अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ५६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ सनत्कुमार उवाच ॥
तीर्थमन्यतरं व्यास क्षातासंगमसंभवम् ॥
यत्र तु स्नानमात्रेण महापापैः प्रमुच्यते ॥१॥
अमा वै शनिवारेण यदायाति समाहितः ॥
पितॄनुद्दिश्य यः कुर्याच्छ्राद्धं चैव तिलोदकम् ॥२॥
पश्येच्छनैश्चरं देवं स्थावरं लिंगमुत्तमम् ॥
तस्य शानैश्चरी पीडा न भवेत्तु कदाचन ॥३॥
॥ व्यास उवाच ॥
महातीर्थं समाख्यातं महाकालवने शुभे ॥
भूयस्तु श्रोतुमिच्छामि विस्तरेण तपोधन ॥४॥
॥ सनत्कुमार उवाच ॥
श्रूयतां भो द्विजश्रेष्ठ कथा पौराणिकी शुभा ॥
यस्याः श्रवणमात्रेण महापापक्षयो भवेत् ॥५॥
रेवा चर्मण्वती क्षाता तिस्रो नद्यः पुराऽनघ ॥
जातास्त्रैलोक्यपावन्यो भुवि चामरकंटकात् ॥६॥
पुण्याः पुण्यजला रम्याः पवित्राः पापहारकाः ॥
पुनंत्यः सर्वलोकानां स्नानात्पानात्तथापगाः॥ ७॥
एकदोपवने रम्ये मांधातृक्षेत्र उत्तमे ॥
मिथो रमंति संहृष्टाः परस्परजिगीषया ॥८॥
किंचिद्दोषप्रसंगेन मिथो भेदो ह्यजायत ॥
रेवासंगं परित्यक्ता भित्त्वा विंध्यगिरिं वरम् ॥९॥
महाकालवने रम्ये समा याता सरिद्वरा ॥
यत्र शिप्रा महापुण्या पुरी ह्येषाऽमरावती ॥१०॥
सर्वतीर्थवरं श्रेष्ठं नामा रुद्रसरः स्मृतम् ॥
भुक्तिमुक्तिप्रदं नित्यं सिद्धर्षिगण सेवितम्॥ ११॥
तत्रागत्य पुरा क्षाता शिप्रासंगं समाश्रिता ॥
तत्र तीर्थं परं जातं क्षातासंगमसंज्ञितम् ॥
यत्र धूतरजा जातः सद्यः प्रोक्तो विभावसुः ॥१२॥
॥ व्यास उवाच ॥
कथं सूर्यस्त्वया प्रोक्तो विरजो ह्यभवत्पुरा ॥
एतद्वेदितुमिच्छामि त्वत्तो ब्रह्मविदांवर ॥१३॥
॥ सनत्कुमार उवाच ॥
पुरानुसूर्यां सावित्रीं त्वष्टा स्वतनयां ददौ ॥१४॥
पतिधर्मरता नित्यं सिषेवे लोकचक्षुषे ॥
तस्यां वै मिथुनं जज्ञे लोकसाक्षिविभावसोः ॥१५॥
यमो वैवस्वतो जातो यमुना लोकपावनी ॥
ततस्त्वष्टाऽब्रवीच्छायां स्वकीयां सूनृतां गिरम् ॥१६॥
मिथुनं मे तवोत्संगे धृतं त्वं परिपालय ॥
तावदेवमिह च्छाये यावत्पितुर्गृहेचरी ॥१७॥
रविभक्तिरता नित्यं चर त्वं मम वेश्मनि ॥
नो वाच्याहं कदा च्छाये पितुर्वेश्मगता रवेः ॥१८॥
एवं सा समयं कृत्वा सावित्री ह्यगमत्तदा ॥
पितुर्वेश्मगता बाला सवितुर्भयविह्वला ॥१९॥
पित्र निवारिता सद्यो वडवारूपधारिणी ॥
विचचार वने रम्ये बहुलोदकशाड्वले ॥२०॥
एकदा याचिता तेन वैवस्वतेन बुभुक्षता ॥
नोदनं वै तया दत्तं याचमानाय तत्क्षणात् ॥२१॥
तदा पदाहता तेन च्छाया तं च शशाप ह ॥
यतस्त्वं मे पदाघातं कृतवान्बालभावनात् ॥२२॥
तस्मात्त्वं च पदा खंजो भविष्यसि न संशयः ॥
एवं शप्तो रुजाक्रांतो विललाप शुचार्दितः ॥२३॥
एतस्मिन्नंतरे व्यास परिभूय वसुंधराम् ॥
भावयन्सकलाँल्लोकान्ग्रहचारी विभावसुः ॥२४॥
दृष्ट्वा च तनयं पंगुमित्युवाच विभावसुः ॥
किमिदं वत्स ते कष्टं कुतः प्राप्तं त्वयाऽनघ ॥२५॥
इति पृष्टो यदा तेन सवित्रा लोकभास्वता ॥
उवाच गद्गदा वाचं यमः संयमिनीपतिः ॥२६॥
प्रातराशाय मे नाथ याचितं मातुरंतिकात् ॥
नो दत्तं भोजनं क्षिप्रं बालभावेन ताडिता ॥२७॥
पादौ मे गलितौ सद्यो मातुः शापपराभवौ ॥
तच्छ्रुत्वा मोहमापन्नो रविर्ध्यानपरायणः ॥२८॥
विचित्रमिदमाख्यातं मातुः शापस्य कारणम् ॥
एवं ध्यात्वा चिरं कालं ज्ञातवान्रविरंशुमान् ॥२९॥
नेयं सा रुचिरापांगी त्वाष्ट्री लोकस्य पावनी ॥
केयं वा कुत आयाता कासि त्वं च शुचिस्मिते ॥३०॥
॥ छायोवाच ॥
नानुसूर्या महाराज छाया तस्याः स्वसंभवा ॥
गता वै सा पितुर्गेहे वारिताहं तयाऽनघ ॥३१॥
सवित्रे नैव वक्तव्यं छाये किंचित्कथंचन ॥
एष मे समयो नाथ तेनाहं मौनमास्थिता ॥३२॥
तच्छ्रुत्वा भगवांस्त्वष्टुः समीपं रोषमास्थितः ॥
जगाम सहसा भानुर्बहुरोषसमन्वितः ॥३३॥
तं दृष्ट्वा सहसोत्थाय त्वष्टा लोकपितामहः ॥
पाद्यार्घ्याचमनीयं च मधुपर्कैरपूजयत् ॥३४॥
नत्वा पादौ परिक्रम्य बहुमानपुरः सरम् ॥
उवाच मधुरया वाचा प्रियं ते करवाम किम् ॥३५॥
॥ रविरुवाच ॥
क्व सानुसूर्या सावित्री ममानुप्रियकारिणी ॥
आगता ते गृहं तात मम मार्गानुमोदिनी ॥३६॥
॥ त्वष्टोवाच ॥
न जानीमो वयं तात प्रिया मे क्व गता सुता ॥
इत्युक्ते वचने त्वष्ट्रा रविर्दुश्चिंतमानसः ॥३७॥
किं करोमि क्व गच्छामि क्व च प्रियतरा मम ॥
इति संभाषमाणे तु त्वष्टा वाक्यमथाब्रवीत् ॥३८॥
तव तेजः परिभ्रष्टा भग्ना क्वापि गताबला ॥
यदि ते वल्लभा भार्या तेजस्त्वं परिशामय ॥३९॥
॥ सूर्य उवाच ॥
यद्येवं दुस्सहं तेजो मम पूर्वपितामह ॥
तदा ते रोचते सम्यग्यथा स्याद्वै तथा कुरु॥४०॥
इति सूर्यवचः श्रुत्वा शाणं कृत्वा सुदर्शनम्॥
घृष्टितः क्षुरधारेण लघीयान्निर्मलोऽभवत्॥४१॥
तस्य घृष्टितमात्रेण त्वष्टा चक्रे विवस्वतः ॥
शाणं सुदर्शनं चक्रं सैकता मणिजातयः ॥४२॥
तदा त्वष्टाऽब्रवीद्वाक्यं मधुरं सूर्यसंनिधौ ॥
महाकाल वने रम्ये वडवारूपगीरणी ॥४३॥
गृह्यतां भोः सुरश्रेष्ठ शीघ्रं गच्छतु शाड्वले ॥
यत्र शिप्रा सरिच्छ्रेष्ठा यत्र क्षाता समागता ॥४४॥
उभयोः संगमो यत्र तत्र मुक्तिर्न संशयः ॥
तत्र तां सुभगां पत्नीं प्राप्स्यसि त्वं न संशयः ॥४५॥
इति तस्य वचः श्रुत्वा सविता सर्वतापनः ॥
तत्रागमद्वनं यत्र महाकालस्य पावनम् ॥४६॥
क्षातासंगमसंयुक्ता यत्र शिप्रा पयस्विनी ॥
तत्र भुक्तिश्च मुक्तिश्च धनधान्यसमागमः ॥४७॥
तत्रागत्य प्रियां भार्यां वडवारूपधारिणीम् ॥
ददर्श तां पुनः श्यामां हरिरूपधरो हरिः ॥४८॥
नासिकाघ्राणमात्रेण यत्र जातौ सुतावुभौ ॥
दर्शनीयौ सुनृम्णांगौ भिषजौ तौ दिवौकसाम् ॥४९॥
छाया च सुषुवे तत्र मिथुनं द्विजसत्तम ॥
तापीं शनैश्चरं चैव सर्वलोकप्रतापनम् ॥५०॥
शनि योगे यदामा वै जायते सर्वकामदा ॥
तदा स्नानं च दानं च श्राद्धं चैव तु कारयेत् ॥५१॥
तस्य हस्तगता लक्ष्मीर्जायते सर्वदा भुवि ॥
क्षाता संगमे नरः स्नात्वा दानं दत्त्वा च शक्तितः ॥५२॥
स्थावरेशं समभ्यर्च्य तस्य पापक्षयो भवेत् ॥
सौरिः शनैश्चरो मंदः कृष्णोऽनंतोंऽतको यमः ॥५३॥
पिंगश्छायासुतो बभ्रुः स्थावरः पिप्पलायनः ॥
एतानि शनिनामानि प्रातःकाले पठेन्नरः ॥५४॥
तस्य शानैश्चरी पीडा न भवेत्तु कदाचन ॥
यमधर्मोऽपि चात्रैव तपस्तेपे सुदुस्तरम् ॥५५॥
यज्ञकुण्डोत्तरे भागे यत्र तिष्ठति मारुतिः ॥
धर्मसरेति विख्यातं नाम्ना तत्तीर्थमुत्तमम् ॥५६॥
यत्र सिद्धिं परां प्राप्तस्तपसा पवनात्मजः ॥
तस्मिंस्तीर्थे नरः स्नात्वा दत्त्वा वै कांस्यभाजनम् ॥५७॥
सवासो मणिमु क्ताभिः कांचनालंकृतं वरम् ॥
ब्राह्मणेभ्यः स्वलंकृत्य वेदविद्भ्यश्च सादरम् ॥५८॥
मातृलोकं समुत्तीर्णो ब्रह्मलोके महीयते ॥
श्रावणे मास्युभे पक्षे एकादश्यां तु यो नरः ॥५९॥
धर्मतीर्थे सदाचारी स्नानदानादिकाः क्रियाः ॥
करोति सततं तस्य विष्णुलोकः सनातनः ॥६०॥
च्यवनाश्रमे नरः स्नात्वा च्यवनेश्वरं विलोकयेत् ॥
यत्र सिद्धिं गतौ पुण्यावश्विनौ भिषजां वरौ ॥६१॥
च्यवनस्य प्रसादेन देवपंक्तिमवापतुः ॥
च्यवनेन पुरा दृष्टिः प्राप्ता वै देवभेषजात् ॥६२॥
तस्मिंस्तीर्थे द्विजश्रेष्ठ दिव्यदृष्टिर्भवेन्नरः ॥
अत्रैव प्राप्तवान्सूर्यः साग्निहोत्राश्रमं परम् ॥६३॥
अनु सूर्यां महाभागां सावित्रीं लोकविश्रुताम्॥
सूर्यलोकं समासाद्य बुभुजे विपुलां श्रियम्॥६४॥
तस्माद्व्यास परं तीर्थं क्षातासंगमसंज्ञितम्॥
सर्वपापहरं पुण्यं सर्वकामवरप्रदम्॥६५॥
य एतां तु कथां पुण्यां शृणोति भुवि भक्तितः॥
पठेद्वा प्रातरुत्थाय तस्य पुण्यफलं शृणु॥६६॥
कपिलागोसहस्रेण फलं भवति पर्वणि ॥
तत्फलं समवाप्नोति नात्र कार्या विचारणा ॥६७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसा हस्र्यां संहितायां पंचम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये क्षातासंगममाहात्म्यवर्णनंनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥
N/A
References : N/A
Last Updated : December 01, 2024
TOP