संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथब्रह्मान्वाधानम्

और्ध्वदेहिकादिप्रकरणम् - अथब्रह्मान्वाधानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अग्नित्रयंसमिध्यसंस्कृतमाज्यंस्त्रुचिचतुर्वारंगृहीत्वाहवनीयेपूर्णाहुतिं ॐ स्वाहापर
मात्मानइदमितिकुर्यात् ॥
सायंसंध्याग्निहोमांतेउत्तरेणगार्हपत्यंव्दंव्दश:पात्राण्यासाध्याहवनीयदक्षिणत:कौपीनदंडाध्या
सादयेत् ॥
रात्रिजागरांतेप्रातर्होमादिकृत्वापौर्णमास्यांब्रह्मान्वाधानंचेत्पौर्णमासेष्टिंकृत्वादर्शेष्टिमपिपक्ष
होमापकर्षपूर्वकमपकृष्यतदैवकुर्यात् ॥
दर्शेचेद्दर्शेष्टिरेव ॥ अथपूर्णमास्यांदर्शेवादेशकालौस्मृत्वासंन्यासपूर्वांगभूतयाप्राजापत्ये
षठ्यावैश्वानर्येष्ठ्‍याचसमानतंत्रयायक्ष्ये इतिसंकल्प्यसमुच्चयेनिष्टिव्दयं ॥
अत्रवैश्वानरव्दादशकपाल:पुरोडाश:प्राजापत्यश्चरुर्वैष्णवोनवकपाल: पुरोडाश: अथवाकेवल
प्राजापत्येष्टि: ॥
अत्रप्रयोग:स्वस्वसूत्रानुसारेणोह्य: ॥ बौधायनसूत्रानुसारेणकिंचिदुच्यते ॥ पवनपावनपु
ण्याहवाचनादिपूर्वांगांतेकेवलवैश्वानरेष्टया:केवलप्राजापत्यावासंकल्प: व्रीहिमय:पुरोडाशोद्र
व्यं पंचप्रयाजा: अग्निर्वैश्वानर: प्रजापतिर्वादेवता पंचदशसामिधेन्य: व्रतग्रहणांतेध्वर्युरा
ज्यंसंस्कृत्यस्त्रुचिचतुर्गृहीतंगृहीत्वापृथिवीहोत्येत्यादिचतुर्होतृहोमंकूष्मांडहोमसारस्वतहोमौ
चकृत्वानिर्वापादि: वैश्वानरोव्दादशकपाल:पुरोडाश:प्राजापत्यश्चरु:वैश्वानरायप्रतिवेदयाम
इतिपुरोनुवाक्यावैश्वानर:पवमान:पवित्रैरितियाज्याप्राजापत्यायांप्रधानमुपांशुधर्मकं सुभू:
स्वयंभूरित्याध्यनुवाक्या: प्रजापतेनत्वदेवतानितियाज्या ॥
अथस्त्रुवेणाष्टावुपहोमावुभयत्र वैश्वानरोनऊतयआप्रयातुपरावत:अग्निरुक्थेनवाहसास्वाहा
वैश्वानरायेदमितित्याग:सर्वत्र ॥
ऋतावानंवैश्वानरमृतस्यज्योतिषस्पतिं अजस्त्रंघर्ममीमहेस्वाहा २ ॐ वैश्वानरस्यदंस० ३
ॐ पृष्टोदिविपृष्टोअग्नि:० ४ ॐ जातोयदग्ने० ५ ॐ त्वमग्नेशोचिषा० ६ ॐ अस्माकमग्ने० ७ ॐ वैश्वानरस्यसुमतौ० ८ अथैनमुपतिष्ठेतसहस्त्रशीर्षेतिसूक्तेन ॥
तत:स्विष्टकृदादिशेषंसमापयेत् ॥ सर्वोवैरुद्र:विश्वंभूतमितिव्दाभ्यामग्न्युत्सर्ग: ॥
आयुर्दाअग्नेइतिमंत्रेणदर्भस्तंबस्थयजमानभागात्किंचिदादायसहस्त्रशीर्षेत्यनुवाकेनप्राश्यओमितिब्रह्मओमितीदंसर्वमित्यनुवाकेनहुतशेषमाहवनीयेप्रक्षिपेत् ॥
एवंवैश्वानर्याध्यन्यतरामिष्टिंकृत्वौपासनाग्नौसर्वाधानेदक्षिणाग्नौप्राणादिहोमादिविरजाहोमांतंकार्यंअन्यत्प्राग्वत् ॥
आहवनीयेअरणीमुसलोलूखलातिरिक्तदारुपात्राणांदाह: ॥ ततआत्मन्याहवनीयाग्निसमारो
प:पूर्ववत् अरणीव्दयंगार्हपत्येप्रक्षिप्यतत्समारोपंकृत्वादक्षिणाग्नौमुसलोलूखलेहुत्वादक्षिणा
ग्नेरपिसमारोप: ततऔपासनाग्रे:समारोपइतिक्रम: ॥
अत्रविशेषोन्यत्रज्ञातव्य: ॥ इतिसाग्निकप्रयोग: ॥ स्नातकंप्रतिब्रह्मान्वाधानविरजाहोमा
दिरहितोवाप्रयोग्न्यभावात् ॥ इतिब्रह्मान्वाधानम् ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP