संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ४५

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ४५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
शृणुष्वावहितो व्यास कथां पापहरां पराम् ॥
एषा कुमुद्वती जाता यथा पद्मावती पुरी ॥
तथाहं संप्रवक्ष्यामि यथा मे लोमशोऽब्रवीत् ॥१॥
॥ लोमश उवाच ॥
शृणु वत्स मया दृष्टा बहुपुण्यतमा पुरी ॥
एकदा तीर्थयात्रायां गतोऽहं वै कुशस्थलीम् ॥
गुह्याद्गुह्यतरं स्थानं यत्र संनिहितो हरः ॥२॥
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥
यत्र तत्र स्थिता विप्रा ब्रह्मघोषमकुर्वत ॥३॥
यज्ञांश्चैव तथा चित्रानृत्विजोदारकर्मणः ॥
ऋषयश्च महाभागाः प्रकुर्वंति समाहिताः ॥४॥
ऋषिपत्न्यस्तथा साध्व्यः परिचर्यां प्रकुर्वते ॥
दश विष्णुसमाः ख्यातास्तत्रैव निवसंति ते ॥५॥
रुद्रा ह्येकादश प्रोक्ता द्वादशार्कास्तथैव च ॥
अष्टौ च वसवः ख्याता विश्वे देवास्त्रयोदश ॥६॥
अष्टौ च दिग्गजाश्चैव मनवश्च चतुर्दश ॥
मरुद्गणाश्च ते सर्वे तत्रैवेंद्रपुरोगमाः ॥७॥
गंधर्वासरसश्चैव किंनरोरगराक्षसाः ।
सिद्धास्तपस्विनो वत्स तत्रैव समुपस्थिताः ॥८॥
अष्टौ वै भैरवाः ख्याताश्चत्वारः पवनात्मजाः ॥
विनायकाश्च षट् प्रोक्ता देव्यश्च चतुर्विंशतिः ॥९॥
एते देवगणाः प्रोक्ता रौद्राश्चैव तथा गणाः ॥
ब्रह्मा वेदविदां श्रेष्ठो मरिचिकश्यपादयः ॥१०॥
दक्षः प्रजापतिश्रेष्ठो दितिर्वै देवमातरः ।
सुरभीप्रमुखा गावः स्थावराणि चराणि च ॥११॥
तीर्थानि यानि सर्वाणि नद्यः प्रस्रवणानि च ॥
क्षेत्राणि चैव सर्वाणि भुवि पुण्यतमानि वै ॥१२॥
सप्त पुर्यस्त्रयो ग्रामा नवारण्या नवोषराः ॥
चतुर्दशानि गुह्यानि मुक्तिद्वाराणि भूतले ॥१३॥
समुद्राश्चैव चत्वारो रत्नानि विविधानि च ॥
सती पतिव्रताः साध्व्यस्तथा ब्रह्मर्षयोऽमलाः ॥
राजर्षयस्तथा शांता ब्राह्मणा वेदपारगाः ॥१४॥
वेदाः पुराणस्मृतयो गाथा गीतिप्रहे लिकाः ॥
उपासांचक्रिरे तस्य देवदेवेडुमापतेः ॥१५॥
तस्य दर्शनमात्रेण जातोऽहं विज्वरोऽमलः ॥
दीर्घायुर्दीर्घतपसा जरारोगविवर्जितः ॥१६॥
स्नातोऽहं सर्वतीर्थेषु शुचिर्भूत्वा समाहितः ॥
प्रसन्नमानसो जातः सर्वपापपराङ्मुखः ॥१७॥
दृष्ट्वा पद्मावतीं शुद्धां सर्वकामवरप्रदाम् ॥
न यत्र दृश्यते कश्चिच्छोकरोगपरो जनः ॥१८॥
न दुःखी न च दारिद्रो न मूर्खो नाजितेंद्रियः ॥
परस्परविरोधी न नृतिर्य्यक्षु च दृश्यते ॥१९॥
अन्योन्यं सर्वमित्राणि अन्योन्यं चोपकारिणः ॥
सर्वे दांताश्च शांताश्च सर्वे विद्योपदेशिनः ॥२०॥
उद्यानानि च रम्याणि वनान्युपवनानि च ॥
हर्म्याणि च सुशुभ्राणि श्रेणीबद्धानि भांति वै ॥२१॥
नानारत्नसमाकीर्णैर्हेमकुंभैः सुशोभनैः ॥
विराजंते विचित्राणि गीतवाद्यमहोत्सवैः॥२२॥
सदैव वसते यत्र उमया सह शंकरः ॥
चंद्रचूडः कृत्तिवासाश्चिताभस्मांगलेपनः ॥२३॥
चंद्रज्योत्स्नाकलापूर्णमरीचिभिः सदा बभौ ॥
यत्र नो कृष्णपक्षोऽभून्नामावास्या न वै तमः ॥२४॥
सदैव पुष्पिता श्यामा बाल्यरूपवती यथा ॥
हर्म्यपृष्ठे गवाक्षे च द्वाराजिरगृहांतरे ॥२५॥
गिरिगह्वरकुंजेषु गुहाध्वांतांतरेषु च ॥
आश्रमेषु च रम्येषु वनेषूपवनेषु च ॥२६॥
गृहदीर्घिकासु रम्यासु शालामालासु सर्वतः ॥
चंद्रज्योत्स्नासमापूर्णा दृश्यंते धवला दिशः ॥२७॥
कुमुद्वतीप्रफुल्लानि विराजंते सरांसि च ॥
ज्योतिर्गणसमाकीर्णं शरदीव नभःस्थलम् ॥२८॥
नद्यः सरांसि सर्वाणि वापीकूपसुपल्वलाः ॥
कुमुद्वत्या समाकीर्णा आसीच्चांद्रमसी मही ॥२९॥
यस्मात्सर्वेषु कालेषु प्रफुल्ला च कुमुद्वती ॥
तस्मात्पद्मावती ह्येषा जाता कुमुद्वती पुरी ॥३०॥
कुमुद्वत्यां नरा ये तु श्राद्धं कुर्युः समाहिताः ॥
न तेषां पितरः स्वर्गाच्च्यवंते हि कदाचन ॥३१॥
अक्षयं लभते श्राद्धं पितॄणां दत्तमक्षयम् ॥
स्नानं दानं तथा होमो देवताराधनं तथा ॥३२॥
यत्किंचित्क्रियते कर्म तत्सर्वं चाक्षयं भवेत् ॥
एवं कुमुद्वती जाता पुरी व्यास सनातनी ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये कुमुद्वतीप्रभावकथनंनाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP