अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ३८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
नास्ति शेषं यदा रक्तं पीयमानं च रक्षसः ॥
चामुंडायास्ततो रक्तमभूदास्यं च भासुरम् ॥१॥
कृष्णं कृतांतकल्पांतं करालदशनाधरम् ॥
प्रज्वलत्यंधके शांतं ज्वलत्केसरलोचनम् ॥२॥
घोरघर्घरनिर्घोषस्फीतफेत्कारविस्वरम् ॥
तार्क्ष्यपक्षकृतापीडं तीक्ष्णदंष्ट्राकुरोज्ज्वलम् ॥३॥
तस्मिन्मुखे कपालाग्रं निधाय रुषितानना ॥
अपिबद्रुधिरं चंडी चण्ड दोर्दंडमंडिता ॥४॥
तया पिबंत्या दैत्येंद्रः शरीरे कृशतां गतः ॥
क्षयं निन्येऽथ संक्षीणक्षुद्रक्षुभितवीक्षणः ॥५॥
इत्थं निर्वीर्यदेहोऽसौ बभूवांध कदानवः ॥
सर्वां संहृत्य मायां यो बलं क्षीणमथाकरोत् ॥६॥
तीव्रं भयं समासाद्य प्राणत्राणपरायणः ॥
दृष्ट्वा नान्यां गतिं लोके दैत्यस्तुष्टाव शंकरम् ॥७॥
कृतांजलिपुटो भूत्वा रोमांचितशरीरकः ॥
सात्त्विकं भावमापन्नस्त्यक्त्वा चैव रजस्तमः ॥८॥
लोकानां कारणं देवं विबुधाधि पतिं प्रभुम् ॥
शश्वद्बुद्ध्यान्वितो भक्त्या निर्मलेनांतरात्मना ॥९॥
श्लाघ्यं शिवं च तुष्टाव देवं चंद्रार्धशेखरम् ॥१०॥
॥ अंधक उवाच ॥
कृत्स्नस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखदाता॥
संसारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि ॥११॥
यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः ॥
ध्यायंति येऽखिलधियोऽमितदिव्यभूतिं तं शंकरं शरणदं शरणं व्रजामि ॥१२॥
यश्चंद्रखंडममलं विलसन्मयूखं बद्ध्वा सदा सुरसरिच्छिरसा बिभर्ति ॥
यस्यार्धदेहमभजद्गिरिराजपुत्री तं शंकरं शरणदं शरणं व्रजामि ॥१३॥
यः सिद्धचारणनिषेवितपादपद्मो गंगां महोर्मिविषमां गगनात्पतंतीम् ॥
मूर्ध्ना दधे स्रजमिव त्रिजगत्पुनंतीं तं शंकरं शरणदं शरणं व्रजामि ॥१४॥
कैलासशैलशिखरं प्रविकंप्यमानं कैलासशृंगसदृशेन दशाननेन ॥
यः पादपद्मपरिपीडनसेव्यमानस्तं शंकरं शरणदं शरणं व्रजामि ॥१५॥
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमशातयद्यः ॥
व्यष्टंभयत्कुलिशहस्तमथेंद्रमीशं तं शंकरं शरणदं शरणं व्रजामि ॥१६॥
येनासकृद्दितिसुताश्च दनोः सुताश्च विद्याधरोरगगणाश्च वरैः समग्रैः ॥
संयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि ॥१७॥
एवं कृतेपि विषयेष्वपि सक्तभावा ज्ञानेन च श्रुतगुणैरपि तेन युक्ताः ॥
यं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजा मि ॥१८॥
ब्रह्मेंद्रविष्णुमरुतां च सषण्मुखानां योऽदाद्वरान्सुबहुशो भगवान्महेशः ॥
सूतं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि ॥१९॥
आराधितस्तु तपसा हिमवन्निकुंजे धूम्रव्रतेन तपसा च परैरगम्यः ॥
संजीवनीं समददाद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि ॥२०॥
क्रीडार्थमेव भगवान्भुवनानि सप्त नानानदीविहगपादपमंडितानि ॥
सब्रह्मकानि ससृजे सुकृताभिधानि तं शंकरं शरणदं शरणं व्रजामि ॥२१॥
यः सव्यपाणिकमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव करालरंध्रम् ॥
ब्राह्म्यं शिरस्तरणिपद्मनिभं चकर्त तं शंकरं शरणदं शरणं व्रजामि ॥२२॥
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य ॥
ऐश्वर्यमानविगमेऽनुशयेन पश्चात्ते यातनामनुभवंति यथाहमेव ॥२३॥
यः पठेत्स्तुतिमिमां शुचिकर्मा यः शृणोति सततं शिवभक्तः ॥
विप्रसंसदि सदा शुभकर्मा स प्रयाति शिवलोक मखंडम् ॥२४॥
॥ सनत्कुमार उवाच ॥
तस्यैवं स्तुवतो देवः शूलपाणिर्वृषध्वजः ॥
पूर्णे वर्षशतस्यांते प्रीतः प्रोवाच शंकरः ॥२५॥
पुत्र तुष्टोऽस्मि भद्रं ते जातस्त्वं निर्मलोऽधुना ॥
दिव्यं ददामि ते चक्षुः पश्य मां विगतज्वरः ॥२६॥
यच्च ते मनसा वापि किंचिच्च कांक्षितं फलम् ॥
तत्तत्सर्वं प्रदास्यामि ब्रूहि दानवसत्तम ॥२७॥
॥ दानव उवाच ॥
ब्राह्म्यं वैष्णवमेंद्रं वा पदमावृत्तिलक्षणम् ॥
विदितं मम तत्सर्वं मनागपि न कांक्षये ॥२८॥
यदि तुष्टोऽसि देवेश गाणपत्यं ददस्व मे ॥
सविशेषं विशुद्धं च तदक्षय्यं च सर्वदा ॥२९॥
॥ महादेव उवाच ॥
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ॥
भविष्यसि गणाध्यक्षः सर्वलोकनमस्कृतः ॥३०॥
कामरूपो महायोगी महासत्त्वो महाबलः ॥
अणिमादिगुणैर्युक्तः प्रियश्च मम सर्वदा ॥३१॥
॥ सनत्कुमार उवाच ॥
ततश्च सोंऽधकः श्रीमान्वराँल्लब्ध्वा सुदुर्लभान् ॥
महादेवगणो भूत्वा तत्रैवांतरधीयत ॥३२॥
गतेंऽधके ततो देव्यो ब्रह्माण्याद्याः समागताः ॥
स देवो यत्र भगवानंधकस्य वरप्रदः ॥३३॥
तास्तष्टुवुर्महादेवमथ तुष्टो महेश्वरः ॥
चामुंडा च महेशेन समाश्वस्ता शिवाऽभवत् ॥३४॥
शंकरं प्रणतं दृष्ट्वा तासामग्रे व्यवस्थितम् ॥
ब्रह्मादयोऽपि ते हृष्टास्तुष्टुबुर्विविधैः स्तवैः ॥३५॥
प्रशांतास्ता यदा हृष्टाः शंभुना रुधिराशनाः॥
तदा वोचदिदं वाक्यं तासां स्थित्यर्थमुत्तमम् ॥३६॥
आवंत्ये विषये सर्वा यस्माजाता महाबलाः ॥
आवंत्यमातरस्तस्मात्ख्याता लोके भविष्यथ ॥३७॥
अवंत्यां प्रीतिसंपन्नाः सर्वपापप्रणाशिनीः ॥
स्थिरा वसंत्यो लोकानां वरदाश्च भविष्यथ ॥३८॥
श्रावणस्य तु मासस्य अमावास्यां समाहिताः ॥
ये द्रक्ष्यंति सदा भक्त्या तेषां लोका महोदयाः ॥३९॥
अपुत्रो लभते पुत्रान्धनार्थी लभते धनम् ॥
रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः ॥४०॥
हंसयुक्तेन यानेन पितृलोके महीयते ॥
पुरीमिमां च रक्षध्वं कल्पेकल्पे क्रमेण तु॥ ४१॥
एवमुक्त्वा तु देवेशो गतः कैलास पर्वतम् ॥
स्तूयमानो गणै रौद्रैर्दैत्यामरगणेश्वरैः ॥४२॥
असुरसुरगणानां नायकस्यानुकीर्तिं कथयति कथनीयां श्रद्धया यः शृणोति ॥
सकल सुखनिधानं रुद्रलोकं स कांतं सुरगणदनुनाथैरर्चितं यात्यनंतम् ॥४३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्येऽन्धकवृत्तांतवर्णनंनामाष्टात्रिंशोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP