संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथयोगपट्ट:

और्ध्वदेहिकादिप्रकरणम् - अथयोगपट्ट:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कारितपर्यंकशौचौयति:कटिशौचंकृत्वाकटिसूत्रकौपीनेधृत्वावस्त्रेणावगुंठयगुर्वनुज्ञयो
च्चासनेउपविश्यसभ्यै:सहवेदांतेकिंचिदुपन्यसेत् ॥
गुरुर्यति:शिष्यंयतिंशिरसिशंखेनपुरुषसूक्तेनाभिषिच्यवस्त्रगंधपुष्पधूपदीपनैवेध्यै:संपूज्यव
स्त्रमुपरिधृत्वायतिभि:सहविश्वरुपाध्यायंपश्यामिदेवानित्यारभ्यभुंक्ष्वराज्यंसमृध्दमित्यंतं
पठित्वा पूर्वकल्पितंनामदध्यात् ॥
तत:शिष्यंवदेत् इत:परंत्वयासंन्यासाधिकारिणेसंन्यासोदेयोदीक्षायोगपट्टादिकंचकार्यं
ज्येष्ठयतयोनमस्कार्या: ॥
ततोगुरु:कटिसूत्रंपंचमुद्रालंकृतंपूर्वदंडंचशिष्यायदत्त्वाशिष्यंयथासंप्रदायंनमस्कुर्यात् अन्येयत
योगृहिणश्चनमस्कुर्यु: ॥
शिष्योनारायणेत्युक्त्वोच्चासनादुत्थायतत्रगुरुमुपवेश्ययथाविधिनत्वान्ययतीन्नमेत् ॥
इतिगृह्याग्निमतोविधुरादेश्चविविदिषासंन्यासप्रयोग: ॥
अथाग्निहोत्रिणोविशेष: ॥ तत्रश्रौताग्नयोविच्छिन्नाश्चेत्पुनराधानंपावमानेष्टयंतंपूर्णाहुत्यं
तंवाकृत्वाप्रायश्चित्तादिसावित्रीप्रवेशांतंपूर्वत्कुर्यात् ॥
इतियोगपट्ट: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP