संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ५४

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ५४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ व्यास उवाच ॥
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥
नीलगंगा कदा ब्रह्मञ्छिप्राकुंडे समागता ॥१॥
॥ सनत्कुमार उवाच ॥
शृणु व्यास महातीर्थं सर्वतीर्थफल प्रदम् ॥
नीलगंगां नरः स्नात्वा संगमेश्वरमर्चयेत् ॥२॥
दुःसंगसंभवा दोषा न भवंति कदाचन ॥
एकदा ब्रह्मलोके वै गंगा त्रिपथगा नदी ॥३॥
गता पुनंती त्रील्लोकान्नीलवासा शुचार्दिता ॥
भगवन्किमिदं जातं पातकं मे कृतं पुरा ॥४॥
दुष्टाचारापराधेन येनेमां प्रापिता दशाम् ॥
सर्वलोकेषु यत्किंचिजनानां पातकं भुवि ॥५॥
तत्सर्वं तिष्ठति मयि सर्वेषामपि देहिनाम् ॥
तेनाहं वै भराक्रांता नो शक्या चलितुं धराम् ॥६॥
नीलभासा विवर्णा च सर्वधर्मबहिर्मुखा ॥
यत्किंचित्क्रियते कर्म शुभं वा यदि वाऽशुभम्॥७॥
मयि त्यक्त्वा पुनंतीह जंतवः सर्वशोऽमलाः ॥
तिष्ठंति पुण्यलोकेषु भुक्तिमुक्तिप्रदेषु च ॥८॥
अस्माकं च महत्कष्टं जातं धातः परं मलम् ॥
न हि शर्म न वै शांतिर्न निद्रा न च निर्वृतिः ॥९॥
न लोके च स्थितिर्मेद्य पापिष्ठायाः सनातनी ॥
दुष्टसंगोद्भवैदोंषैः प्लाविताहं जगद्गुरो ॥१०॥
किं करोमि क्व गच्छामि येन शांतिर्भवेन्मम ॥
किं तपः किं च दानं मे किं तीर्थं किं च साधनम्॥ ११॥
येनाहं पापलिप्तांगी पुनः प्रकृतिमाप्नुयाम् ॥
एवं ज्ञात्वा महायो गिन्यथा योग्यं तथा कुरु ॥१२॥
॥ ब्रह्मोवाच ॥
श्रूयतां भोः सरिच्छ्रेष्ठे कारणं पापनाशनम् ॥
महाकालवने रम्ये पुरी ह्येषा ऽमरावती ॥१३॥
तत्र शिप्रा सरिच्छ्रेष्ठा वर्तते भुवि पावनी॥
तस्या दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥१४॥
तत्र गच्छ महाभागे सद्यश्चात्म विशुद्धये ॥
ब्रह्मणेति समाख्यातं श्रुत्वा गंगा सरिद्वरा ॥१५॥
तमभिज्ञाय संप्राप्ता महाकालवनं शुभम् ॥
पुष्करस्याग्निभागे च यत्र देवो मरुत्सुतः ॥१६॥
विंध्यस्य चोत्तरे भागे अंजन्याश्रममुत्तमम्॥
सा पुत्रेण तपस्तेपे पवित्रा ब्रह्मचारिणी ॥१७॥
पतिव्रताभिः सर्वाभिः पतिभिर्ब्रह्मचारिभिः ॥
देवांगनाभिर्बहुभिः क्रीडद्भिर्बालकुंजरैः ॥१८॥
सरसीफुल्लकल्हारैर्मत्तालिकुलनादितैः ॥
निर्वैरजंतुभिः सेव्यं ब्रह्मर्षिगणसे वितम् ॥१९॥
मनोह्रादकरं पुण्यं पवित्रं पापनाशनम् ॥
तत्र प्रवेशमात्रेण नीलवासाः सरिद्वरा ॥२०॥
शुक्लवासाऽभवत्सद्यो नष्टपापमला ऽशुभा ॥
शरच्चंद्रनिभाकारा धूतपापा पयस्विनी ॥२१॥
तत्रैव चाश्रमं चक्रे मनःसंहर्षकारणम् ॥
तत्प्रभृति समाख्यातं सर्वलोकेषु पुण्यदम् ॥२२॥
नीलगंगेति वै व्यास तीर्थं किल्विषनाशनम् ॥
अस्मिंस्तीर्थे नरः स्नात्वा हनुमंतमथार्चयेत् ॥२३॥
तस्य सिद्धिः करगता भविष्यति न संशयः ॥
आश्विने मासि संप्राप्ते कृष्णपक्षे समाहितः ॥२४॥
दर्शे पितॄन्समुद्दिश्य श्राद्धं कुर्यान्महालयम् ॥
तारितं च कुलं सर्वं तेनात्मैकोत्तरं शतम् ॥२५॥
समगोत्रेषु ये जाताः पूर्वजा निरयवासिनः ॥
ते सर्वे सद्गतिं यांति तेषां लोकाः सनातनाः ॥२६॥
स्नात्वा तिलांजलिं दद्यात्पितॄ नुद्दिश्य तत्परः ॥
अक्षया जायते तृप्तिः स्वर्गलोके महीयते ॥२७॥
भोजयेद्ब्राह्मणान्सप्त श्राद्धं कृत्वा तु पायसैः ॥
अक्षयं लभते श्राद्ध मश्वमेधफलं भवेत् ॥२८॥
तीर्थं पुण्यतरं व्यास शृणु चान्यद्वदामि ते ॥
दुग्धकुंडमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ॥२९ ।
सर्वपापहरं पुण्यं सर्वकामवरप्रदम्॥
पुरा दुग्धधरा देवी पृथुना धर्ममूर्तिना॥ ३०॥
दुग्धं सर्वं हविर्भाव्यं सर्वेषां जीवनप्रदम् ॥
दत्तं निधाय कुंडेस्मिंस्तेन दुग्धसरः स्मृतम् ॥३१॥
कुंडे स्नात्वा पयः पीत्वा दत्त्वा गां च पयस्विनीम् ॥
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ॥३२॥
जायते सर्वकालेषु मृतः स्वर्गपुरं व्रजेत् ॥
ततः पुष्करमासाद्य स्नानदानादिकं चरेत् ॥३३॥
सर्वपापविशुद्धात्मा पुष्करस्य फलं लभेत् ॥३४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगंगामाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP