संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ११

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ११

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अथातः संप्रवक्ष्यामि तीर्थं विद्याधरस्य तु ॥
तत्र स्नात्वा शुचिर्भूत्वा विद्याधरपतिर्भवेत् ॥१॥
॥ व्यास उवाच ॥
कथं तीर्थमिदं क्षेत्रे जातमत्र महामुने ॥
प्रसादाद्ब्रूहि मे ब्रह्मञ्छ्रोतुमिच्छामि सांप्रतम् ॥२॥
॥ सनत्कुमार उवाच ॥
विद्याधरपतिः कश्चिदासीद्रूपधरः पुरा ॥
ग्रथिता पारिजातस्य माला तेन मनोरमा ॥३॥
गृहीत्वा च स तां मालां गतो वासववेश्मनि ॥
नृत्यंती वासवस्याग्रे दृष्टा तेन च मेनका ॥४॥
दत्ता तस्यै तदा तेन सा माला नृत्यमाश्रितः ॥
सा मेनकास्तुताऽस्थाने मालया मोहिता भवत्। ५॥
कोपाविष्टेन शक्रेण शप्तो विद्याधरस्तदा ॥
पृथिव्यां गच्छ पापिष्ठ नृत्यभंगस्त्वया कृतः ॥६॥
विद्याधरपदं त्यक्त्वा मम शापाच्च सांप्रतम्॥
एवमुक्तस्तु शक्रेण वाक्यं विद्याधरोऽब्रवीत॥ ७॥
अजानता मया नाथ अपराधः कृतोऽधुना ॥
अनुग्रहमतो देव कुरु मे त्वं प्रसा दतः ॥८॥
एवमुक्तः स शक्रो वै विद्याधरमुवाच ह ॥
गच्छावंतीं त्वमद्यैव यत्रास्ते गांगटी गुहा ॥९॥
तस्याश्चोत्तरभागे तु विद्यते तीर्थमुत्तमम् ॥
ख्यातं तत्त्रिषु लोकेषु नाम्ना विद्याधरं शुभम् ॥१०॥
भक्त्या तत्र कृते स्नाने विद्याधरपतिर्भवेत् ॥
अतस्त्वमपि तत्रैव कुरु स्नानं प्रयत्नतः ॥११॥
एवमुक्तः स शक्रेण आगतोऽवंतिमंडले ॥
स्नानं कृत्वा च तेनैव तीर्थे तस्मिन्मनोरमे ॥१२॥
प्रभावात्तस्य तीर्थस्य पुनः प्राप्तं पदं स्वकम् ॥
एवं व्यास समाख्यातं तीर्थं विद्याधरं शुभम्॥१३॥
तत्र पुष्पाणि यो दद्याच्चंदनं च विलेपनम् ॥
लभेत्समस्तभोगान्स इहलोके परत्र च ॥१४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखंडे ऽवन्तीक्षेत्रमाहात्म्ये विद्याधरतीर्थमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : November 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP