संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथप्रायश्चित्तगोदानप्रयोग: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथप्रायश्चित्तगोदानप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथप्रायश्चित्तगोदानप्रयोग: Translation - भाषांतर श्री: ॥ आचम्यप्राणानायम्यदेशकालौसंकीर्त्य अमुकगोत्रस्यामुकप्रेतस्यजन्मप्रभृत्यध्ययावदाचरितसमस्तपातकस्याकृतप्रायश्चित्तस्यामरणांतंपापानोदनार्थंप्रायश्चित्तधेनुदानकं० ॥गोपूजनंकरिष्ये ॥ पंचगाव:समुत्पन्नामथ्यमानेमहोदधौ ॥ तासांमध्येतुयानंदातस्यैदेव्यैनमोनम: ॥ इतिमंत्रेणपूजयेत् ॥शक्तौस्वर्णश्रृंगीमित्यादिदानवाक्येवक्ष्यमाणानलंकारांस्तत्रसंयोज्यान्यानप्यर्पयेत् ॥ततआगावोअग्मन्नितिसूक्तेनगांत्रि:प्रदक्षिणीकृत्यप्रार्थयेत् ॥ यालक्ष्मी:सर्वभूतानांयाचदेवेष्ववस्थिता ॥ धेनुरुपेणसादेवीतस्यपापंव्यपोहतु ॥ देहस्थायाचरुद्राणीशंकरस्यप्रियासदा ॥ धेनुरुपेणसादेवीतपस्यपापंव्यपोहतु ॥ विष्णोर्वक्षसियालक्ष्मी:स्वाहायाचविभावसो: ॥ चंद्रार्कशक्रशक्तिर्याधेनुरुपास्तुसाप्रिये ॥चतुर्मुखस्ययालक्ष्मीर्धनदस्यच ॥ लक्ष्मीर्यालोकपालानांसाधेनुर्वरदास्तुमे ॥ स्वधात्वंपितृमुख्यानांस्वाहायज्ञभुजांत्तथा ॥सर्वपापहराधेनुस्तस्माच्छांतिंप्रयच्छमे ॥ इतिगांप्रार्थ्यप्रतिग्रहीतारंब्राह्मणंयथाविभवंसंपूज्यगोपुच्छदेशेतमुदड्मुखमवस्थाप्य स्वयंप्राड्मुख:स्वर्णयुताज्यपूरितकांस्यपात्रेगोपुच्छंनिक्षिप्य ॥ प्रायश्चित्तेसमुत्पन्नेनिष्कृतिर्नकृताक्वचित् ॥ तस्यपापस्यशुध्यर्थंधेनुमेतांददामिते ॥मयामत्पित्रावाजन्मप्रभृतिअध्ययावदाचरितसमस्तपातकस्याकृतप्रायश्चित्तस्यामरणांतंपातकापनोदनकाम:प्रायश्चित्तत्वेनकल्पितामिमांकपिलांधेनुंरुद्रदैवत्यांसुवर्णश्रृंगींरौप्यखुरांताम्रपृष्ठांघंटाग्रैवेयकांमुक्तालांगूलांकांस्यदोहनिकांवस्त्रद्वयाभरणाध्युपस्करयुतां अमुकगोत्रस्यामुकप्रेतस्यपरलोकेसुखसिध्दयेअमुकगोत्रायाअमुकशर्मणेतुभ्यमहंसंप्रददेनममेत्युक्त्वा विप्रकरेसकुशतिलोदकंगोपुच्छंदत्त्वा ॥ यज्ञसाधनभूतायाविश्वस्याघौघनाशिनी ॥ विश्वरुपधरोदेव:प्रीयतामनयागवा ॥ इतिपठेत् ॥प्रतिग्रहीतातुदेवस्यत्वेतिमंत्रेणप्रतिगृह्य ॐ स्वस्तीत्युक्त्वाकइदंकस्माअदादितिकामस्तुतिंयथाशाखंपठेत् ॥ कर्तादानस्यप्रतिष्ठासिध्यर्थंदक्षिणांदत्त्वायमोक्तांगोमतींविध्यांपठेत् ॥ गाव:सुरभयोनित्यंगावोगुग्गुलुगंधिका: ॥ गाव:प्रतिष्ठाभूतानांगाव:स्वस्त्ययनंमहत् ॥ अन्नमेवपरंगावोदेवानांहविरुत्तमं ॥ पावनंसर्वभूतानांरक्षंतिचवहंतिच ॥ हविषामंत्रपूतेनतर्पयंत्यमरान्दिवि ॥ ऋषीणामपिहोतृणांगावोहोमेप्रतिष्ठिता: ॥ सर्वेषामेवभूतानांगाव:शरणमुत्तमं ॥ गाव:पवित्रंपरमंगावोमंगलमुत्तमं ॥ गाव:सर्वस्यभूतस्यगावोधन्या:सनातना: ॥ नमोगोभ्य:श्रीमतीभ्य:सौरभेयीभ्यएवच ॥ नमोब्रह्मसुताभ्यश्चपवित्राभ्योनमोनम: ॥ ब्राह्मणाश्चैवगावश्चकुलमेकंद्विधाकृतं ॥ एकत्रमंत्रास्तिष्ठंतिहविरेकत्रतिष्ठति ॥ इति ॥ततोब्राह्मणेनसहगांप्रदक्षिणीकृत्यविष्णुंस्मृत्वाकर्मेश्वरार्पणंकृत्वाचामेत् ॥ इतिगोदानविधि: ॥ अयमेवविधिरग्रेप्रत्यक्षधेनुदानेतत्तदूहेनसर्वत्रोह्य: ॥ अत्रांगन्यासादिविशेष:पूर्वोक्तगोदानप्रयोगेआलोचनीय: ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP