संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथचितिपूरणम् और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथचितिपूरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथचितिपूरणम् Translation - भाषांतर श्री: ॥ ततश्चितिंपरिपूर्य ॥ क्रव्यादमितिदमनोग्निस्त्रिष्टुप् ॥ अग्निप्रज्वालनेविनियोग: ॥ ॐ क्रव्यादमग्निंप्रहिणोमिदूरंयमराज्ञोगच्छतुरिप्रवाह: ॥इहैवायमितरोजातवेदादेवेभ्योहव्यंवहतुप्रजानन् ॥ इतिमंत्रेणपुंस:शिरोदेशेस्त्रिया:पाददेशेऽग्निंप्रज्वाल्यवक्ष्यमाणमंत्रैर्वस्त्रपल्लवैश्चितौवायु:कार्य: ॥ ॐ वातास्तेवांतुपथिपुण्यगंधामन:सुखागात्रसुखानुलोमा: ॥ त्वच:सुखामांससुखाअस्थिसौख्यावहंतुत्वांमरुत:सुकृतांयत्रलोका: ॥ ॐ इमाआपोमधुमत्योस्मिंस्तेलोकउपदुह्यंतामक्षीयमाणा:स्वधानम: ॥ इमाआपोमधुमत्योंतरिक्षेतेलोकउपदुह्यंतामक्षीयमाणा:स्वधानम: ॥ इमाआपोमधुमत्य:स्वर्गेतेलोकउपदुह्यंतामक्षीयमाणा:स्वधानम् ॥ ततोदह्यमानंप्रेतंतिलप्रेक्षेपेणानुमंत्रयीत ॥ प्रेहिप्रेहीतिद्वयोर्यम:पितरस्त्रिष्टुप् ॥ दह्यमानप्रेतानुमंत्रणेविनियोग: ॥ ॐ प्रेहिप्रेहिपथिभि:पूर्व्येभिर्यत्रान:पूर्वेपितर:परेयु: ॥ उभाराजानस्वधयामदंतायमंपश्यासिवरुणंचदेवं ॥ संगच्छस्वपितृभि:संयमेनेष्टापूर्तेनपरमेव्योमन् ॥ हित्वायावध्यंपुनरस्तमेहिसंगच्छस्वतन्वासुवर्चा: ॥ अतिद्रव्येतियोर्यमश्वानौत्रिष्टुप् ॥ दह्यमानप्रेतानु० ॥ ॐ अतिद्रवसरमेयौश्वानौचतुरक्षौशबलौसाधुनापथा ॥ अथापितृन्त्सुविदत्राँउपेहियमेनयेसधमादंमदंति ॥यौतेश्वानौयमरक्षितारौचतुरक्षौपथिरक्षीनृचक्षसौ ॥ ताभ्यामेनंपरिदेहिराजन् त्स्वस्तिचास्माअनमीवचंधेहि ॥ मैनामितिषण्णांदमनोग्निस्त्रिष्टुप् ॥ दह्यमानप्रेतानु० ॥ ॐ इनमग्नेविदहोमभिशोचोमास्यत्वचंचिक्षिपोमाशरीरं ॥ यदाशृतंकृणवोजातवेदोथेमेनंप्रहिणुतात्पितृभ्य: ॥ शृतंयदाकरसिजातवेदोथेमेनंपरिदत्तात्पितृभ्य: ॥ यदागच्छात्यसुनीतिमेतामथादेवानांवशनीर्भवाति ॥ सूर्यचक्षुर्गच्छतुवातमात्माध्यांगच्छपृथिवींचधर्मणा ॥ अपावागच्छयदितत्रतेहितमोषधीषुप्रतितिष्ठाशरीरै: ॥ अजोभागस्तपसातंतपस्वतंतेशोचिस्तपतुतंतेअर्चि: ॥ यास्तेशिवास्तन्वोजातवेदस्ताभिर्वहैनंसुकृतामुलोकं ॥ अवसृजपुनरग्नेपितृभ्योयस्तऽआहुतश्चरतिस्वधाभि: ॥ आयुर्वसानऽउपवेतुशेष:संगच्छतांतन्वाजातवेद: ॥ यत्तेकृष्ण:शकुनऽआतुतोदपिपील:सर्पउतवाश्वापद: ॥ अग्निष्टद्विश्वादगदंकृणोतुसोमश्चयोब्राह्मणाँऽआविवेश ॥ पूषात्वेतिचतसृणांदेवश्रवा:पूषात्रिष्टुप् ॥ दह्यमानप्रेतानु० ॥ ॐ पूषात्वेतश्च्यावयतुप्रविद्वाननष्टपशुर्भुवनस्यगोपा: ॥ सत्वैतेभ्य:परिददत्पितृभ्योग्निर्देवेभ्य:सुविदत्रियेभ्य: ॥आयुर्विश्वायु:परिपासतित्वापूषात्वापातुप्रपथेपुरस्तात् ॥ यत्रासतेसुकृतोयत्रतेययुस्तत्रत्वादेव:सवितादधातु ॥ पूषेमाआशाऽअनुवेदसर्वा:सोऽअस्माँअभयतमेननेषत् ॥ स्वस्तिदाऽआघृणि:सर्ववीरोप्रयच्छन्पुरएतुप्रजानन् ॥ प्रपथेपथामजनिष्टपूषाप्रपथेदिव:प्रपथेपृथिव्या: ॥ उभेअभिप्रियतमेसधस्थआचपराचचरतिप्रजानन् ॥उपसर्पेतिचतसृणांसंकुसुक:पितृमेधस्त्रिष्टुप् द्वितीयाप्रस्तारपंक्ति: चतुर्थीजगती ॥ दह्यमानप्रेतानु० ॥ॐ उपसर्पमातरंभूमिमेतामुरुव्यचसंपृथिवीसुशेवां ॥ ऊर्णम्रदायुवतिर्दक्षिणावतएषात्वापातुनिऋतेरुपस्थात् ॥ उच्छ्वंचस्वपृथिविमानिबाधथा:सूपायनास्मैभवसूपवंचना ॥ मातापुत्रंयथासिचाभ्येनंभूमऊर्णुहि ॥ उच्छृंचमानापृथिवीसुतिष्ठतुसहस्त्रंमितउपहिश्रयतां ॥ तेगृहासोघृतश्चुतोभवंतुविश्वाहास्मैशरणा:संत्वत्र ॥ उत्तेस्तभ्रामिपृथिवींत्वत्परीमंलोगंनिदधन्मोऽअहरिषं ॥ एतांस्थूणांपितरोधारयंतुतेत्रायम:सादनातेमिनोतु ॥इतिपंचायमोभाववृत्तोनुष्टुप् ॥ दह्यमानप्रेतानु० ॥ ॐ सोमएकेभ्य:पवतेघृतमेकउपासते॥ येभ्योमधुप्रधावतितांश्चिदेवापिगच्छतात् ॥ तपसायेअनाधृष्यास्तपसायेस्वर्ययु: ॥ तपोयेचक्रिरेमहस्तां० ॥ येयुध्यंतेप्रधनेषुशूरासोयेतनूत्यज: ॥ येवासहस्त्रदक्षिणास्तांश्चिदेवापिंगच्छतात् ॥ येचित्पूर्वऋतसापऽऋतावानऽऋतावृध: ॥पितृन्तपस्वतोयमतांश्चिदेवापिगच्छात् ॥ सहस्त्रणीथा:कवयोयेगोपायंतिसूर्य ॥ ऋषीन्तपस्वतोयमतपोजाँऽअपिगच्छतात् ॥ उरुणसावित्यस्ययमश्वानौत्रिष्टुप् ॥दह्यमानप्रेतानु० ॥ॐ उरुणसावसुतृपाउदुंबलौयमस्यदूतौचरतोजनाँऽअनु ॥ तावस्मभ्यंदृशयेसूर्यायपुनर्दातावसुमध्येहभद्रं ॥ एतैर्मंत्रैर्दह्यमानंप्रेतमनुमंत्र्य ॥ तत:कर्तासव्येंसेजलपूर्णंकुंभंगृहीत्वाश्मशानस्थितंनातिस्थूलमस्फुटितंश्वक्ष्णमश्मानमादायकुंभस्यपृष्ठभागेतेनाश्मनाछिद्रंकृत्वाप्रेतपाददेशादारभ्यतत्पर्यंतमप्रदक्षिणंपरिव्रजन्जपेत् ॥ॐ वातास्तेवांतुपथिपुण्यगंधामन:सुखागात्रसुखानुलोमा: ॥त्वच:सुखामांससुखाअस्थिसौख्यावहंतुत्वामरुत:सुकृतांयत्रलोका: ॥ इमाआपोमधुमत्योस्मिस्तेलोकउपदुह्यंतामक्षीयमाणा:स्वधानम: ॥ इत्येकवारंपरिक्रम्यपाददेशएवस्थित्वा तेनैवाश्मनाकुंभेद्वितीयाच्छिद्रंकृत्वाव्रजन् जपेत् ॥ॐ वातास्तेवांतु० ॥ इमाआपोमधुमत्योंतरिक्षेतेलोकउपदुह्यंतामक्षीयमाणा:स्वधानम: ॥ पुनस्थैवतृतीयच्छिद्रंकृत्वापूर्वव्र्दजन् जपेत् ॥ ॐ वातास्तेवांतु० ॥ इमाआपोमधुमत्य:स्वर्गेतेलोकौपदुह्यंतामक्षीयमाणा:स्वधानम: ॥ एवंत्रि:परिक्रम्यप्रेतशिरोदेशेकुंभंस्फोटयित्वाशिलाहस्त:कर्ता ॥ इमेजीवा:संकुसुकोमृत्युस्त्रिष्टुप् ॥ सव्यमावृत्त्यगमनेविनि० ॥ ॐ इमेजीवामिमृतैराववृत्रन्नभूभ्दद्रादेवहूतिर्नोऽअध्य ॥ प्रांचोअगामनृतयेहसायद्राघीयआयु:प्रतरंदधाना: ॥ इतिमंत्रंजपेत् ॥ तत:कर्तृसहिता:सव्यावृत्ताभूत्वापृष्ठतोऽनवेक्षमाणा:कनिष्ठापूर्वा:कर्तृपुर:सरंसर्वेनिर्गच्छेयु: ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP