संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथातुरसंन्यासविधि: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथातुरसंन्यासविधि: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथातुरसंन्यासविधि: Translation - भाषांतर श्री: ॥ उक्तंजाबालोपनिषदि ॥ यध्यातुर:स्यान्मनसावाचावासंन्यसेदेषपंथाब्राह्मणायानुवित्तस्तेनेतिसंन्यासीब्रह्मविदित्येवमेवतभ्दवेदिति ॥ आतुरोपिव्दिविध:रोगादिनामुमूर्षू:जलादिव्याघ्रादिभयाक्रांतश्च ॥ तत्रद्वितीयस्यत्वाहदत्तात्रेय: ॥ उत्पन्नेसंकटेघोरेचोरव्याघ्रादिगोचरे ॥ भयभीतस्यसंन्यासमंगिरामुनिरब्रवीत् ॥ भारते ॥आतुराणांचसंन्यासेनविधिर्नैवचक्रिया ॥ प्रेषमात्रस्तुसंन्यास:संन्यासंतत्रकारयेत् ॥ तथाच ॥ संन्यस्तमितियोब्रूयादित्यादिवाक्यैश्चप्रेषमात्रोच्चारणमेवतस्यसंन्यास: ॥ सचेज्जीवतियथाधिकारंयथाविधिदंडादिकंगृहीत्वायतिधर्मयुक्तोभवेत् ॥ रोगाध्यातुरस्यपुरुषसूक्तेहोमविरजाहोमोपवासजागरणाध्यंगकलापस्यलोप: ॥ अन्यत्सर्वंभवत्येव ॥ तस्यायंप्रयोग: ॥ कात्यायन: ॥ कृच्छ्रांस्तुचतुर:कृत्वावापनार्थमनाश्रमी ॥ आश्रमीचेत्तप्तकृच्छ्रंतेनासौयोग्यतांव्रजेत् ॥ मिताक्षरायांचतुर्विंशतिमतेप्राजापत्येएकंसातंपनेद्वयंअतिकृच्छ्रेयंअतिकृच्छ्रेद्वयंगोदानमिति ॥ षट् त्रिंशन्मतेपिपराककृच्छ्रातिकृच्छ्रेचतिस्त्रोगा: ॥ पराककृच्छ्रतप्तकृच्छ्रातिकृच्छ्रस्थानेकृच्छ्रत्रयंचरेत् ॥सांतपनस्यगोद्वयंअशक्तौव्रतमाचरेत् ॥ तप्तकृच्छ्रेसार्धकायद्वयंस्मृतमितिस्मृत्यर्थसारे ॥ कायंनामप्राजापत्यमेव ॥ आतुरस्ततोद्रव्यवस्त्रगृहदेवपुस्तकादियथायथंविभज्य आचार्यार्थंसंन्यासविधिपर्याप्तंस्थापयित्वानिर्ममोभवेत् ॥ शोकाहंकारद्विव्दंव्दंवासनांत्यजेत् ॥ ततोनित्यक्रियादिसंपाध्यनदीतीरंगत्वोपविश्यपुत्रमुखंदृष्ट्वाजपेत् ॥ अशक्तश्चेच्छुचौदेशेसर्वंकुर्यात् ॥ त्वंब्रह्मत्वंयज्ञस्त्वंलोकइति ॥ सपुत्रस्तंप्रत्याह ॥ अहंब्रह्माहंयज्ञोहंलोकइति ॥ ततोबंधून्प्रत्याह ॥ नमेकश्चिन्नाहंकस्यचित् ॥ तत:स्नात्वादेशकालौसंकीर्त्यविष्णुंध्यात्वाअमुकगोत्रोत्पन्नस्यामुकशर्मणाममाशेषदु:खनिवृत्त्यतिशयानंदावाप्तिव्दारापरमपुरुषार्थप्राप्तयेपरमहंससंन्यासग्रहणंआतुरोक्तविधिनाकरिष्येइतिसंकल्प्यगृहस्थश्चेत्संकल्पापूर्वमेवप्रातरौपासनहोमंविधायआत्मसमारोपणंकुर्यात् ॥विच्छिन्नाग्निश्चेत्तव्दिच्छिन्नकालातिक्रमप्रायश्चित्तंसध्य:पुन:संधानंचकृत्वा ॥ ॐ यातेअग्नेयज्ञियातनूस्तयेह्यारोहात्मानं ॥ अच्छावसूनिकृण्वन्नस्मेनर्यापुरुणि ॥ यज्ञोभूत्वायज्ञमासीदस्वांयोनि ॥ जातवेदोभुवआजायमान:सक्षयएहि ॥ इतिमंत्रेणआत्मसमारोपणंकृत्वासंन्याससंकल्पंकुर्यात् ॥तत:शक्तौसत्यांकक्षोपस्थवर्जंकांश्चिच्छिखार्थंपंचसप्तकेशान् स्थापयित्वासशिखंवपनंकुर्यात् ॥तत:स्वशक्त्यनुसारेणभस्मगोमयमृत्तिकास्नानानिकृत्वा वाससीपरिधायव्दिराचम्यधर्मान्धारयमाण:पात्रेजलमुध्दृत्यतदेकदेशंहस्तेगृहीत्वाप्सुजुहुयात् ॥एषवाअग्नेर्योनि:प्राण:प्राणंगच्छस्वाहाप्राणायेदं० ॥ स्वांयोनिंगच्छस्वाहाप्राणायेदं० ॥आपोवैसर्वादेवता:सर्वाभ्योदेवताभ्योजुहोमिस्वाहासर्वाभ्योदेवताभ्यइदं० ॥ इत्युध्दृतंजलंकिंचित्किंचिग्दृहीत्वाआहुतित्रयमप्सुहुत्वापात्रहुतशेषंतोयंआशु:शिशानइत्युवाकेनाभिमंत्र्यकिंचिदुदकंगृहीत्वा पुत्रेषणावित्तेषणालोकेषणामयात्यक्ता:स्वाहा इतिमंत्रेणपीत्वापुन:किंचिग्दृहीत्वाअभयंसर्वभूतेभ्योमत्त:स्वाहा इतिव्दितीयंपिबेत् ॥ ततोनि:शेषंगृहीत्वासंन्यस्तंमयास्वाहा इतितृतीयंपिबेत् ॥ तत:शक्तौसत्यांनाभिदग्धेजलेस्थित्वाअशक्तश्चेज्जलसमीपेस्थित्वासावित्रीप्रवेशंकुर्यात् ॥ ॐ भू:सावित्रींप्रविशामि ॥ तत्सवितुर्वरेण्यं ॥ ॐ भुव:सावित्रींप्रविशामि ॥ भर्गोदेवस्यधीमहि ॥ ॐ स्व:सावित्रींप्रविशामि ॥ धियोयोन:प्रचोदयात् ॥ इतिपच्छ: ॥ ॐ भुर्भूव:सावित्रींप्रविशामि ॥ ॐ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहि ॥ ॐ स्व:सावित्रींप्रविशामि ॥ धियोयोन:प्रचोदयात् ॥ इत्यर्धर्चश: ॥ ॐ भूर्भुव:स्व:सावित्रींप्रविशामि ॥ ॐ तत्सवितुर्वरेण्यंभर्गोदेवस्यधीमहि ॥ धियोयोन:प्रचोदयात् ॥ इतिसर्वा ॥ ॐ भू:प्रणवंप्रविशामि ॥ ॐ भुव:प्रणवं प्र० ॥ ॐ स्व:प्रणवंप्र० ॥ ॐ भूर्भुव:स्व:प्रणवंप्र० इतिप्रणवप्रवेश: ॥ ॐ ततत्समंदीधावति० ॥ इतिसूक्तंजपित्वा ॥ नम:सवित्रेजगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे ॥ त्रयीमयायत्रिगुणात्मधारिणेविरिंचिनारायणशंकरात्मनेइतिआदित्यमुपस्थायपूर्वस्थापितशिखाकेशान् निकृत्ययज्ञोपवीतमंजलौगृहीत्वा भू:स्वाहेत्यप्सुहुत्वाप्राच्यांदिशिप्रतिदिशंऊर्ध्वंअधस्ताच्चजलांजलीनुत्सिच्यपुत्रेषणायाश्चवित्तेषणायाश्चलोकेषणायाश्चव्युत्थितोहमित्युक्त्वाऊर्ध्वबाहु:सूर्याभिमुखस्तिष्ठेत् ॥ देवान्साक्षिण:कृत्वाहरिंस्मरन् जलाब्दहि:स्थित्वा ॐ भू:संन्यस्तंमया ॐ भुव:संन्यस्तंमया ॥ ॐ स्व:संन्यस्तंमया ॐ भूर्भुव:स्व:संन्यस्तंमयाइतित्रिरुषांशुत्रिर्मध्यमस्वरेणत्रिरुच्चैर्वदेत् ॥ यव्दा ॐ भूर्भुव:स्व:संन्यस्तंमयेतित्रिरुपांशुचिर्मध्यमस्वरेणत्रिरुच्चैर्ब्रूयात् ॥अर्थभावनैकाग्रचित्त:प्रेषोच्चारणंकुर्यात् ॥ ततोजलंप्रविश्यस्नात्वाचम्य ॥ अभयंसर्वभूतेभ्योनम:स्वाह्तित्रीनंजलीन् जलेक्षिप्त्वाइदंपठेत् ॥यत्किंचिब्दंधनंकर्मकृतमज्ञानतोमया ॥ प्रमादालस्यदोषाव्दातत्सर्वंसंत्यजाम्यह्म ॥ एवंसंपूज्यभूतेभ्योदध्यादभयदक्षिणां ॥ पभ्ध्यांकराभ्यांविहरन्नाहंवाक्कायमानसै: ॥करिष्येप्राणिनांहिंसांप्राणिन:संतुनिर्भया: ॥ यम: दत्त्वातोयांजलिंविप्रोभक्त्यासंप्रार्थयेध्दरिं ॥ सर्वदेवात्मकेतोयेतोयाहुतिमहंमरे ॥ दत्त्वासर्वेषणांत्यक्त्वायुष्मच्छरणमागत: ॥ त्राहिमांसर्वलोकेशगतिरन्यानविध्यते ॥संन्यस्तंमेजगन्नाथपाहिमांमधुसूदन ॥ त्राहिमांसर्वदेवेशवासुदेवसनातन ॥संन्यस्तंमेजगध्योनेपुंडरीकाक्षमोक्षद ॥ अहंसर्वाभयंदत्त्वाभूतानांपरमेश्वर ॥युष्मच्छरणमापन्नस्त्राहिमांपुरुषोत्तम ॥ इतिपूर्वधृतवस्त्रंविसृज्यनग्नोभूत्वासप्तपदानिगच्छेत् ॥ ततोन्येनप्रार्थित:काषायवस्त्रंकौपिनंप्रणवेनस्वीकृत्य ॥ ॐ युवासुवासा:परिवीतआगात्स उश्रेयान्भवतिजायमान: ॥ तंधीरास:कवयउन्नयंतिस्वाध्यो३मनसादेवयंत: ॥ इतिमंत्रेणपरिदध्यात् ॥ इंद्रस्यवज्रोसिवार्त्रघ्न:शर्ममेभव ॥ यत्पापंतन्निवारय ॥ सखामांगोपायेतिदंडं ॥ प्रणवेनसावित्र्याचकमंडलु ॥ एवमासनशिक्यादिकमपिमंत्रैर्गृहीत्वा ॥ महावाक्यब्रह्मोपदेशार्थमुपहारसहितंयथाविधिब्रह्मिष्ठंगुरुमुपसृत्यतस्मैसर्वस्वंदत्त्वोपतिष्ठेत् ॥ योब्रह्माणंविदधातिपूर्वंयोवैवेदांश्चप्रहिणोतितस्मै ॥ तंहदेवमात्मबुध्दिप्रकाशंमुमुक्षुर्वैशरणमहंप्रपध्ये ॥ ततोदक्षिणंजान्वाच्यपादावुपसंगृह्याधीहिभगवोब्रह्मेतिवदेत् ॥ ततोगगुरुस्वात्मानंब्रह्मरुपंध्यात्वात्वासजलंशंखंव्दादशप्रणवैरभिमंत्र्यतेनशिष्यमभिषिच्यशंनोमित्रइतिशांतिंपठेत् ॥ततस्तच्छिरसिहस्तंदत्त्वापुरुषसूक्तंजप्त्वा ॥ ममव्रतेहृदयंतेदधामिमचित्तमनुचित्तंतेअस्तु ॥ ममवाचमेकव्रतोजुषस्वबृहस्पतिष्ट्वानियुनक्तुमह्यं ॥ इतिजप्त्वोदड्मुख:प्रणवार्थमनुसंदधन् दक्षिणकर्णेप्रणवमुपदिश्यतदर्थंपंचीकरनात्प्रबोध्यप्रज्ञानंब्रह्म अयमात्माब्रह्म तत्त्वमसि अहंब्रह्मास्मि इत्याध्युपदिशेत् ॥तदर्थंचवदेत् ॥ ततोनामापिदध्यात् ॥ ततोजीवतिचेध्योगपट्टंचगृहीत्वावेदांतवणनंयोगाभ्यासंचकुर्यात् ॥ यावज्जीवंयतिधर्मेणतिष्ठेत् ॥ आहिताग्निश्चेत्प्राजापत्यानिकृत्वाउत्सर्गेष्ठयाग्निनुत्सृज्यात्मसमारोपंकृत्वासंन्यसेत् ॥ इत्यातुरसंन्यासविधि: ॥ N/A References : N/A Last Updated : August 25, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP