संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|
अध्याय ५१

अवन्तीक्षेत्रमाहात्म्यम् - अध्याय ५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सनत्कुमार उवाच ॥
शृणु व्यास महाबुद्धे शिप्रामाहात्म्यमुत्तमम् ॥
यथाऽमृतभवा ख्याता पाताले नागसंमते ॥१॥
एकदा रुद्रो भिक्षार्थं नागलोके बुभुक्षितः ॥
करे कपालमादाय भोगवत्यां समागतः ॥२॥
भिक्षां देहि वचो दीनं वाचयित्वा गृहेगृहे ॥
भिक्षा केनापि नो दत्ता क्षुधितस्य च धूर्जटेः ॥३॥
तदा क्रोधाभिरक्ताक्षः शूलपाणिः क्षुधार्दितः ॥
भ्रामयित्वा पुरीं सर्वां शनैर्बहिर्विनिर्ययौ ॥४॥
एकविंशतिकुण्डानि पीयूषस्य द्विजोत्तम ॥
यत्र तिष्ठंति सर्वाणि नागलोकस्य रक्षणे ॥५॥
तत्र गत्वा स भगवाञ्छंभुः सर्वात्मसंभवः ॥
अपिबन्नेत्रमार्गेण तृतीयेन च शंकरः ॥६॥
रिक्तानि पीयूषकुण्डानि कृत्वा तत्रैव सोत्थितः ॥
कंपितश्च तदा लोको नागानां सर्वतोमुखम् ॥७॥
कस्येदं कर्म किं जातं सुधा यस्मादितो गता ॥
इत्युक्ता चैव ते सर्वे नागा वासुकिपुरोगमाः ॥८॥
महदतिक्रमणे शंकाः पुरात्ते निर्ययुर्बहिः ॥
किं कुर्वाम क्व गच्छाम कस्येदं हेलनं कृतम् ॥९॥
येनास्माकं कोपितेन हृतं चामृतमुत्तमम् ॥
अस्माकं जीवनं तस्मात्कथं जीवाम पन्नगाः ॥१०॥
इत्युक्त्वा पन्नगाः सर्वे सस्त्रीबालपरिग्रहाः ॥
हरिं च जग्मुः शरणं मनसा परिशंकिताः॥११॥
तेषामनुग्रहार्थाय वागुवाचाशरीरिणी॥
श्रूयतामुरगाः सर्वे युष्माभिर्देवहेलनम्॥१२॥ ।
भिक्षार्थमागतः शम्भुः क्षुधार्तश्च गृहेगृहे ॥
विदित्वातिथिवेलायां कपालकरभिक्षुकः ॥१३॥
दत्ता न भिक्षा केनापि भोगवत्यां पिनाकिनः ॥
तदा बहिर्गतो नाथः क्षुधितो धर्मविग्रहः ॥१४॥
तेन नष्टा सुधा सर्वा कुंडांते पन्नगोत्तमाः ॥
यूयं प्रयात पातालान्महाकालवनोत्तमे ॥१५॥
तत्रैका वै सरिच्छ्रेष्ठा शिप्रानामेति विश्रुता ॥
त्रैलोक्यपावनी ह्येषा सर्वकामफलप्रदा ॥१६॥
यस्या दर्शनमात्रेण सर्वपापक्षयो भवेत् ॥
तत्र गत्वा भवद्भिश्च स्नानं कार्यं यथाविधि ॥१७॥
भजनं देवदेवस्य ततः पूजां करिष्यथ ॥
भजनाद्देवदेवस्य शिप्रासलिलमज्जनात् ॥१८॥
भविष्यति ततः सद्यः सुधा लोके पुरेव वः ॥
इति संभाष्य तान्नागांस्तत्रैवांतरधीयत ॥१९॥
वाणीं व्यास तदा दिव्यां सहसा लोकसाक्षिणीम् ॥
श्रुत्वा देवेरितां वाणीं तथेत्युक्त्वा च पन्नगाः ॥२०॥
स्त्रीबालवृद्धसहिता महाकालवनं ययुः ॥
तत्र गत्वा ददृशुस्ते नदीं त्रैलोक्यवंदिताम् ॥२१॥
सर्वत्र कुसुमाकीर्णां तरुच्छायाभिराश्रिताम् ॥
हंसकारंडवाकीर्णां मणिमुक्ताप्रवालकाम् ॥२२॥
मणिसोपानरचितां पद्मखंडैश्च मंडिताम् ॥
सायं प्रातः स्थिता विप्राः संध्योपासनतत्पराः ॥२३॥
ऋषयश्च महाभागा भृग्वंगिरसमु ख्यकाः ॥
गंधर्वाश्चैव तत्रैव देवर्षिनारदादयः ॥२४॥
वसवश्च तथादित्या ह्यश्विनौ मरुतस्तथा ॥
रुद्राः साध्याश्च देवाश्च पितरो विमलाशयाः ॥२५॥
उपासते च शिप्रां वै संध्यावेलां समाहिताः ॥
ऋषिपत्न्यो महाभागा देवकन्याप्सरोगणाः ॥२६॥
पतिव्रता महाभागास्तत्रैव पतिभिः सह ॥
उपासंते सदाचारा वर्णाश्रमपुरोगमाः ॥२७॥
राजर्षयः समासीना निर्वाणपदवीं गताः ॥
सिद्धा योगेश्वरा शांतास्तापसाः शंसितव्रताः ॥२८॥
नानादेशोद्भवा लोका यात्रिणः समुपागताः ॥
शिप्राकूले समासीना नरनारीसमन्विताः ॥२९॥
कुर्वते तत्र धर्माणि महादानानि सर्वशः ॥
एवंविधां समालोक्य व्यास त्रैलोक्यवंदिताम् ॥३०॥
नदीं सुधामयीं सर्वां नागाः परमहर्षिताः ॥
स्नानदानादिकं कृत्वा महादेवमुपा सिरे ॥३१॥
वेदोक्तविधिना सर्वे भक्त्या पन्नगसत्तमाः ॥
पंचांगपूर्वकं स्नानं यक्षकर्दमलेपनम् ॥३२॥
अम्लानपंकजां मालां नानापुष्पाक्षतै स्तथा ॥
वासःस्रगनुलेपाद्यैश्चन्दनैर्गंधधूपकैः ॥३३॥
दीपदानादिनैवेद्यैस्तांबूलमथ दक्षिणाः ॥
कर्पूरार्तिकराः सर्वे महादेवमुपागताः ॥
स्तुतिमारेभिरे कर्तुं सुधाकामास्तदोरगाः ॥३४॥
॥ सर्पा उचुः ॥
नमोऽनंताय बृहते सर्वदेव नमोनमः ॥
चंद्रमौले नमस्तेऽस्तु कपर्दिन्परमात्मने ॥
वृषध्वज नमस्तेऽस्तु त्रिशूलवरधारिणे ॥३५॥
त्र्यम्बकाय नमस्तेऽस्तु जटामुकुटधारिणे ॥
शेषहार नमस्तेस्तु चिताभस्मांगधारिणे ॥३६॥
कृत्तिवास नमस्तेऽस्तु गिरीशाय नमोनमः ॥
त्रिपुरघ्न नमस्तेस्तु स्मरांतक नमोऽस्तु ते ॥३७॥
मृगव्याध नमस्तेऽस्तु घस्मराय नमोनमः ॥
शंकरात्मन्नमस्तेस्तु सर्वकामफलप्रद ॥३८॥
सर्वसाक्षिन्नमस्तेऽस्तु सर्वभूताशयाकृते ॥
सर्वाधार नमस्तेऽस्तु सर्वशक्तिधराय च ॥३९॥।
सर्वभोग नमस्तेऽस्तु सर्वबीजसमुद्भव ॥
दिव्यहास नमस्तेऽस्तु नमोऽमृतस्रवाय च ॥४०॥
काम्यकाम नमस्तेस्तु सर्वकामवरप्रद ॥
नमः शिवाय शांताय पशूनां पतये नमः ॥४१॥
नमो मृडाय दांताय शांतरूपाय वै नमः ॥४२॥
एवं प्रसादितो नागैर्भगवान्वृषभध्वजः ॥
प्रसन्नवदनो भूत्वा प्रत्यक्षः प्राह पन्नगान् ॥४३॥
॥ श्रीमहादेव उवाच ॥
शृणुध्वमुरगाः सर्वे वचस्तथ्यं वदामि वः ॥
नागलोके पुरा नित्यं भिक्षार्थं चागतोस्म्यहम् ॥४४॥
गृहेगृहे भोगवत्यां व्यचरत्क्षुधितो भृशम् ॥
कपालं च करे कृत्वा धृत्वा कंथां सुचीरकाम् ॥४५॥
अप्राप्तभिक्षो भिक्षार्थी पुनरागां ततो गृहम् ॥
तेन पापप्रसंगेन सुधा नष्टा च वः स्थलात् ॥४६॥
किंचित्पुण्यप्रसंगेन महाकालवनोत्तमे ॥
यूयं प्राप्ता महाभागा हित्वा नागालयोत्तमम् ॥४७॥
आबालवृद्धैः सस्त्रीभि दृष्टा शिप्रा सरिद्वरा॥
यस्या दर्शनमात्रेण सुनिष्पापोऽस्म्यहं पुरा ॥४८॥
शिप्रायां स्नानजं पुण्यं वक्तुं शक्तो न कीदृशम्॥
दर्शनाज्जायते शंभुस्तत्क्षणाद्भुवि पन्नगाः ॥४९॥
यस्मात्स्नानं कृतं सर्वैः शिप्रायां पन्नगोत्तमैः ॥
तेन पुण्यप्रभावेन सुधास्तु वो गृहेगृहे ॥५०॥
नीत्वा शिप्रोदकं पुण्यं कुण्डेषु परिषिञ्चत ॥
तेनैतानि च कुण्डानि अमृतान्येकविंशतिः ॥५१॥
संपूर्णानि भविष्यंति स्थिराणि पन्नगोत्तमाः ॥
तथेत्युक्त्वा च ते सर्वे धृत्वा शिप्रोदकं करैः ॥५२॥
गतास्ते वै स्वकं लोकं नमस्कृत्वा महेश्वरम् ॥
ततः प्रभृति सा शिप्रा नागलोकेऽमृतोद्भवा ॥५३॥
सर्वलोकेषु विख्याता व्यास शिप्राऽमृतोद्भवा ॥
ये तु तस्यां प्रकुर्वंति नराः स्नानादिकं भुवि ॥५४॥
न तेषां दुष्कृतं किंचिन्नापदो न च दुर्गतिः ॥
न वियोगो भवेत्तेषां पुत्रदारादिकैः कदा ॥५५॥
न च मित्राणि दुष्यंति न रोगो न दरिद्रता ॥
कथां पापहरां पुण्यां सर्वकामवर प्रदाम् ॥
पठनाच्छ्रवणाद्वापि गोसहस्रफलं लभेत् ॥५६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये शिप्रामाहात्म्येऽमृतोद्भवानामकथावर्णनंनामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : December 01, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP