टुं सर्वे लोका ह्यवंतिकाम् ॥१८॥
तथा देवर्षयः सिद्धा यक्षकिंनरदानवाः ॥
आजग्मुः स्थाणुना सार्धं वेधसा ब्रह्मयोनिना ॥१९॥
तथैव च वरा नार्यो देवानामतिवल्लभाः ॥
समापेतुः सहस्राणि द्रष्टुमत्यद्भुतां पुरीम् ॥२०॥
आगत्य च यदा देवः सह देवैर्महेश्वरः ॥
वीक्षते नगरीं रम्यामपश्यदावृतां तथा ॥२१॥
प्रासादैः स्वर्णशृंगाढ्यैर्मणिरत्नविभूषितैः ॥
विश्वरूपो हि भगवान्राजा विश्वैक नायकः ॥२२॥
तत्रास्ते शोभने दिव्ये प्रासादे मणिभूषिते ॥
सेव्यमानः सुरैः सिद्धैर्मुनिविद्याधरोरगैः ॥२३॥
ततो महेशश्च पितामहश्च समेत्य तं विश्वपतिं ननंदतुः ॥
समर्चितौ तेन यथार्हमादरात्सहानुगावागमनं त्वपृच्छत् ॥२४॥
किमागतौ वा त्रिदिवान्महीतलं सहानुगावाश यकश्च कथ्यताम् ॥
ततस्तु तावूचतुरब्जजेश्वरौ भवान्तरे यत्र च तत्र नौ रतिः ॥२५॥
त्वया विना नैव सुरालये सुखं महीतले वाथ रसातलेऽ स्ति नः ॥
कदा त्वया कांचनशेखरा पुरी निवेशिता वेश्मवती विचित्रिता ॥२६॥
॥ हरिरुवाच ॥
त्वदर्थमेवेश विशेषशालिनी सृष्टा हि वै सर्वगुणाकरा मया ॥
प्रयच्छ विश्वेश्वर चावयोरिह स्थानं च तीर्थं प्रलयेऽक्षयं च ॥२७॥
ददाम्यभीष्टं युवयोरिहालयं प्रजापते ह्युत्तरतस्तव स्थितिः ॥
महेश्वर त्वं व्रज दक्षिणालयं स्थानं सुदत्तं युवयोः सुशोभनम् ॥२८॥
महाकालो ह्यधोज्वालो जगदात्मा प्रभुः स्थितः ॥
गणैरनेक साहस्रैरादृतः परमेश्वरः ॥२९॥
क्रीडार्थं नगरी सृष्टा सर्वभूतहितैषिणा ॥
मयाद्य युवयोर्दत्ता विहायाऽचलमात्मनः ॥३०॥
भवद्भ्यां हेमशृं गेति यस्माच्च समुदीरिता ॥
पुरी कनकशृंगेति लोके ख्याता भविष्यति ॥३१॥
एवं कनकशृङ्गेति प्रथमं नाम कथ्यते ॥३२॥
जपंतश्च स्थिता यत्र ब्रह्मविष्णुमहेश्वराः ॥
नित्यं रमंति भक्तानां सर्वाभीष्टफलप्रदाः ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कनकशृङ्गाभिधानवृत्तांतवर्णनंनाम चत्वारिंशोऽध्यायः ॥४०॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP