अवन्तीक्षेत्रमाहात्म्यम् - अध्याय २४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
वाल्मीकेश्वरमित्याख्यं यस्तु देवं प्रपूजयेत् ॥
मौनी ध्यानपरो भूत्वा स कवित्वमवाप्नुयात् ॥१॥
॥ व्यास उवाच ॥
कथमत्र समुत्पन्नः कोऽसौ वाल्मीकेश्वरः प्रभुः ॥
यस्य दर्शनमात्रेण कवित्वमुपजायते ॥२॥
॥ सनत्कुमार उवाच ॥
आसीद्व्यास पुरा विप्रः सुमतिर्भृगु वंशजः ॥
रूपयौवनसंपन्ना तस्य भार्याथ कौशिकी ॥३॥
तस्य पुत्रः समुत्पन्नो ह्यग्निशर्मेति नामतः ॥
स पित्रा प्रोच्यमानोऽपि वेदाभ्यासं न मन्यते ॥४॥
ततो बहुतिथे काले अनावृष्टिरजायत ॥
तस्यां विपद्गतः सोऽथ दक्षिणामाश्रितो दिशम् ॥५॥
ततोऽसौ सुमतिर्विप्रः सभार्यः स सुतस्तथा ॥
विदेशं काननं प्राप्तः कृत्वा चाश्रममाश्रितः ॥६॥
आभीरैर्दस्युभिः सार्धं संगोऽभूदग्निशर्मणः॥
आगच्छति पथा तेन यस्तं हंति स पापकृत्॥ ७॥
स्मृतिर्नष्टा गता वेदा गतं गोत्रं गता श्रुतिः ॥
कस्मिंश्चिदथ काले तु तीर्थयात्रा्प्रसंगतः॥ ८॥
सप्तर्षयः पथा तेन सुव्रताः समुपस्थिताः ॥
अग्निशर्माथ तान्दृष्ट्वा हन्तुकामोऽब्रवीदिदम्॥ ९॥
वस्त्राणीमानि मुच्यध्वं छत्रिकोपानहौ तथा ॥
हन्तव्या हि मया यूयं गन्तारो यम सादने ॥१०॥
तस्य तद्वचनं श्रुत्वा अत्रिर्वचनमब्रवीत्॥
अस्मत्पीडनजं पापं कथं ते हृदि वर्तते ॥
वयं तपस्विनो भूत्वा तीर्थयात्राकृतोद्यमाः ॥११॥
॥ अग्निशर्मोवाच ॥
ममास्ति माताथ पिता सुतो भार्या गरीयसी ॥
पोषयामि सदा तांस्तु एतन्मे हृदि संस्थितम् ॥१२॥
॥ अत्रिरुवाच ॥
पित्रादीनाशु पृच्छस्व स्वकर्मोपार्जितं प्रति ॥
यद्युष्मदर्थं क्रियते पापं तत्कस्य कथ्यताम् ॥१३॥
यदि ते कथयंति स्म मा मृषा प्राणिनो वधीः ॥१४॥
॥ अग्निशर्मोवाच ॥
न कदाचिन्मया ते तु संपृष्टा ईदृशं वचः॥
युष्माकं वचसा मेऽद्य प्रतिबोधः प्रवर्तते ॥१५॥
गत्वा पृच्छामि तान्सर्वान्कस्य भावश्च कीदृशः ॥
यूयमत्रैव तिष्ठध्वं यावदागमनं मम ॥१६॥
इत्युक्त्वा ताञ्जगामाशु पितरं स्वमुवाच ह ॥
धर्मस्य प्रतिघातेन प्राणिनां पीडनेन च ॥१७॥
सुमहद्दृश्यते पापं कस्य तत्कथ्यतां मम ॥
पिता प्राह तथा माता नापुण्यमावयोरिह ॥१८॥
त्वं जानासि यत्कुरुषे कृतं भाव्यं पुनस्त्वया ॥
तयोस्तद्वचनं श्रुत्वा भार्या वचनमब्रवीत् ॥१९॥
तयाप्युक्तं न मे पापं पापमेतत्तवैव हि ॥
तद्वाक्यमब्रवीत्पुत्रं बालोऽहमितिसोऽब्रवीत् ॥२०॥
तज्ज्ञात्वा हृदयं तेषां चेष्टितं चैव तत्त्वतः ॥
नष्टोऽहमिति मन्वानः शरणं मे तपस्विनः ॥२१॥
क्षिप्त्वाथ लगुडं कृष्णं येन वै जंतवो हताः॥
प्रकीर्य केशांस्त्वरित ऋषीणामग्रतः स्थितः ॥२२॥
प्रणम्य दंडपातेन ततो वचनमव्रवीत् ॥
न मे माता न च पिता न भार्या न च मे सुतः ॥२३॥
सर्वैस्तैः परिमुक्तौऽहं भवतां शरणं गतः ॥
सुष्ठूपदेशदानान्मां नरकात्त्रातुमर्हथ ॥२४॥
एवं तं वादिनं दृष्ट्वा ऋषयोऽत्रिमथाब्रुवन्॥
भवतो वचनादस्य प्रतिबोधः समागतः ॥२५॥
भवताऽयमनुग्राह्यः शिष्यो भवतु ते मुने ॥
तथेत्युक्ताथ तान्प्राह चाग्निं ध्यानं समाचर ॥२६॥
अनेन ध्यानयोगेन महामंत्रजपेन च ॥
अनेकदुस्तरात्युग्रपापकृज्जनघातकः॥
संस्थितो वृक्ष मूले त्वं परा सिद्धिं गमिष्यसि ॥२७॥
इत्युक्त्वा ते ययुः सर्वे संकामं सोऽपि तत्र वै ॥
तद्ध्यानस्थोऽभवद्योगी वत्सराणि त्रयोदश ॥२८॥
तस्योपर्यभवत्तत्र वल्मीकोऽविचलस्य च ॥
निवृत्तास्तु पथा तेन मुनयस्तत्र शुश्रुवुः ॥२९॥
उदीरितं ध्वनिं तेन वल्मीके विस्मयान्विताः ॥
ततः खनित्वा वल्मीकं काष्ठीभूतोरुशंकुभिः ॥३०॥
तं दृष्ट्वोत्थापयामासुर्मुनयो नयसंयुतम् ॥
नमश्चक्रेऽथ तान्सर्वान्स विप्रो मुनिपुंगवान् ॥३१॥
तान्प्राह प्रणतो भूत्वा तपसा दीप्ततेजसः॥
प्रसादाद्भवतामद्य ज्ञानं लब्धं मया शुभम्॥३२॥
दीनोऽहमुद्धृतः सर्वैर्मग्नोऽहं पापकर्दमे ॥
तस्येति ते वाक्यमूचुः परमधार्मिकाः ॥३३॥
वल्मीकेऽस्मिन्स्थितः पुत्र यतस्त्वमेकचित्ततः ॥
वाल्मीकिरिति ते नाम भुवि ख्यातं भवि ष्यति ॥३४॥
इत्युक्त्वा मुनयो जग्मुः स्वां दिशां तपसान्विताः ॥
गतेषु मुनिमुख्येषु वाल्मीकिस्तपतां वरः ॥
कुशस्थल्यामथागम्य समाराध्य महेश्वरम् ॥३५॥
तस्मात्कवित्वमासाद्य चक्रे काव्यं मनोरमम् ॥
रामायणं च यत्प्राहुः कथां सुप्रथमस्थिताम्॥ ३६॥
ततः प्रभृति देवेशो वाल्मीकेश्वरसंज्ञकः ॥
ख्यातोऽवंत्यां ततो व्यास नृणां कवित्वदायकः ॥३७॥
इति ते कथितं लिंगं वाल्मीकेश्वरमुत्तमम् ॥
यस्य दर्शनमात्रे ण कवित्वमुपपद्यते ॥३८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवंतीक्षेत्रमाहात्म्य वाल्मीकेश्वरमाहात्म्य वर्णनं नाम चतुर्विंशोऽध्यायः ॥२४॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP