अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ व्यास उवाच ॥
भगवन्क्षेत्रमाहात्म्यं कथितं च यथातथम् ॥
तीर्थानामुत्तमं तीर्थं पुण्यानां पुण्यवर्धनम् ॥१॥
कति संत्यत्र तीर्थानि लिंगानि च तथा कति ॥
कथयस्व प्रसादेन पृच्छतो मम सांप्रतम् ॥२॥
॥ सनत्कुमार उवाच ॥
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ॥
महाकालवने व्यास लिंगसंख्या न विद्यते ॥३॥
अकामो वा सकामो वा जायते योऽत्र मानवः ॥
महाकालवने रम्ये शिवलोके महीयते ॥४॥
कृतकामानि तीर्थानि प्रासादायतनानि च ॥
तेषु स्नात्वा शुचिर्भूत्वा शिवलोके महीयते ॥५॥
पुण्यानि सर्वतीर्थानि सिद्धिक्षेत्राणि सर्वतः ॥
तेषां मुख्यतमं विद्धि क्षेत्रं तीर्थं तथोत्तमम् ॥६॥
यः शृणोति महाभक्त्या स याति परमां गतिम् ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्य खण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनमाहात्म्यवर्णनंनामैकोनचत्वारिंशोऽध्यायः ॥३९॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP