संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय १३

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा देवं च भैरवम् ॥
श्राद्धं तत्रैव कुर्वीत पितॄनुद्दिश्य भक्तितः ॥१॥
पितॄंश्च स नरो व्यास तारयेदात्मना सह ॥
स्वर्गद्वारेण योऽभ्येति रुद्रस्य परमं पदम् ॥२॥
भैरवस्याग्रतो देवी पूर्वे तिष्ठति चांबिका ॥
तां तु दृष्ट्वा नरः स्त्री वा मुच्यते सर्वपातकैः ॥३॥
महानवम्यां पुरुषः कृत्वा बस्तमयं बलिम् ॥
महिषं वा सुरां मांसं मालां बिल्वमयीं शुभाम् ॥
भक्त्या निवेद्य देव्यै तु सर्वासिद्धिमवाप्नुयात् ॥४॥
तत्र स्नात्वा नरो भक्त्या पूजां कृत्वा महेश्वरे ॥
स्वर्गद्वारेण सोऽभ्येति रुद्रस्य भवनं द्विज ॥५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये स्वर्गद्वारमाहात्म्य वर्णनंनाम त्रयोदशोध्यायः ॥१३॥

N/A

References : N/A
Last Updated : November 30, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP