संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ५३

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ५३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
पृथिव्यां यानि तीर्थानि तानि सर्वाणि सुव्रत ॥
अवंत्यां सुन्दरे तीर्थे तिष्ठंति सर्वदा भुवि ॥१॥
॥ व्यास उवाच ॥
किमिदं सुन्दरं कुण्डं कदाकालेऽभवत्क्षितौ ॥
निर्मितं केन को देवः किं वा तस्य फलं स्मृतम् ॥२॥
॥ सनत्कुमार उवाच ॥
शृणु पुण्यतमे क्षेत्रे सुन्दराख्यं यदा ऽभवत् ॥
सर्वपापप्रशमनं वांछितार्थफलप्रदम् ॥३॥
यस्य श्रवणमात्रेण ब्रह्महत्या व्यपोहति ॥
अश्वमेधादिकं पुण्यं वाजपेयश ताधिकम् ॥४॥
पुरा कल्पक्षये व्यास नष्टकल्पा च मेदिनी ॥
प्रचण्डवातवर्षाभ्यां चूर्णितो मेरुपर्वतः ॥५॥
तदात्र पतितं व्यास वैकुण्ठशिखरोत्तमम् ॥
महाकालवने घोरे गुह्ये चाव्ययके ध्रुवे ॥६॥
तत्क्षणात्पतिते शृंगे कुण्डं जातं सुनिश्चितम् ॥
रत्नसोपानमच्छोदं मुक्तासैकतपूरितम् ॥७॥
जांबूनदकरारोहं हेमपद्मविराजितम् ॥
कल्पद्रुमकृतच्छायं चिंतामणिसमुच्छ्रितम् ॥८॥
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम् ॥
बीजौषधिगणाकीर्णं सर्वतत्त्वाभिसंयुतम् ॥९॥
कल्पक्षये न क्षीयंते यानि तत्त्वानि सर्वशः ॥
तानि तत्र प्रतिष्ठंति मूर्तिमंति पराणि च ॥१०॥
वेदशास्त्रपुराणानि गाथागीतिक्षराक्षराः ॥
ॐकारश्च वषट्कारो गायत्री त्रिपदा परा ॥११॥
कलाः काष्ठा मुहूर्ताश्च लवत्रुटिपलं घटिः ॥
अहर्निशश्च यामाश्च पक्षमासावृतुस्तथा ॥१२॥
संवत्सरयुगाश्चैव कुण्डे तिष्ठंति मूर्तितः ॥
देवा यक्षाश्च नागाश्च गुह्यकाः किन्नरास्तथा ॥१३॥
गंधर्वाप्सरसो यक्षाः सिद्धाः किंपुरुषास्तथा ॥
उपासांचक्रिरे तस्य कल्पदोषभयातुराः ॥१४॥
ब्रह्मा रुद्रश्च कालश्च लोकपाला महौजसः ॥
केचिद्ध्यानपराः सिद्धास्तापसाः शंसितव्रताः ॥१५॥
तिष्ठंति बहुयुग व्यास यावत्कल्पः समाप्यते ॥
सुदर्शनसमाकारं पूरितं चामृतांबुभिः ॥१६॥
दिव्यपादपसंयुक्तं पारिजातगुणान्वितम् ॥
दिव्यस्त्रीस्नानगंधोदैर्वासितोद्गारिसौरभम्॥ १७॥
क्वचिन्मयूरा नृत्यंति क्वचित्कूजंति कोकिलाः ॥
क्वचित्केकारवाः क्वापि मेघघोषसमाकुलम् ॥१८॥
सुन्दरं सुन्दराकारं सुन्दरं तेन चोच्यते ॥
बहुपुण्यकरं व्यास सर्वपापहरं परम् ॥१९॥
यत्र संनिहितो विष्णुः शिवः शक्त्या युतो वशी ॥
उपासांचक्रिरे शश्वत्सर्वकालेषु सर्वदा ॥२०॥
पक्षार्धं पक्षमेकं च सुन्दरकुण्डे नरो वसेत् ॥
वैकुण्ठे नियतं वासो यावत्कल्पशतं भवेत्॥ २१॥
पक्षिकीटपतंगाश्च मृता यांति शिवालयम् ॥
किं पुनर्मानवा लोके स्नानपूताश्च तत्र वै ॥२२॥
ये ददति तिलान्धेनुं गजवा जिरथावनीः॥
दासीर्दासान्सुवर्णं च रत्नानि विविधानि च ॥२३॥
शय्यादानविमानानि दानानि विविधानि च ॥
न तेषां दानजं वेद्मि कीदृग्व्यास फलं भवेत्॥ २४॥
भूयः शृणु परं व्यास सुन्दरकुण्डफलं स्मृतम्॥
एकदा बहुपापेन पतितः पापयोनिषु ॥२५॥
पिशाचो मोक्षमापन्नः शिव रूपधरो गतः॥
पिशाचमोचने स्नात्वा दृष्ट्वा देवं महेश्वरम्॥२६॥
मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्महा भवेत्॥२७॥
॥व्यास उवाच॥
कोऽसौ पिशाच इति ख्यातः किं तेन दुष्कृतं कृतम् ॥
येन पापप्रसंगेन पिशाचत्वमुपागतः ॥२८॥
कथं तीर्थप्रसंगोऽस्य जातो वै द्विज सत्तम ॥
एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥२९॥
॥ सनत्कुमार उवाच ॥
शृणु व्यास महाख्यानं तीर्थमाहात्म्यमुत्तमम् ॥
यस्य श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥३०॥
ब्राह्मणो देवलो नाम दाक्षिणात्यो द्विजाधमः ॥
सदा पापरतो लोभी कूटसाक्षी च लंपटः ॥३१॥
गुरुद्रोही कितवो धूर्तो गुरुहा गुरुतल्पगः ॥
हेमहारी सुरापी च ब्रह्महा स्वामिद्रोहकः ॥३२॥
अभक्ष्यभक्षकश्चैव वेदशास्त्रविवर्जितः ॥
अनेकजन्मार्जितपापी सर्वधर्मबहिष्कृतः ॥।३३॥
विश्वासघातको मानी चोरसंगरतः खलः ॥
देशांतरगतो मंदश्चौरकार्यार्थसाधकः ॥३४॥
बहवो निहता मार्गे पापाचारेण जंतवः॥
मगधे स गतो दुष्टः प्रसंगात्पापकारिणाम्॥३५॥
तत्रैको ब्राह्मणो दांतो वेदवेदांगपारगः ॥
साग्निकः शुद्धसत्त्वस्थो ब्रह्मकर्मरतः सदा ॥३६॥
श्वशुरगृहे स्थिता भार्या तामादाय यशस्विनीम् ॥
चलितो यानमारुह्य तेन पापेन घातितः ॥३७॥
तस्य स्त्री च वरारोहा रूपलावण्यशालिनी ॥
पतिव्रता महाभागा दृढचित्ता शुचिस्मिता ॥३८॥
हते भर्तरि दुःखार्ता पतिविरहकातरा ॥
वने घोरे परिभ्रष्टा काष्ठान्यादाय भामिनी ॥३९॥
आरुरोह चितां दीप्तां पतिना हृष्टमानसा ॥
स च दुष्टतरः सर्वं तस्य विप्रस्य जीवनम् ॥४०॥
गृहीत्वा चलितो मार्गे गृहीतो राजकिंकरैः ॥
बंधयित्वा च तैः सर्वैस्तेन वित्तेन वै सह ॥
नीतोऽसौ राजभवनं निवेदितो राजसंनिधौ ॥४१॥
पातितो वै गले बद्ध्वा रज्जुना वृक्षकोटरे ॥
चांडालैर्घृष्टितो भूमावितस्ततः श्वपाकिभिः ॥४२॥
तेन कर्मविपाकेन रौरवं नरकं गतः ॥
षष्टिवर्षसहस्राणि विष्ठायां कृमितां गतः ॥४३॥
ततोऽन्यं नरकं प्राप्तो यमशासनकारकैः ॥
असिपत्रवनं घोरमायसं तप्तसायकम् ॥४४॥
मुद्गरैस्ताड्यमानो हि शृंखलाभिश्च किंकरैः ॥
कुंभीपाकगतौ रौति वैतरण्यां सुपीडितः ॥४५॥
एवं बहुविधान्कुण्डान्भुक्त्वा पापी नवान्नवान् ॥
ततः प्रेतत्वमापन्नो युगानां पंचसप्ततिम् ॥४६॥
महाकायो महारावो महोदरः सूचीमुखः ॥
क्षुत्तृड्भ्यां च पराक्रांतो मरुदेशं समाश्रितः ॥४७॥
ततः कष्टतरां प्राप्य पैशाचीं तनुमाश्रितः ॥
कुटिलो दुष्टभावश्च दुष्टचारी दिगंबरः ॥४८॥
विण्मूत्रदूषितोच्छिष्टपूतिपर्युष्टभोजनः ॥
श्मशानोच्छिष्टभोजी च कृत्तिवासा विलोचनः ॥४९॥
भग्नवापीतडागे च शुष्कवृक्षे निरूदके ॥
प्राकारपरिखागारे शून्यागारे नदीतटे ॥५०॥
निवासो रोचते तस्य सर्वदा सर्वसंधिषु ॥
एवं बहुयुगे याते महाकालवने गतः ॥५१॥
यत्र माहेश्वरं लिंगं सुन्दरं कुंडमुत्तमम् ॥
तत्रोषितत्वमात्रेण सिंहेन विनिपातितः ॥५२॥
घातयित्वा च तं पापं जलार्थी कुंडमाविशत् ॥
दंष्ट्रांतरगतं चास्थ्यपतत्तस्य मुखाज्जले ॥५३॥
तेन पुण्यप्रभावेन सर्वपापं क्षयं गतम् ॥
मृतमात्रे च लिंगं तन्नेत्रांतरगतं तदा ॥५४॥
हित्वा पैशाचकं देहं ज्योतिस्तल्लिंगमाविशत्॥
तदारभ्य परं व्यास तीर्थं पैशाचमोचनम्॥५५॥
पिशाचमोचनेशेति देवः ख्यातिं ततो गतः ॥
तावद्गर्जंति पापानि मदोन्मत्तगजा यथा॥५६॥
यावन्नायाति शिप्रायास्तीर्थे पैशाचमो चने ॥
पिशाचमोचने स्नात्वा शुचिर्भूत्वा समाहितः ॥५७॥
पिशाचमोचनं देवं पूजयित्वा यथाविधि ॥
सर्वपापविशुद्धात्मा जायते नात्र संशयः ॥५८॥
पिशाचमोचने व्यास महादानानि कारयेत् ॥
न तस्य पुनरावृत्तिः शिवलोकात्कदाचन ॥५९॥
पिशाचमोचनकथां पवित्रां पापहारिणीम् ॥
यः पठेच्छणुयाच्चैव हयमेधफलं लभेत् ॥६०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽव न्तीक्षेत्रमाहात्म्ये सुन्दरकुंडपिशाचमोचनतीर्थमाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP