संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय १८

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय १८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
एकानंशां नमस्कृत्य देवीं त्रैलोक्यविश्रुताम् ॥
पूजां कृत्वा विधानेन सर्वसिद्धिफलं लभेत् ॥१॥
अणिमादिगुणान्सर्वान्गुटिकासिद्धिमंजनम् ॥
खड्गं च पादुके चैव विलवासं रसायनम् ॥
सर्वं तुष्टा प्रयच्छेत नात्र कार्या विचारणा ॥२॥
सुरामांसोपहारैश्च भक्ष्यभोज्यैश्च पूजिता ॥
सर्वान्कामान्नृणां देवी तुष्टा दद्याच्च सर्वदा ॥३॥
महानवम्यां यो देवीं महिषेण प्रपूजयेत् ॥
मेषेण वा यथालाभं सर्वान्कामानवाप्नुया त् ॥४॥
॥ व्यास उवाच ॥
कथं देवी समुत्पन्ना एकानंशेति विश्रुता ॥
तत्सर्वं श्रोतुमिच्छामि सर्वपापप्रणाशिनी ॥५॥
॥ सनत्कुमार उवाच ॥
पुरा कृतयुगस्यादौ ब्रह्मा लोकपितामहः ॥
निशां सस्मार भगवान्स्वां तनूं पूर्वसंभवाम् ॥६॥
ततो भगवती रात्रिरुपतस्थे पितामहम् ॥
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम् ॥७॥
॥ ब्रह्मोवाच ॥
विभावरी महामाये विबुधानामुपस्थितम् ॥
यत्कर्तव्यं त्वया देवि शृणु चार्थस्य निश्चयम्॥ ८॥
तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः ॥
तस्य भयेन वै देवास्त्रस्ताः सर्वे दिवौकसः ॥९॥
तस्माद्भद्रे महेशो वै जनयिष्यति चेद्वरम् ॥
सुतं स भविता तस्य तारकस्यांतकः किल ॥१०॥
शंकरम्याभवत्पत्नी सती दक्षसुता तु या ॥
सा पितुः कुपिता भद्रे कस्मिंश्चित्कारणांतरे ॥११॥
भवित्री हिमशैलस्य दुहिता लोकपावनी ॥
विरहेण हरस्तस्या मत्वा शून्यंजगत्त्रयम् ॥१२॥
अतपद्धिमशैलस्य कंदरे सिद्धसेविते ॥
प्रतीक्षमाणस्तज्जन्म किंचित्कालं वसिष्यति ॥१३॥
तस्मात्सुतप्ततपसोर्भविता यो महाप्रभुः ॥
स भविष्यति दैत्यस्य तारकस्य निवारकः ॥१४॥
जातमात्रा तु सा देवी स्वल्पसंज्ञैव भामिनी ॥
विरहोत्कंठिता गाढं हरसंगमलालसा ॥१५॥
तयोः सुतप्ततपसोः संयोगः स्यात्सुयुक्तयोः ॥
पार्वतीहरयोस्तस्मात्सुरतं शक्तिकारणम् ॥१६॥
भवेत्तत्र सुराणां च कार्यार्थे विप्रमाचर ॥
विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु ॥१७॥
गर्भस्थानेऽथ तां मातः स्वेन रूपेण रंजय ॥
ततो रहसि शर्वस्तां बिभ्रदानंदपूर्वकम् ॥१८॥
हासयिष्यति कालीति ततः सा कुपिता सती ॥
प्रयास्यति तपः कर्तुं ततः सा तपसा युता ॥१९॥
जनयिष्यति यं शर्वादिंदुवज्ज्योतिमंड लम् ॥
स भविष्यति हंता वै सुरारीणां न संशयः ॥२०॥
त्वयापि दानवा देवि हंतव्या लोकदुर्जयाः ॥
यावच्च न सती देहे संक्रांतगुणसंचया ॥२१॥
तत्संगमेन तावत्त्वं दैत्यान्हंतुं भविष्यसि ॥
एवं कृते त्वया देवि तपः काली करिष्यति ॥२२॥
समाप्तनियमा सा च यदा गौरी भविष्यति ॥
तदा तवापि सारूप्यं शैलजा संप्रदास्यति ॥२३॥
ततस्तवापि सहजा सैकानंशा भविष्यति ॥
रूपांशेन च संयुक्ता त्वमुमाख्या भविष्यसि ॥२४॥
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति ॥
भेदैर्बहुविधाकारैः सर्वगां कामसाधनीम् २५॥
ॐकारवक्त्रा गायत्री त्वमेव ब्रह्मवादिनी ॥
आक्रांतरुचिराकारा राज्ञां चाहवशालिनी ॥२६॥
विशां त्वं कमलादेवी शूद्राणां जननी स्वयम् ॥
ज्ञानिनां ज्ञेयरूपा त्वं त्वं गतिः सर्वदेहिनाम् ॥२७॥
त्वं च कीर्तिमतां कीर्तिस्त्वं भूतिः सर्वदेहिनाम् ॥
रतिदा रक्तचित्तानां प्रीतिस्त्वं स्नेहवर्तिनाम्॥ २८॥
त्वं कांतिः कृतभूषा णां त्वं शांतिर्हृष्टकर्मणाम् ॥
त्वं च भ्रांतिरबोधानां त्वं कीर्तिः क्रमयाजिनाम् ॥२९॥
महावेला समुद्राणां विलासस्त्वं विलासिनाम् ॥
संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकशालिनाम् ॥३०॥
इत्यनेकविधैर्देवि रूपैर्लोकेषु चर्चिता ॥
ये त्वां पश्यंति वरदे पूजयिष्यंति चापि ये ॥
कामा नाप्स्यंति ते सर्वे नियतं नात्र संशयः ॥३१॥
इत्येवं सा समुत्पन्ना ब्रह्मणा संस्तुता सती ॥
एकानंशा महादेवी ध्यातव्या सापि भक्तितः ॥३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्य एकानंशामाहात्म्यवर्णनंनामाष्टादशो ऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP