संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय २

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
पुरा त्वेकार्णवे प्राप्ते नष्टे स्थावरजंगमे ॥
नाग्निर्न वायुरादित्यो न भूमिर्न दिशो नभः ॥१॥
 न नक्षत्राणि न ज्योतिर्न द्यौर्नेंदुर्ग्रहा स्तथा ॥
न देवासुरगंधर्वाः पिशाचोरगराक्षसाः ॥२॥
सरांसि नैव गिरयो नापगा नाब्धयस्तथा ॥
सर्वमेवतमोभूतं न प्राज्ञायत किंचन ॥३॥
तदैको हि महाकालो लोकानुग्रहकारणात् ॥
तस्थौ स्थानान्यशेषाणि काष्ठास्वालोकयन्प्रभुः ॥४॥
सृष्ट्यर्थं स महाकालः करे कामं प्रतिष्ठितम् ॥
दक्षिणस्य तु तर्जन्यां स ममंथाविशोषितम् ॥५॥
कललं बुद्बुदं भूत्वा तविवेगविवर्द्धितम् ॥
जज्ञे तदंडं सुदृढं सुष्ठु वृत्तं हिरण्मयम् ॥६॥
करेण ताडितं तद्धि बभूव द्विदलं महत् ॥
अधःखंडं स्मृता भूमिरूर्ध्वं द्यौस्तारकान्वितम् ॥७॥
मध्येऽभवत्तदा ब्रह्मा पंचवक्त्रश्चतुर्भुजः ॥
महेश्वरोऽनुमान्यैव तमयोजदनंतरम् ॥८॥
कुरु सृष्टिं महाबाहो विचित्रां मदनुग्रहात् ॥
इत्युक्त्वांतर्हितः क्वापि देवो ब्रह्मा न जग्मिवान् ॥९॥
प्रेर्यमाणोऽपि वै स्रष्टुं ब्रह्मा देवमचिंतयत् ॥
ब्रह्मणा ध्यायमानश्च ज्ञानार्थं भगवान्भवः ॥१०॥
ब्रह्मणस्तपसा दृष्टः प्रादाद्वेदं षडंगकम् ॥
लब्धे वेदेऽपि न चिरात्सष्टिं कर्तुं शशाक सः ॥११॥
तपसाऽतिष्ठदा भूयः समाराधयितुं भवम् ॥
नापश्यत्स यदा देवं तदा तुष्टाव भावितः ॥१२॥
॥ ब्रह्मोवाच ॥
नमः शिवायामलसत्त्वचेतसे गुणत्रयातीतविसारितेजसे ॥
षडंगवेदस्य ममापि वेधसे परस्वरूपानुभवाय चक्षुषे ॥१३॥
नमोऽ स्तु ते सृष्टिविधौ रजोजुषे जगत्स्थितौ सत्त्वमधिष्ठिताय ते ॥
 विनाशहेतौ तमसा महीयसे शिवाय निर्वाणसुखप्रदायिने ॥१४॥
अशेषभूतप्रकृतेः परा य वै परात्मरूपाय नमः शिवाय वै ॥
नृबुद्ध्यहंकारमनोविधायिने भर्त्रे च षड्विंशकरूपकाय वै ॥१५॥
भूतोयवह्न्यम्बरवायुचंद्रसूर्यात्मरूपाभिरिदं तनूभिः ॥
व्याप्तं जगद्यस्य नमोऽस्तु तस्मै भूतं भविष्यमथ वर्तमानम् ॥१६॥
यानीह तेजांसि जगंति यानि भूतानि भव्यान्यथ कारणानि ॥
भवंति सृष्टौ विलयं विनाशे व्रजंति यस्यात्मनि तं नमामि ॥१७॥
॥ सनत्कुमार उवाच ॥
एवं संस्तुवतो व्यास ब्रह्मणो भगवान्परः ॥
अन्तर्हित उवाचेदं ब्रह्मन्संयाच्यतां वरः ॥१८॥
स वव्रे मनसा पुत्रं भवं गौरवकारणात् ॥
विज्ञायांतर्गतं तस्य परमेश उवाच तम् ॥१९॥
यस्मान्मां मनसा पुत्रं चतुर्मुख समीहसे ॥
कस्मिंश्चित्कारणे तस्मादहं छेत्स्यामि ते शिरः ॥२०॥
अयाच्यं याचितं यस्मान्ममांशो नीललोहितः ॥
रुद्रो भविष्यति सुतः स च ते हिंस्यति प्रभाम् ॥२१॥
अन्यद्यस्मात्स्मृतो भक्त्या त्वयाहं पितृभावतः ॥
परब्रह्मस्वरूपेण जिज्ञासा मम या कृता ॥२२॥
तस्माद्ब्रह्मेति लोकेऽत्र नाम ख्यातं भविष्यति॥
पितामहत्वं तेनापि पितामहस्ततो ह्यसि ॥२३॥
लब्ध्वा शापवरावेवं पुत्रसृष्टिं चकार सः ॥
स्वतेजोजनितं वह्निं जुह्वतः स्वेदमावहत् ॥२४॥
समिद्युक्तेन हस्तेन ललाटं मार्जतोऽभवत्॥
स्विन्नभ्रष्टस्ततो रक्तबिंदुरेको विभावसौ ॥२५॥
स नीललोहितोऽभूद्वै स च रुद्रो भवाज्ञया॥
तदनन्तरमासाद्य उत्ततार सुतोंऽतिकात् ॥२६॥
पंचवक्त्रो दशभुजः शूलचापासिशक्तिमान् ॥
त्रिपंच नयनो रौद्रो व्यालयज्ञोपवीतकः ॥२७॥
सेन्दुः कपर्दं बिभ्राणः सिंहचर्मांबरंधरः ॥
जातमेवं स दृष्ट्वा तु ब्रह्मा नामाकरोत्तदा ॥२८॥
नीललोहितनामेति भव रुद्र पिनाकधृक् ॥
ततः प्रववृते सृष्टिः स्रष्टुर्लोकपितामहात् ॥२९॥
सप्तादौ मानसाञ्जज्ञे सनकादींस्ततोऽपरान्॥
मरीचि दक्षप्रभृतीन्मन्वादींश्च प्रजासृजः ॥३०॥
अष्टभेदान्सुरान्कृत्वा तिर्यग्योनिं च पंचधा ॥
मनुष्यानेकभेदांश्च सृष्टिमेवं ससर्ज ह ॥३१॥
सृष्टिः सुरादिका जाता कृत्वा ब्रह्माणमप्यधः ॥
प्रणम्याथ सिषेवुस्ते केवलं नीललोहितम् ॥३२॥
ततो ब्रह्माऽवदद्रुद्रमपूज्यो हि त्वया कृतः ॥
स्वतेजसा भवान्पूज्यो यतो याहि हिमालयम् ॥३३॥
तं नीललोहितः प्रोचे भवता नार्चितो ह्यहम् ॥
ततो जगाम रुद्रोऽसौ स यत्र भगवान्भवः ॥३४॥
ततो ब्रह्माऽभवन्मूढो रजसा चोपबृंहितः ॥
तताप तेजसा सृष्टिं मन्यमानो मया कृताम् ॥३५॥
 मत्तुल्यो नास्ति वै देवो येन सृष्टिः प्रवर्द्धिता ॥
सदेवासुरगन्धर्वा पशु पक्षिमृगाकुला ॥३६॥
एवं मूढः स पंचास्यो विरंच्योऽभवद्दर्पितः ॥
प्राग्वक्त्रं सुस्वरं तस्य सामवेदप्रवर्तकम् ॥३७॥
द्वितीयं वदनं तस्य ऋग्वे दस्य प्रवर्तकम् ॥
यजुर्वेदधरं चान्यदथर्वाख्यं चतुर्थकम् ॥३८॥
सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान् ॥
वेदानधीते वक्त्रेण पंचमेनोपचक्षुषा ॥३९॥
तस्याऽसुराः सुराः सर्वे वक्त्रस्याद्भुततेजसः ॥
तेजसा न प्रकाशंते दीपः सूर्योदये यथा ॥४०॥
सपुत्रा अपि सोद्वेगा बभूवुर्नष्ट चेतसः ॥
नाभिगन्तुं न च द्रष्टुं चिरं तेजोऽपसर्पितुम् ॥४१॥
अभिभूतमिवात्मानं मन्यमाना अविद्विषः ॥
सर्वे ते मन्त्रयामासुर्देवा वै हितमा त्मनः ॥४२॥
गच्छाम शरणं देवं निस्तेजा ब्रह्मतेजसा ॥
किं तु तस्य न जानीमः स्थानं यत्र व्यवस्थितः ॥४३॥
तं भीममत्र दक्ष्यामो भक्त्या नान्येन केनचित् ॥
एवं संमन्त्र्य ते देवाः कृतांजलिपुटास्तदा ॥
चक्रुः स्तोत्रं महेशस्य परया स्वरसंपदा ॥४४॥
॥ देवा ऊचुः॥
नमस्ते देवदेवेश महेश्वर नमोनमः ॥४५॥
न विद्मः परमं मूढा महिमानं तवातुलम्॥
यद्योगेन परं ब्रह्म भूतानां त्वं सनातनः ॥४६॥
प्रतिष्ठा सर्वभूतानां हेतुः सर्वस्य सर्जने ॥
बिभर्षि चैव नेत्रस्थान्सोमसूर्यविभावसून् ॥४७॥
नामसंकीर्तनादेव मुच्यन्ते जंतवोऽशुभात् ॥
पृथिव्यबग्निचन्द्रार्कव्योमवायूपलक्षणाः ॥४८॥
मूर्तयस्ते महादेव व्याप्तमाभिरशेषतः ॥
रजःसत्त्वतमोभावैर्भ्राम्यमाणं त्वया जगत् ॥४९॥
नावबुध्यति सर्वेश सर्वमूर्तिधरो यतः ॥
ब्रह्मादीनां सुरेशानां संमोहनविमोहनम् ॥
त्वं करोषि युगावर्तकाले काले च दुःसहम् ॥५०॥
॥ सनत्कुमार उवाच ॥
प्रत्यक्षं दर्शनं दत्त्वा देवानामनुकंपया ॥
प्रसन्नवदनो भूत्वा देवैश्चापि नमस्कृतः ॥५१॥
वासयन्मोहनाम्ना तु सह देवैर्महेश्वरः ॥५२॥
एवं संस्तूयमानोऽसौ देवर्षिपितृमानवैः ॥
अन्तर्हित उवाचेदं देवा ब्रूत यथेप्सितम् ॥५३॥
॥ देवा ऊचुः ॥
प्रत्यक्षं दर्शनं स्थाणो प्रार्थयाम सदा तव ॥
त्वया कारुण्यतोऽस्माकं वरश्चापि प्रदीयताम् ॥५४॥
यदस्माकं महद्वीर्यं तेजश्चैव पराक्रमम् ॥
तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा ॥५५॥
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो ॥
जायते तद्यथापूर्वं तथा कुरु महेश्वर ॥५६॥
॥ सनत्कुमार उवाच ॥
प्रत्यक्षमेत्य वै पश्चाच्चलितः शर्व एव हि ॥
जगाम तत्र यत्रासौ रजोऽहंकारमूर्त्तिमान् ॥
देवाः स्तुवंतो देवेशं परिवार्य उपाविशन् ॥५७॥
ब्रह्मा तमागतं देवं नाजानात्तमसा वृतः॥
सूर्यकोटिसहस्राणां तेजसा रंजयञ्जगत् ॥५८॥
तदाऽदृश्यत विश्वात्मा विश्वसृग्विश्वभाव नः॥
स पितामहमासीनं सकले देवमण्डले ॥५९॥
तेजसाभिभवन्रुद्रस्तेन मत्तोऽग्रतः स्थितः॥
रुद्रतेजोभिभूतं च ब्रह्मवक्त्रं न राजते ॥६०॥
रात्रौ प्रकाशकिरणश्चंद्रः सूर्योदये यथा ॥
सगर्वोथात्मजं दृष्ट्वा रुद्रदेवं सनातनम् ॥६१॥
अवन्दत करेणैव प्राह वै सस्मितं वचः ॥
प्रत्युवाच विरूपाक्षो ब्रह्माणं तं हसन्निव ॥६२॥
यतो न वेद परमं देवं तत्तेजसावृतः ॥
ततोऽट्टहासं भगवान्मुमोच शशिशेखरः ॥६३॥
पश्यतां सर्वदेवानां शृण्वतां वाचमुक्तवान्॥
तेनादृहासशब्देन मोहयित्वा पितामहम् ॥६४॥
 तेजोराशिशशांकाभः शशांकार्काग्निलोचनः ॥
वामांगुष्ठनखाग्रेण ब्रह्मणः पञ्चमं शिरः ॥६५॥
चकर्त कदलीगर्भं नरः कररुहैरिव ॥
छिद्यमानं च तद्वक्त्रं बुबुधे न पितामहः ॥६६॥
रुद्रस्य तेजसा तस्मान्मो हितो न नतिं गतः ॥
छिन्नं तस्य शिरः पश्चाद्रुद्रहस्ते स्थितं तदा ॥६७॥
अपश्यद्दैवतैः सार्धं रौद्रमतिभयाज्ज्वलत् ॥
महेश्वरकरांतस्थनखै र्वक्त्रं विराजते ॥६८॥
ग्रहमण्डलमध्यस्थो द्वितीय इव चन्द्रमाः ॥
उत्क्षिप्य तत्कपालेन ननर्त शशिशेखरः ॥६९॥
शिखरस्थेन सूर्येण कैलास इव पर्वतः ॥
छिन्ने वक्त्रे ततो देवा हृष्टपुष्टा वृषध्वजम् ॥
तुष्टुवुर्विविधैः स्तोत्रैर्देवदेवं कपालिनम् ॥७०॥
॥ देवा ऊचुः ॥
नमः कपालिने नित्यं महाकालाय शंखिने ॥७१॥
ऐश्वर्यज्ञानयुक्ताय सर्वभोगप्रदायिने॥
नमो दर्पविनाशाय सर्वदेवमयाय च ॥७२॥
कालसंहारकर्ता त्वं महाकालस्ततो ह्यसि॥
भक्तानां दुःखशमनो दुःखांतस्तेन रोचसे ॥७३॥
शंकरोप्याशु भक्तानां तेन त्वं शंकरः स्मृतः॥
छित्त्वा ब्रह्मशिरो यस्मात्कपालं च बिभर्षि च ॥७४॥
तेन देव कपाली त्वं स्तुतो ह्यसि प्रसीद नः ॥
एवं स्तुतः प्रसन्नात्मा देवानुत्थाप्य शंकरः ॥७५॥
कृपानिधिः स भगवांस्तत्रैवांतरधीयत ॥
शशिशकलमयूखैर्भासित यत्कपर्दं द्रवति गगनगंगातोयवीचीविचेयम् ॥
सितविधृतकपालो मालया रुद्रपार्श्वे स जयति जितवेधा ऊर्जितः प्राज्यतेजाः ॥७६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमआवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये ब्रह्मशिरश्छेद वर्णनं नामद्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP