संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथद्वितीयादिदिनविधि:

और्ध्वदेहिकादिप्रकरणम् - अथद्वितीयादिदिनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत:पूर्वदिनकृत्यदेशेद्वितीयदिनविधिंकुर्यात् ॥ आचम्यप्राणानायम्यदेशकालौसंकी
र्त्यप्राचीनावीती अमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्याउत्तमलोकप्राप्यर्थं द्वितीयदिनवि
धिंकरिष्येइतिसंकल्प्यहवि:श्रपयित्वाप्रथमदिनवत्संकल्पपूर्वकंमृत्तिकास्नानत्रयंविधायप्रथम
दिनपरिगृहीततिलांजलिदानपक्षाश्रयणेन अश्मनिसंकल्पपूर्वकमंजलिदानंकृत्वा प्रत्यंजलि
स्नानात्वाअमुकगोत्रस्यामुकप्रेतस्यद्वितीयेहनिचक्षु:श्रोत्रनासावयवनिष्पत्त्यर्थमयंपिंड उप
तिष्ठतां ॥
तृतीयेहनिभुजवक्षोग्रीवामुखावयवनिष्पत्त्यर्थं० ३ चतुर्थेपार्ष्णिकुक्षिकुटिनाभिगुदलिंगायवा
नि० ८ नवमेमर्मवीर्यादिसर्वावयवनि० ९ दशमेक्षुत्पिपासानिवृत्त्यर्थशततारकायावरुणोदेव
ताइमंमेवरुणेत्यधिदेवं उत्तराभाद्रपदाया:अहिर्बुध्न्योदेवताअभियेमिथोवनुष:इतिप्रत्यधिदेव
तांआवाह्यतत्तन्मंत्रै:संपूज्यशांतिसूक्तानिजपेत् ॥
तध्यथा ॥ ॐ यत्तेयमं० ॐ परेयिवासं० ॐ इमारुद्रायस्थिर० ॐ अपन:शोशुच० ॐ विष्णोर्नुकं० ॐ आशु:शिशानो० श्रीसूक्तंजप्त्वायमादीनावाहयेत् ॥
यमंधर्मराजंमृत्युंअंतकंवैवस्वतंकालंसर्वभूतक्षयकरंऔदुबरंदध्नंनीलंपरमेष्ठिनंवृकोदरंचित्रंचित्रगुप्तंआवाह्यसंपूज्यतदुत्तरतोग्रहान्संपूज्यान्वादध्यात् ॥
प्रधानंप्रतिद्रव्यंअष्टोत्तरशतसंख्याकाभि:पलाशसमित्तिलचर्वाज्याहुतिभि: अधिदेवताप्रत्यधि
देवतेतद्दशांशेन यमादिनामभिस्तानष्टाष्टसंख्याकाभि:शेषेणास्विष्टकृतमित्यादिहोमशेषं
समाप्यबलिदानंकृत्वापूर्णाहुतिंजुहुयात् ॥
आचार्यायधेनुंऋत्विग्भ्योयथाशक्तिदक्षिणांदत्त्वातान्संतोष्यांतेशांतिपाठ:कार्य: ॥
ब्राह्मणभोजनसंकल्प्य:ततोमित्रै:सहभुंजीत ॥ इतित्रिपादशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP