संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथप्रसंगात्सकेशावपनविधि:

और्ध्वदेहिकादिप्रकरणम् - अथप्रसंगात्सकेशावपनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तीर्थादौगत्वास्त्रात्वादेशकालौसंकीर्त्यअमुकगोत्रायाअमुकनाम्न्याममभर्तृवियोगादेता
वंतंकालंकेशकंचुक्यादिधारणदिनद्विवारभोजनतांबूलभक्षणादिजनित्तप्रत्यवायपरिहारार्थं यतिचांद्रायणप्रतिनिधिभूतंप्रायश्चित्तंप्रत्यब्दमेककृच्छ्रतत्प्रत्याम्नायगोनिष्क्रयीभूतताम्रकार्षापणपरिमितमूल्यदानेनाहमाचरिष्ये तथासमस्तपापक्षयार्थंवापनादिकरिष्यइतिसंकल्प्य ॥ यानिकानिचपापानिब्रह्महत्यासमानिच ॥
केशानाश्रित्यतिष्ठंतितस्मात्केशान्वपाम्यहं ॥ इतिशिरसिदर्भंनिधायवापयित्वास्त्रायात् ॥
तत:त्वंराजासर्वतीर्थानामित्यादितीर्थंप्रार्थयित्वापुनर्देशकालौनिर्दिश्यममकायिकवाचिकमानसिकसांसर्गिकज्ञाताज्ञातस्पृष्टास्पृष्टभुक्ताभुक्तपीतापीतादिसकलदुरीतनिबर्हणार्थंअमुकस्मिंतीर्थेस्नानमहंकरिष्येतत:शरीरशुध्यर्थंदशविधस्नानानिसंकल्प्य भस्मादायईशानाय
नम:शिरसि तत्पुरुषायमुखे अघोरायहृदये वामदेवायनाभौ सध्योजातायपादयो: नम: शिवायेतिसर्वांगेविलिप्यस्नात्वाचम्य १ अग्रमग्रंचरंतीनामितिगोमयेन २ त्वंदेव्यदिवराहे
णरसाया:स्थानमिच्छता ॥
उध्दृतासिनमस्तुभ्यंपाप्मानंमेप्रणाशयेतिमृत्तिकया ३ यत्त्वगस्थीतिपंचगव्येन ४ गवामंगे
ष्वितिगोरजसा ५ तिलस्नानंसदानृणांपरमंपावनंस्मृतं ॥
अतस्तत्प्रकरोम्यध्यसर्वपापनुत्तये इतितिलकल्केन ६ ओषध्य:सर्ववृक्षेषुतृणगुल्मलतादि
का: ॥ तासांस्नानेनमेशुध्दि:सर्वौषध्य:पुनंतुमांइत्योषधीभि: ७ हिरण्यगर्भगर्भेतिहिरण्यो
दकेन ८ कुशमूलेस्थितोब्रह्माकुशमध्येजनार्दन: ॥
कुशाग्रेशंकरंविध्यात्तस्यस्नानेनशुध्यति इतिकुशोदकेन ९ गंगागंगेतिगंगोदकेन १० इति
दशस्नानानि ॥
प्रतिस्नानमाचमनंकार्यं ॥ ततस्तीर्थंप्रार्थयित्वास्नानांगतर्पणंकृत्वा एहिसूर्यसहस्त्रांशो० १ नम:कमलानाभाय० २ भागीरथिनमुस्तुभ्यं० ३ इत्यर्घ्यत्रयंदत्त्वास्नात्वापंचगव्यंप्राश्यतदह
रुपोषणंकृत्वापरेन्हिपुनर्गंगायांस्नात्वाश्राध्दंकुर्यात् तत्रपुरुरवार्द्रवौदेवौ भर्तृतत्पितृपितामह-स्वपितृपितामहप्रपितामहेतिपार्वणद्वयोद्देशेनामेनहेम्नावाशक्तौगांदत्त्वापिंडोद्वासनांतेइष्टै:सहभुंजीत ॥
तृतीयेहनिगंगायांस्नात्वाप्रार्थ्यशुक्लवस्त्रंपरिधायषोडशोपचारैर्गंगांसंपूज्यसांगतासिध्दयेब्राह्मणायवंशपात्रेवायनंपरिपूर्य ॥
सवस्त्रफलतांबूलंगोधूमैश्चप्रपूरितं ॥ वायनंद्विजवर्यायसहिरण्यंददाम्यहं ॥
इतिदत्त्वाब्राह्मणसमाधाराधनंकुर्यात् ॥ इतिप्रसंगात्सकेशावपनविधि: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP