संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथभूमिदानम्

और्ध्वदेहिकादिप्रकरणम् - अथभूमिदानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सागोचर्ममिताधिकावादेया ॥ दशहस्तेनदंडेनत्रिंशद्दंडानिवर्तनं ॥ त्रिभागहीनंगोच
र्ममानमाहप्रजापति: ॥
अध्येत्यादिपितु:सर्वपापक्षयपूर्वकंषष्टिसहस्त्रवर्षस्वर्गनिवासोत्तरंशिवपुरनिवासार्थंभूदानकं० ॥ विप्रंवृत्वा ॥
सर्वेषामाश्रयाभूमिर्वराहेणसमुध्दृता ॥ अनंतसस्यफलदाअत:शांतिं० ॥ यस्यारोहंतिबीजा
निवर्षाकालेमहीतले ॥
भूमे:प्रदानात्सकलास्तस्यसंतुमनोरथा: ॥ इमांभूमिंवृक्षाध्युपेतांसस्योभ्दवांविष्णुदैवत्यांसं
कल्पहेतवेसंप्रददे ॥ पददानम् ॥
आसनोपानहौछत्रंमुद्रिकाचकमंडलु: ॥ यज्ञोपवीताज्येवस्त्रंभोजनंचान्नभाजनं ॥ दशकंपद
मेतत्स्यात्पदान्येवंत्रयोदश ॥
देवयानिवायथाशक्तितेनासौप्रीणितोभवेत् ॥ पित्रादे:मार्गकष्टपरिहारपूर्वकमुत्तमलोकावाप्त
येतृप्त्यर्थंचपददानंक० ॥
त्रिलोकीनाथदेवेशसर्वभूतकृपानिधे ॥ पददानेनतुष्यस्वप्रयच्छतस्यवांछितं ॥ संकल्पवा
क्यांतेइदंयथाशक्तिआसनादिदशोपकरणसमूहात्मकंपदंतृतीयांशदक्षिणायुतंतुभ्यंसंप्रददे ॥
शालग्रामदानम् ॥
सशैलवनभूचक्रदानसमफलावाप्तयेशाल० ॥ महाकोशनिवासेनशक्राध्यैरुपशोभित: ॥
शालग्रामप्रदादेनतस्यपापंव्यपोहतु ॥
रुद्राक्षामालादानम् ॥ अष्टाविंशतिसंख्याकैरुद्राक्षैर्योजितामया ॥ अर्पितातवहस्तेचगृहाण
द्विजसत्तम ॥
पुस्तकदानम् ॥ गोदानसमफलावाप्तिस्वर्गलोकनिवासविध्यादानादिकल्पोक्तफलावाप्त
ये० ॥ सर्वविध्याश्रयायज्ञा:कारणंलिखिताक्षरं ॥
पुस्तकस्यप्रदानेनतस्यप्रीणातुभारती ॥ संकल्पवाक्येनदध्यात् ॥ इतिभूम्यदिदानानि ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP