संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथजीवच्छ्राध्दविधि:

और्ध्वदेहिकादिप्रकरणम् - अथजीवच्छ्राध्दविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रशौनक: ॥ जीवच्छ्राध्दंप्रवक्ष्यामिशौनकोहंद्विजन्मनां ॥ कृष्णपक्षेत्रयोदश्यां
स्त्रात्वोपोष्यस माहित: ॥
तस्मिन्नहनिसंभारानुपकल्प्ययथाक्रमं ॥ विड्वस्त्रंहेमसूचींवैअंकुशंतांवतंतथा ॥
पाशंकेशांश्चपालाशंवृंतंकृष्णाजिनंतथा ॥ औदुंबरसमिब्दर्हिरासनंकलशान्नवान् ॥
ग्रीवामात्रजलेतीर्थेस्त्रात्वामध्यंदिनेजपेत् ॥ गायत्रीमित्यर्थ: ॥
उत्थायब्राह्मणान्भोज्यकृत्वापुण्याहसुव्रतं ॥ वस्त्रांगुलीयकादीनिदत्त्वाचार्यायभक्तित: ॥
सघृतंपायसान्नंचसभुक्त्वादक्षिणामुख: ॥ सायंकालेग्निमाधायपुरस्तात्तत्रसंस्कृतं ॥
घृताप्लुतंचरुंहुत्वामंत्रै:षड्रभिर्यथाक्रमं ॥ द्वाभ्यांचत्वारिश्रृंगेतितत्सवितुऋचैकया ॥
अग्नेनयेतिद्वाभ्यांचजातवेदसइत्यृचा ॥ हुत्वापुरुषसूक्तेनप्रत्यृचंषोडशाहुती: ॥
अतोदेवादिषड्भिश्चसावित्र्याष्टशतानिच ॥ अष्टाविंशतिसंख्यांहोमशेषंसमापयेत् ॥
गत्वाचतुष्पथंसूचींरज्जुकाध्यंकुशांस्तथा ॥ प्रीयतांकिंकरायेतिदध्यात्कृष्णायवैमुने ॥
कृष्णायकिंकरायैतद्दत्तंनमम अनेनसप्रीयतामितियमकिंकरोद्देशेनत्याग: ॥
निधायकलशान्प्रीत:सोदकांस्तंतुवेष्टितान् ॥ पुरुषाकृतिवत्कुर्याच्छिरसित्रीन्मुखेतथा ॥
ग्रीवैकंचतुरोवक्षोबाह्वोर्व्दौव्दौतथैवच ॥ एकंलिंगेपादयोश्चपंचपंचेतिकथ्यते ॥
एकमेकविंशतिकलशा: ॥ यन्मेप्रीतोसिभगवन्नित्याहृत्यसुसंस्कृतान् ॥ पंचगव्येनप्रक्षा
ल्यएतोन्विंद्रादिभिस्तथा ॥
पालाशवृंतानीविशेष: ॥ कृष्णाजिनेतुपालाशवृंतै:कृत्वानराकृतिं ॥ चत्वारिंशच्छिरोग्रीवेदश
त्रिंशदुरस्यपि ॥
बाह्वोश्चैवशतंदध्यात्पंचपंचतथांगुलौ ॥ जठरेविंशतिंदध्याज्जंघयोर्विंशतिद्वयं ॥
ऊर्वोश्चषष्टिर्दध्याव्दैमेढ्रेचत्वारिविन्यसेत् ॥ त्रीणित्रीणिवृषणयो:पादयोस्त्रिंशतंतथा ॥
विन्यसेच्छेदवृंतानिदशपादांगुलीषुच ॥ शतानित्रीणिषष्टिश्चपालाशंवृंतमाहेरत् ॥
अलाभेयज्ञवृक्षाणांवृंतान्यपिसमाहरेत् ॥ निवेश्यकलशेप्राणान्वृंतेदेहंनिवेश्यच ॥
कलशेइत्येकवचनमविवक्षितं ॥ कलशेषुप्राणनिवेशनंचिंतयित्वेत्यर्थ: ॥
मध्येशयित्वास्वंदेहंविवस्वत्युदितेसति ॥ सुस्त्राप्यसकलंऋग्भि:स्वंदेहंस्वयमेवतु ॥
सम्यक्पुरुषसूक्तेनश्रीसूक्तेनसमाप्यच ॥ अन्नेनब्राह्मणान्भोज्ययमकिंकरतृप्तये ॥
दाहश्चतकर्तव्य:पितृमेधविधानत: ॥
होतृप्रीत्याचवरयेब्दालवृध्दातुरान्जनान् ॥ नध्यादितीरेकर्तव्यंदशाहंवादिनेगृहे ॥
दिनेचेग्दृहएवेत्यर्थ: ॥
एकादश्यांतुकर्तव्यंश्राध्दंसुब्राह्मणायच ॥ सर्वमेकान्हिवाकुर्यात्सपिंडीकरणंविना ॥
एकादश्यांचनोकुर्यात्त्पिंडान्मंत्रवत्तथा ॥ मंत्रकर्माणिजीवेनश्राध्दंकुर्याच्चसत्स्वपि ॥
यथाविधिप्रकर्तव्यंपिंडीकरणादृते ॥ अन्येनस्त्रीचशूद्रश्चवृंतैर्दग्ध्वास्वकांतनुं ॥
तदन्हयेवक्रिया:सर्वा:कुर्याच्छक्त्यनुसारत: ॥ देशांतरमृतस्यैवंचंडालाध्यैर्हतस्यच ॥
यध्येकादशेन्हिकुर्यात्तद्ब्राह्मणस्यैव ॥ चकारादन्यवर्णयोश्चैकादशेन्हिकुर्याद्दिनांतरेवास
पिंडीकरणवर्जं ॥
स्त्रीशूद्रौप्रत्याहएकादश्यामिति ॥ स्त्रियाशूद्रेणचैकादश्यांपिंडोपलक्षितमौर्ध्वदेहिकंनकार्यं ॥
सर्वकर्माणितूष्णींकार्याणि ॥ सत्सुपिंडादिष्वधिकारिषुजीवच्छ्राध्दंनकार्यं असत्स्वाहयथेति ॥ अनेनकृतप्रायश्चित्तइत्यर्थ: ॥ देशांतरमृतादेरस्न्थामलाभेपर्णवृंतदाहमात्रमितिदृश्यते ॥
इतिशौनकोक्तोजीवच्छ्राध्दविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP