संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ६७

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ६७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


शृणु व्यास परं तीर्थं भुवि विख्यातमुत्तमम् ॥
कुटुम्बेश्वरेति विख्यातो नाम्ना चैव महेश्वरः ॥१॥
तस्य तीर्थवरं तीर्थं सर्वतीर्थफलप्रदम् ॥
यस्मिंस्तीर्थे नरः स्नात्वा कुटुम्बी जायते धुवम् ॥२॥
कुटुम्बार्थं तपस्तेपे पुरा दक्षः प्रजापतिः ॥
नारदेन पुरा व्यास पुत्रषष्टिर्विवासिता ॥३॥
प्रजाकामः स धर्मात्मा सुचिरं व्रतमाचरत् ॥
सपत्नीको महातेजा निराहारो जितेन्द्रियः ॥४॥
अस्मिंस्तीर्थे शुचिः स्नातो जपन्ब्रह्म सनातनम् ॥
वर्षाणामयुतं व्यास तपस्तेपे सुदारुणम् ॥५॥
तेन तीर्थप्रसादेन लभेत्स बहुलां प्रजाम्॥ प्र
जापतिरिति ख्यातो जातो दक्षः प्रतापवान्॥६॥
ब्रह्माऽपि तत्र वै पश्चात्तपः कृत्वा सुदुष्करम् ॥
निष्कलं कमलं रूपं प्राप्तवांस्तत्क्षणाद्विधिः ॥७॥
महादेवोऽपि तत्रैव प्राप्तवान्ब्रह्मणः पदम् ॥
चतुर्मुखधरं लिंगं दृश्यतेऽद्यापि सत्तम ॥८॥
भद्रपीठधरा देवी भद्रकालीति विश्रुता ॥
तत्रैव च सदा व्यास क्रीडति स्म धृतव्रता ॥९॥
द्वारे तिष्ठति तत्रैव भैरवः क्षेत्रपालकः ॥
पादेन खंजतां यातः पुरा दैत्यवरार्दितः ॥१०॥
पुत्रवत्पालितो देव्या सदा तिष्ठति तत्स्थले ॥
ये ते देवगणाः सर्वे तस्मिंस्तीर्थे प्रतिष्ठिताः ॥११॥
ऋषयोऽपि महाभागाः सदा पर्वणिपर्वणि ॥
आयांति चैव संध्यार्थं बहुपुत्रप्रदे सरे ॥१२॥
अस्मिंस्तीर्थे सदाचाराः स्नानं कुर्वन्ति ये नराः ॥
न तेषां दुर्लभं किंचिज्जायते जन्मजन्मनि ॥१३॥
महाबाधासु घोरासु महामारीषु तत्परैः ॥
हवनं क्रियते नित्यं सर्षपै राजिकैर्यवैः ॥१४॥
पायसै र्विविधैर्भोगैस्तेषां दोषो न जायते ॥
दुर्भिक्षे राज्यभ्रंशे च संग्रामे भृशदारुणे ॥१५॥
पूजयेत्क्षेत्त्रपालं च सर्वाऽऽपदि समाहितः ॥
सर्वदुःखवि निर्मुक्तो जायते नाऽत्र संशयः ॥१६॥
स्नात्वा कुटुंबके तीर्थे पूजयित्वा महेश्वरम् ॥
दानं कूष्मांडकं दद्याद्ब्राह्मणाय तपस्विने ॥१७॥
सौवर्णमणि मुक्ताभिर्वासोऽलंकारसंयुतम् ॥
धनधान्यसमायुक्तः कुटुंबी जायते नरः ॥१८॥
फाल्गुने च सिते पक्षे या वै चतुर्दशी भवेत् ॥
त्रयोदशीयुता व्यास शिवरात्रिस्तथोच्यते ॥१९॥
तद्दिने च नरः स्नात्वा रात्रौ जागरणं चरेत् ॥
बिल्वोदकेन गंधेन बहुपुष्पफलैस्तथा ॥२०॥
धूपैर्दीपैश्च नैवेद्यैर्वासोऽलंकारकादिभिः ॥
पूजयेद्यो नरो भक्त्या गिरीशं सगणं परम् ॥२१॥
तस्य पापं क्षयं याति शिवलोके महीयते ॥
द्वादशैकादशीपुण्यं लभते भुवि मानवः ॥२२॥
अश्वमेधफलं तस्य जागरे च क्षणेक्षणे ॥
ततस्तु प्रातरुत्थाय स्नानदानादिकाः क्रियाः ॥२३॥
कृत्वा तु विधिवद्व्यास शिवपूजाऽर्चनं तथा ॥
विप्रांश्च भोजयेत्सप्त तस्य पुण्यफलं शृणु ॥२४॥
कपिलानां सवत्सानां सहस्राणि चतुर्दश ॥
वाजपेय सहस्रस्य फलं प्राप्नोति नान्यथा ॥२५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्र माहात्म्ये कुटुंबेश्वरमाहात्म्यवर्णनंनाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP