संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय १

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीगणेशाय नमः ॥
श्रीजगदंबायै नमः ॥
॥ अथावन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रारभ्यते ॥
॥ व्यास उवाच ॥
स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यंति देवा
यो ह्यव्यक्ते प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च ॥
लोकानामादिदेवः स जयतु भगवाञ्छ्रीमहा कालनामा बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिंगं कपालम् ॥१॥
॥ उमोवाच ॥
पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा॥
कथ्यंतां तानि यत्नेन श्रद्धा येषु प्रजायते ॥२॥
ईश्वर उवाच ॥
अस्ति लोकेषु विख्याता गंगा त्रिपथगा नदी ॥
सेविता देवगन्धर्वैर्मुनिभिश्च निषेविता ॥३॥
तपनस्य सुता देवी यमुना लोकपावनी ॥
पितॄणां वल्लभा देवी महापातकनाशिनी ॥४॥
चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके ॥
कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा ॥५॥
केदारं पुष्करं चैव तथा कायावरोहणम् ॥
तथा पुण्यतमं देवि महाकालवनं शुभम् ॥६॥
यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः ॥
क्षेत्रं योजनपर्यंतं ब्रह्महत्यादिनाशनम् ॥७॥
भुक्तिदं मुक्तिदं क्षेत्रं कलिक ल्मषनाशनम् ॥
प्रलयेऽप्यक्षयं देवि दुष्प्रापं त्रिदशैरपि ॥८॥
॥ उमोवाच ॥
प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर ॥
यानि तीर्थानि विद्यन्ते यानि लिंगानि संति वै॥ ९॥
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥१०॥
॥ महादेव उवाच ॥
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ॥
क्षेत्रमाद्यं महादेवि सर्वपापप्रणाशनम् ॥११॥
श्रीमेरोः संनिधाने च शिखरं रत्नचिह्नितम् ॥
अनेकाश्चर्यनिलयं बहुपादपसंकुलम् ॥१२॥
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकवेदिकम् ॥
विचित्रवर्णशोभाढ्यमृषिसंघनिनादितम् ॥१३॥
मृगनागेन्द्रसंयुक्तं गजयूथसमाकुलम् ॥
निर्झरांबुप्रपातोत्थशीकराकरसंकुलम् ॥१४॥
वाताहततरुव्रातप्रसूनास्थानचित्रितम् ॥
मृगनाभिवरामोदवासिता शेषकाननम् ॥१५॥
लतागृहरतिस्थानं सिद्धविद्याधराश्रयम् ॥
प्रवीणकिन्नरव्रातमधुरध्वनिनादितम् ॥१६॥
तस्मिन्वने महारम्ये शोभिताशेष भूमिकम् ॥
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः ॥१७॥
तत्र दिव्यांगनागीतमधुरध्वनिनादिता ॥
पारिजाततरुच्छन्नमंजरीदामशोभिता ॥१८॥
बहुवाद्यसमुन्नद्धमहास्वननिनादिता ॥
लयतालयुतानेकगीतवादित्रनादिता ॥१९॥
विन्यस्ता कोटिभिः स्तंभैर्निर्मलादर्शशोभिता ॥
लयतालयुतानेकमहाकौतुकसंयुता ॥२०॥
अप्सरोनृत्यविन्यासविलासोल्लासशोभिता ॥
सभा कांतिमतीनाम देवानां हर्षदायिका ॥२१॥
ऋषिसंघसमाकीर्णा मुनिवृन्दनिषेविता ॥
द्विजातिवेदशब्देन नादिताऽऽनंददायिका ॥२२॥
तस्यां निविष्टं वागीशं शंकराराधने रतम् ॥
सनत्कुमारं ब्रह्मर्षिं ब्रह्मणो मानसं सुतम् ॥२३॥
मुनिमध्यात्समुत्थाय कृष्णद्वैपायनो मुनिः ॥
पराशरसुतो व्यासः प्रणिपत्य यथाविधि ॥२४॥
कृतांजलिपुटो भूत्वा भवभक्त्यानुभावितः ॥
पप्रच्छ परया तुष्ट्या हर्षितांगरुहाननः ॥२५॥
महाकालस्य माहात्म्यं प्राणिनां मोहनाशनम् ॥
॥व्यास उवाच ॥
महाकालवनं कस्मात्प्रोच्यते सर्वतो वरम् ॥२६॥
भगवन्क्षेत्रमाहात्म्यं महाकालस्य कथ्यताम् ॥
कथं गुह्यवनं प्रोक्तं पीठत्वमूषरं तथा ॥२७॥
फलं यथात्र वसतां मृतानां च गतिर्यथा ॥
स्नानेन यद्भवेत्पुण्यं दानेनापि च यत्फलम् ॥२८॥
कथमेतत्स्मशानं च क्षेत्रं प्रोक्तं यथा तथा ॥
पृष्टं मे शंकरे भक्त्या ब्रूहि त्वं शास्त्रकोविद ॥२९॥
॥ सनत्कुमार उवाच ॥
क्षीयते पातकं यत्र तेनेदं क्षेत्रमुच्यते ॥
यस्मात्स्थानं च मातॄणां पीठं तेनैव कथ्यते ॥३०॥
मृताः पुनर्न जायंते तेनेदमूषरं स्मृतम् ॥
गुह्यमेतत्प्रियं नित्यं क्षेत्रं शंभोर्महा त्मनः ॥३१॥
यस्मादिष्टं हि भूतानां स्मशानमतिवल्लभम् ॥
महाकालवनं यच्च तथा चैवाविमुक्तिकम् ॥३२॥
एकाम्रकं भद्रकालं करवीरवनमेव च ॥
कोलागिरिस्तथा काशी प्रयागममरेश्वरम् ॥३३॥
 भरथं चैव केदारं दिव्यं रुद्रमहालयम् ॥
दिव्यस्मशानान्येतानि रुद्रस्येष्टानि नित्यशः ॥३४॥
रमते भगवानेषु सिद्धक्षेत्रेषु सर्वदा ॥
पृथिव्यां नैमिषं तीर्थमुत्तमं तीर्थपुष्करम् ॥३५॥
त्रयाणामपि लोकानां कुरुक्षेत्रं प्रशस्यते ॥
कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी मता ॥३६॥
तस्या दशगुणं व्यास महाकालवनोत्तमम् ॥
प्रभासाद्यानि तीर्थानि पृथिव्यामिह यानि तु ॥३७॥
प्रभासमुत्तमं तीर्थं क्षेत्रमाद्यं पिनाकिनः ॥
श्रीशैलमुत्तमं तीर्थं देवदारुवनं तथा ॥३८॥
तस्मादप्युत्तमं व्यास पुण्या वाराणसी मता॥
तस्माद्दशगुणं प्रोक्तं सर्वतीर्थोत्तमं यतः॥३९॥
महाकालवनं गुह्यं सिद्धक्षेत्रं तथोषरम् ॥
किंचिद्गुह्यान्यथान्यानि स्मशानान्यूषराणि च ॥४०॥
सर्वतस्तु समाख्यातं महाकालवनं मुने ॥
स्मशानमूषरक्षेत्रं पीठं तु वनमेव च ॥४१॥
पंचैकत्र न लभ्यंते महाकालपुरादृते ॥४२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनप्रशंसावर्णनंनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP