संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथसर्वप्रायश्चित्तप्रयोग: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथसर्वप्रायश्चित्तप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथसर्वप्रायश्चित्तप्रयोग: Translation - भाषांतर श्री: ॥ प्रायश्चित्तेषडब्दत्र्यब्दसार्धाब्दादिव्यवस्थाप्राजापत्यप्रत्याम्नायाश्चपारिभाषिकोक्ताएव ॥ तत्रत्रिंशत्कृच्छ्मब्दं पंचचत्वारिंशत्कृच्छ्रंसार्धाब्दं नवतिकृच्छ्रंत्र्यब्दं ॥ कृच्छ्रंप्राजापत्यमितिपर्यायौ ॥ कृच्छ्रेगवादय:तन्निष्क्रयसुवर्णरजतान्यतरनिष्कतदर्धतत्पादादय:प्रत्यम्नाया: ॥ तत्रसामग्र्युपकल्पनं गंधपुष्पधूपदीपनैवेध्यफलतांबूलानिपंचगव्यानिगोमूत्रगोमयक्षीरदधिघृतादीनिभस्मगोमयमृत्तिकादूर्वातिला:समिधोदर्भा:होमार्थंघृतंपर्षद्दक्षिणानिबंधानुवादकपूजार्थंदक्षिणापूर्वोत्तरांगगोप्रदानद्रव्यंपूर्वोत्तरांगविष्णुश्राध्दद्रव्यमित्यादि ॥ एवंसामग्रींसंपाध्यसंभवेरिक्तायांतिथावन्यस्मिन्वापुण्येह्निचतुरस्त्रीने कंवाध्यात्मविदंब्राह्मणंपर्षत्त्वेनोपवेश्यकृतस्नान:शक्तश्चेदार्द्रवासाअभुजान:समाहितमनाविप्रान्दक्षीणीकृत्यहृदयेनदूयमानोधरण्यांसाष्टांगंप्रणमेत् ॥ विप्रै:किंतेकार्यंमिथ्यामावादी:सत्यमेववदेतिपृष्ट:कर्ताऽऽचम्यप्राणानायम्य देशकालौसंकीर्त्यकरिष्यमाणसर्वप्रायश्चित्तांगत्वेनेदंगोवृषयोनिंष्क्रयीभूतंनिष्कतर्धतत्पादान्यतमप्रमाणंरजतद्रव्यंसभ्येभ्योदातुमहमुत्सृज्येनममेतिसंकल्पपूर्वकंसभ्याग्रेनिधाय ॥ अमुकशर्मणोममजन्मप्रभृत्यध्ययावत् ज्ञानाज्ञानकामाकामसकृदसकृत् कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्ट्वास्पृष्टभुक्ताभुक्तपीतापीतसकलपातकातिपातकोपपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णकपातकानांमध्येसंभावितपापा नांनिरासार्थमनुग्रहंकृत्वाप्रायश्चित्तमुपदिशंतुभवंत:इतिवदेत् ॥(स्वस्याशक्तौपुत्रादि:प्रतिनिधिश्चेन्ममपितुर्मातुर्वाजन्मप्रभृतीत्यादिवदेत् ) ॥ तत: ॥ सर्वेधर्मविवेक्तारोगोप्तार:सकलाद्विजा: ॥ ममदेहस्यसंशुध्दिंकुर्वंतुद्विजसत्तमा: ॥(पुत्रादौकर्तरिममेत्यत्रास्यदेहस्येत्यूह:) ॥ मयाकृतंमहाघोरंज्ञातमज्ञातकिल्विषं ॥ प्रसाद:क्रियतांमह्यंशुभानुज्ञांप्रयच्छथ ॥ पूज्यै:कृत:पवित्रोहंभवेयद्विजसत्तमै: ॥ इतिसंप्रार्थ्यमामनुगृह्णतुभवंत: इतिप्रणमेत् तत:सभ्यैस्तस्यशक्त्यादिविचार्यप्रायश्चित्तेनिश्चित्ते कर्तामासपक्षाध्युच्चार्यकरिष्यमाणसर्वप्रायश्चित्तांगत्वेननिबंधपूजामनुवादकपूजांकरिष्य इतिसंकल्प्यादौचंदनपुष्पादिभि: पुस्तकपूजांकृत्वानिबंधपूजात्वेनकिंचिद्द्रव्यंनिधायानुवादनुवादकपूजांकुर्यात् ॥अनुवादकमुदड्मुखमुपवेश्यपरमेश्वरस्वरुपिणेऽनुवादकब्राह्मणायेदमासनंइत्यादिदक्षिणांतंपूजनंकृत्वाइमांभृतिरुपांदक्षिणामनुवदकायतुभ्यमहंसंप्रददेनममेतिदध्यात् ॥ तत:सभ्या:पुस्तकवाचनपूर्वकमनुवादकस्याग्रेकथयेयु: ॥ अनुवादकश्चकर्तारंवदेत् ॥तध्यथा ॥ अमुकशर्मणस्तवजन्मप्रभृति अध्ययावज्ज्ञानाज्ञानकामाकामसकृदसकृत्कृतकायिकावाचिकमनसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतसकलपातकातिपातकोपपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णकपातकानांमध्येसंभावितपापानांनिरासार्थंपर्षदुदिष्टंषडब्दत्र्यब्दसार्धाब्दान्यतमप्रायश्चित्तंतत्प्रत्याम्नायगोनिष्क्रयीभूतरजतनिष्कतदर्धतत्पादान्यतमद्रव्यदानद्वाराप्राच्योदीच्यांगसहितंत्वया आचरितव्यंतेनतवशुध्दिर्भविष्यतित्वंकृतार्थोभविष्यसिइतित्रिवारमुषदिशेत् ॥कर्ता ॐ भवदनुग्रह:इत्यंगीकृत्यसंमानपूर्वकंप्रणम्यर्षदंविसृजेत् ॥ तत:कर्तारिक्तायांसायान्हेगंगादौदेशकालौसंकीर्त्य अमुकशर्मणोममजन्मप्रभृत्यध्ययावत् ज्ञानाज्ञानकामाकामसकृदसकृत् कृतकायिकवाचिकमानसिकसांसर्गिकस्पृष्टास्पृष्टभुक्ताभुक्तपीतसकलपातकातिपातकोपपातकलघुपातकसंकरीकरणमलिनीकरणापात्रीकरणजातिभ्रंशकरप्रकीर्णकपातकानांमध्येसंभावितानांपापानांनिरासार्थंपर्षद्पदिष्टंषडब्दत्र्यब्दसार्धाब्दान्यतमप्रायश्चित्तंतत्प्रत्याम्नायगोनिष्क्रयीभूतरजतनिष्कपादतदर्धतत्पादान्यतमपरिमितद्रव्यदानद्वाराप्राच्योदीच्यांगसहितंयथाशक्त्यहमाचरिष्यइतिसंकल्प्य ॥ शिरसिहस्तंनिधाय ॥ यानिकानिचपापानिब्रह्महत्यासमानिच ॥ केशानाश्रित्यतिष्ठंतितस्मात्केशान्वपाम्यहं ॥ इतिमंत्रेणशिखाकक्षोपस्थवर्ज्यंनखकेशादीन्वापायित्वा (अशक्तौक्षौराभावेसार्धाब्दादिव्रतंद्विगुणंकृत्वापर्षद्दक्षिणापिद्विगुणादेया) क्षौरांतेगंडूषान्कृत्वायथोक्तापामार्गादिदंतकाष्ठेन ॥ आयुर्बलंयशोवर्च:प्रजापशुवसूनिच ॥ ब्रह्मप्रज्ञांचमेधांचत्वंनोदेहिवनस्पते ॥ इतिमंत्रेणाभिमंत्रितेनद्वादशांगुलप्रमाणेनप्राड्मुख: ॥ मुखदुर्गंधिनाशायदंतानांचविशुध्दये ॥ ष्ठीवनायचगात्राणांकुर्वेऽहंदंतधावनं ॥ इतिमंत्रेणदंतशुध्दिंकृत्वातादृशान्यकाष्ठेनजिव्हामुल्लिख्यद्वादशगंडूषान् कृत्वाऽऽचम्यस्त्रात्वा ॥ भस्मादिदशविध्स्स्नानानिकुर्यात् ॥ तत्रप्रायश्चित्तांगंभस्मस्नानंकरिष्यइतिसंकल्प्यभस्मगृहीत्वा ॐ ईशान:सर्वविध्याना० ईशानायनमइतिशिरसि ॥ ॐ तत्पुरुषायविद्महे० तत्पुरुषायनमइतिमुखे ॥ ॐ अघोरेभ्योथघोरेभ्यो० अघोरायनम इतिहृदये ॥ ॐ वामदेवायनमोज्येष्ठाय० वामदेवायनमइतिगुह्ये ॥ ॐ सध्योजातंप्रपध्यामि० सध्योजातायनम इतिपादयो: ॥प्रणवेनसर्वांगेषुविलिप्य (यद्वाअग्निरितिभस्मवायुरितिभस्म जलमितिभस्म स्थलमितिभस्म व्योमेतिभस्म सर्वहवाइदंभस्मेतिमंत्रैर्विलिप्य) तत:स्नात्वाऽऽचामेत् ॥तत:प्रायश्चित्तांगंगोमयस्नानंकरिष्य इतिसंकल्प्य गोमयमादायवामहस्तेकृत्वा ॐ भूर्भुव:स्वरितिव्याहृतिभिस्त्रेधाविभज्यदक्षिणभागंप्रणवेनदिक्षुनिक्षिप्योत्तरभागंचतीर्थेप्रक्षिप्यशेषंसूर्यायदर्शयित्वा ॐ मानस्तोकेतनये० इत्यभिमंत्र्य ॐ गंधद्वारामितिमंत्रेण अग्रमग्रंचरंतीनामोषधीनांवनेवने ॥तासामृषभपत्नीनांपवित्रंकायशोधनं ॥ तन्मेरोगांश्चशोकांश्चनुदगोमयसर्वदा ॥ इतिमंत्रेणवासर्वांगमनुलिप्यस्नात्वाचामेत् ॥ सर्वप्रायश्चित्तांगभूतंमृत्तिकास्नानंकरिष्य इतिसंकल्प्य अश्वक्रांतेइतिमृदमभिमंत्र्य ॥ ॐ उध्दृतासिवराहेणकृष्णेनशतबाहुना ॥ मृत्तिकेहरमेपापंयन्मयादुष्कृतंकृतं ॥ इतिमृदमादाय ॐ नमोमित्रस्यवरुणस्य० इतिमंत्रेण सूर्यायप्रदर्श्य ॐ गंधद्वारामितिमंत्रेण ॐ स्योनापृथिवी० इतिवा ॐ इदंविष्णु० इतिमंत्रेणवाशिर:प्रभृत्यंगानिविलिप्यस्नात्वाद्विराचामेत् ॥अथवाविस्तरेणमृत्तिकास्नानंकार्यं ॥ तध्यथा ॥ ॐ बळित्थापर्वतानांखिद्रंबिभर्षिपृथिवि ॥ प्रयाभूमिंप्रवत्वतिमन्हाजिनोषिमहिनि ॥ इतिभूमिंप्रार्थ्य ॥ ॐ मावोरिषत्खनितायस्मैचाहंखनामिव: ॥ द्विपच्चतुष्पदस्माकंसर्वमस्त्वनातुरं ॥ इतिखनित्वा ॥ ॐ स्योनापृथिविभवानृक्षरानिवेशनी ॥ यच्छान:शर्मसप्रथ: ॥ इतिमृदंगृहीत्वा ॥ ॐ आयनेतेपरायणेदूर्वारोहंतुपुष्पिणी: ॥ हृदाश्चपुंडरीकाणिसमुद्रस्यगृहाइमे ॥ इतिदूर्वामादायगायत्र्याभ्युक्ष्यभूमौमृदंनिधाय मृत्तिकास्नानंकरिष्य इतिसंकल्प्यमृदंकुशोदकेनप्रोक्ष्यदिक्षुक्षिपेत् ॥ॐ त्रातारमिंद्रमवितारमिंद्रंहवेहवेसुहवंशूरमिंद्रं ॥ व्हयामिशक्रंपुरुहूतमिंद्रंस्वस्तिनोमघवाधात्विंद्र: ॥ इतिपूर्वस्यां ॥ॐ यमायमधुमत्तमंराज्ञेहव्यंजुहोतन ॥ इदंनमऋषिभ्य: पूर्वजेभ्य:पूर्वेभ्य:पथिकृभ्ध्य: ॥इतिदक्षिणस्यां ॥ॐ तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहेळमानोवरुणेहबोध्युरुशंसमानआयु:प्रमोषी: ॥ इतिपश्चिमायां ॥ ॐ वयंसोमव्रतेतवमनस्तनूषुविभ्रत: ॥ प्रजावंत:सचेमहि ॥ इतिउत्तरत: ॥ ॐ तत्सूर्यंरोदसीउभेदोषावस्तोरुपब्रुवे ॥ भोजेष्वस्माँअभ्युच्चरासदा ॥ इत्युपरिष्टात् ॥ ॐ अध:पश्यस्वमोपरिसंतरांपादकौहर ॥मातेकशप्लकौदृशन् स्त्रीहिब्रह्माबभूविथ ॥ इत्यध:क्षिप्त्वांगेषुलिंपेध्यथा ॥ ॐ सहस्त्रशीर्षा० इति शिरसि ॥ ॐ अक्षीभ्यांतेनासिकाभ्यांकर्णाभ्यांछुबुकादधि ॥ यक्ष्मंशीर्षण्यंमस्तिष्काज्जिव्हायाविवृहामिते ॥ इतिमुखे ॥ ॐ ग्रीवाभ्यस्तौउष्णिहाभ्य:कीकसाभ्योअनूक्यात् ॥यक्ष्मंदोषण्य १ मंसाभ्यांबाहुभ्यांविवृहामिते ॥ इतिग्रीवायां ॥ ॐ आंत्रेभ्यस्तेगुदाभ्योवनिष्ठोर्हृदयादधि ॥ यक्ष्मंमतस्नाभ्यांयक्न:प्लशिभ्योविवृहामिते ॥ इतिहृदये ॥ ॐ नाभानाभिंन आददेचक्षुश्चित्सूर्येसचा ॥ कवेरपत्यमादुहे ॥ इतिनाभौ ॥ ॐ त्वमिंद्रसजोषसमर्कंबिभर्षिबाह्वो: ॥ वज्रंशिशानओजसा ॥ इतिबाह्वो: ॥ ॐ सोमानंस्वरणंकृणुहिब्रह्मणस्पते ॥ कक्षीवंतंयऔशिज: ॥ इतिकक्ष्यो: ॥ ॐ य:कुक्षि:सोमपातम:समुद्रइवपिन्वते ॥ उर्वीरापोनकाकुद: ॥ इतिकुक्ष्यो: ॥ ॐ बहवीनांपिताबहुरस्यपुत्रश्चिश्चाकृणोतिसमनावगत्य ॥ इषुधि:संका:प्रुतनाश्चसर्वा:पृष्ठेनिनध्दोजयतिप्रसूत: ॥ इतपृष्ठे ॥ॐ ऊरुभ्यांतेअष्ठीवभ्ध्यांपार्ष्णिभ्यांप्रपदाभ्यां ॥ यक्ष्मंश्रोणिभ्यांभासदाभ्दंससोविवृहामिते ॥ इत्यूर्वो: ॥ ॐ मेहनाद्वनं करनाल्लोमभ्यस्तेनखेभ्य: ॥ यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते ॥ इतिजान्वो: ॥ ॐ एतानावस्यमहिमातोज्यायांश्चपूरुष: ॥ पादोस्यविश्वाभूतानित्रिपादस्यामृतंदिवि ॥इतिपादयो: ॥ ॐ यस्यविश्वानिहस्तयो:पंचक्षितीनांवसु ॥ स्पाशयस्वयोअस्मृध्र्दुक् दिव्येवाशनिर्जहि ॥इतिहस्तयो: ॥ ॐ अंगादंगाल्लोम्नोलोम्नोजातंपर्वणिपर्वणि ॥ यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते ॥इतिपुरुषसूक्तेनचसर्वांगोद्वर्तनं ॥ तत: ॥ ॐ अश्वक्रांतेरथक्रांतेविष्णुक्रांतेवसुंधरे ॥ शिरसाधारयिष्यामिरक्षस्वमांपदेपदे ॥ भूमिर्धेनुर्धरणीलोकधारिणी ॥उध्दृतासिवराहेणकृष्णेनशतबाहुना ॥ मृत्तिकेहरमेपापंयन्मयादुष्कृतंकृतं ॥ मृत्तिकेब्रह्मदत्तासिकाश्यपेनाभिमंत्रिता ॥मृत्तिकेदेहिमेपुष्टिंत्वयिसर्वंप्रतिष्ठितं ॥ मृत्तिकेप्रतिष्ठितेसर्वंतन्मेनिर्गुदमृत्तिके ॥ त्वयाहतेनपापेनगच्छामिपरमांगतिं ॥इतिसतिलदूर्वांमृदंशिरसिनिधायमृत्तिकास्थानंप्रक्षालयेत् ॥ अथशुध्दोदकस्नानं ॥ ॐ आपोअस्मान्मातर:० इत्युक्त्वासूर्याभिमुख: ॐ इदंविष्णु० इतिमंत्रेणप्रवाहाभिमुखोनिमज्जेत् ॥ अथवा आपोहिष्ठेतितृचेनवारिस्नानंकुर्यात् ॥ अथपंचगव्यै:कुशोदकेनचेतिषट्स्नानानि ॥ तत्रादौसर्वप्रायश्चित्तांगंगोमूत्रस्नानंकरिष्य इतिसंकल्प्य ॥ ॐतत्सवितु० इतिगोमूत्रस्नानंकृत्वापुन:स्नात्वाचामेत् ॥ एवमग्रेपिगोमयस्नानंकरिष्ये ॥ ॐ गंधद्वारां० इतिगोमयेन ॥ क्षीरस्नानंकरिष्ये ॐआप्यायस्वसमेतुते० इतिक्षीरस्नानांस्नानमाचमनंच ॥ ततोदधिस्नानंचकरिष्ये ॥ ॐ दधिक्राव्णोअकारिषं० इतिदधिस्नानांतेजलेनस्नात्वाआचामेत् ॥ ततोघृतस्नानंकरिष्ये ॥ ॐ घृतंमिमिक्षे० इतिघृतस्नानं० ॥ तत:स्नानाचमनेचकार्ये ॥ कुशोदकस्नानंकरिष्य इतिसंकल्प्य ॥ ॐ देवस्यत्वासवितु:प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ताभ्यामभिषिंचामीतिकुशोदकस्नानांतेशुध्दोदकेनस्नात्वातीर्थंप्रार्थयेत् ॥ ॐहिरण्यश्रृंगंवरुणंप्रपध्येतीर्थंमेदेहियाचित: ॥ यन्मयाभुक्तमसाधूनांपापेभ्यश्चप्रतिग्रह: ॥ यन्मेमनसावाचाकर्मणावादुष्कृतंकृतं ॥ तन्नइंद्रोवरुणोबृहस्पति:सवितचपुनंतुपुन:पुन: ॥इतिद्वाभ्यां ॥ ॐ अवतेहेळो० ॐ उदुत्तमं० इतिद्वाभ्यांचतीर्थंप्रार्थ्य ॐया:प्रवतो० इतितीर्थमभिमृश्य स्नात्वाचम्यमार्जयेत् ॥ तत्रमंत्रा: ॥ ॐ इमंगंगे० ॐ सुमित्र्यान्० ॐ समुद्रज्येष्ठा० ॐ एतोन्विंद्रं० ॐ तरत्समंदी० ॐ त्रिभिष्टवंदे० क्षीरंसर्पिर्मधूदकं० ॥ ॐ आपोहिष्ठा० इतिमंत्रैर्मार्जनंकृत्वा ॥ ॐ इमंमेगंगेयमुने० ॐ इदंतेन्याभिरसमानमभ्दिर्या:काश्चसिंधुंप्रवहंतिनध्य: ॥ सर्पोजीर्णामिवत्वचंजहातिपापंसशिरस्कोभ्युपेत्य ॥ इत्युदकमालोड्य ॥ ॐ ऋतंचसत्यं० इतितृचेनत्रिरावृत्तेनाघमर्षणंकृत्वात्रिर्द्वादशवारंवामज्जनानिकृत्वास्नानांगतर्पणंकुर्यात् ॥तध्यथा ॥ उपवीतीसाक्षताभिरभ्दर्देवतीर्थेनब्रह्मादयोयेदेवा:तान्देवांस्तर्पयामि भूर्देवांस्तर्पयामि भुवर्देवांस्तर्पयामि स्वर्देवांस्तर्पयामि भूर्भव:स्व:र्देवांस्तर्पयामिनिवीतीसाक्षताभिरभ्दि:ऋषितीर्थेन कृष्णद्वैपायनादयोयेऋषय: तान् ऋषींस्त० भूऋषींस्त० भुवऋषींस्त० स्वऋषींस्त० भूर्भुव:स्व:ऋषींस्तर्पयामि ॥ प्राचीनावीती सतिलाभिरभ्दि:पितृतीर्थेनसोम:पितृमान्यमोंगिरस्वानग्निष्वात्ता:कव्यवाहनादयोयेपितर:तान् पितृंस्त० भू:पितृंस्त० स्व:पितृंस्तर्पयामि भूर्भुव:स्व:पितृंस्तर्पयामिइतिस्नानांगतर्पणंकृत्वा ॥ अग्निदग्धाश्चयेजीवायेप्यदग्धा:कुलेमम ॥ भूमौदत्तेनतोयेनतृप्तायांतुपरांगतिं ॥ इतितीरेजलंदत्त्वा ॥ येकेचास्मत्कुलेजाताअपुत्रागोत्रिणोमृता: ॥ तेगृह्णंतुमयादत्तंवस्त्रनिष्पीडनोदकं ॥ इतितीरेउत्तरीयंनिष्पीडय ॥ यन्मयादूषितंतोयंशारीरमलसंभवात् ॥ तद्दोषपरिहारार्थंयक्ष्माणंतर्पयाम्यहं ॥ इतियक्ष्मतर्पणंविधाय धौतेवाससीपरिधायद्विराचम्यतिलकंधृत्वाऽऽचम्यदेशकालौस्मृत्वा श्रीविष्णुप्रीत्यर्थंसर्वप्रायश्चित्तपूर्वांगत्वेनविहितंविष्णुश्राध्दंकरिष्य इतिसंकल्प्य ॥ शालग्रामशिलायांदर्भबटौआ ॐ इदंविष्णुरितिविष्णुरितिविष्णुमावाह्य षोडशोपचारै:पंचोपचारैर्वासंपूज्यपापाहश्रीविष्णुप्रीत्यर्थंसर्वप्रायश्चित्तांगाध्यविष्णुश्राध्दसंपत्तयेश्रीविष्णुद्देशेनब्राह्मणचतुष्टयभोजनपर्याप्तामनिष्क्रयीभूतंद्रव्यंनानानामगोत्रेभ्यश्चतुर्भ्योब्राह्मणेभ्योदातुमहमृसृज्येनममेतिसंकल्प्यचतुर्भ्योब्राह्मणेभ्य:पूजनपूर्वकंविभज्यदध्यात् ॥तेनपापापहमहाविष्णु:प्रीयतां ॥ सर्वप्रयश्चित्तपूर्वांगत्वेनविहितंगोदानंकरिष्ये इतिसंकल्प्य एकागांतन्निष्क्रयंवाध्यगोदानत्वेनकुटुंबिनेद्विजायदध्यात् ॥तध्यथा॥ गवामंगेषुतिष्ठंतिभुवनानिचतुर्दश ॥ यस्मात्तस्माच्छिवंमेस्यादिहलोकेपरत्रच ॥ इमांगांयथाशक्त्यलंकृतांइदंगोनिष्क्रयद्रव्यंवापापापहमहाविष्णुप्रीत्यर्थंब्राह्मणायदातुमहमुत्सृज्येइतिदत्त्वा ततोदेशकालौसंकीर्त्यश्रीपरमेश्वरप्रीत्यर्थंसर्वप्रायश्चित्तपूर्वांगहोमंकरिष्ये ॥तदंगतयास्थंडिलोपलेनोल्लेखनाध्यग्निप्रतिष्ठापनादिकरिष्य इतिसंकल्प्यत्कृत्वाजुष्टोदमूनेत्यादिविटनामानमग्निंप्रतिष्ठापयामीत्यंतेचत्वारि श्रृंगेत्यादिनाध्यात्वा सर्वप्रायश्चित्तपूर्वांगहोमेदेवतापरिग्रहार्थमित्यादिचक्षुषी आज्येनेत्यंते अत्रप्रधानंअग्निंवायुंसूर्यंप्रजापतिंचप्रतिदैवतंसप्तविंशतिसंख्याज्याहुतिभि:सप्तसंख्याज्याहुतिभिर्वा तथा पृथिवींविष्णुंरुद्रंब्रह्माणंअग्निंसोमंसवितारंप्रजापतिंप्रजापतिमग्निंस्विष्टकृतंचएकैकयापंचगव्याहुत्यायक्ष्ये ॥ शेषेणस्विष्टकृतमित्यादिसध्योयक्ष्यइत्यंतमुक्त्वासमिद्द्वयमग्नावाधायपरिसमूहनादिपात्रासादनांतेतृणेनसहपंचगव्यपात्रमासाध्याज्यसंस्कारकालेपंचगव्यंकृत्वाज्येनसहपर्यग्निकुर्यात् ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP