संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथदशदानानि

और्ध्वदेहिकादिप्रकरणम् - अथदशदानानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणान्याम्यदेशकालौनिर्दिश्य अमुकगोत्रस्यपित्रादे:परलोकोपकारकाणिपूर्व
संकल्पितानिदशदानानिकरिष्ये ॥
गोभूतिलहिरण्याज्यवासोधान्यगुडानिच ॥ रौप्यंलवनमित्यादिदशदानान्यनुक्रमात् ॥
विप्रंसंपूज्य ॥ गोप्रदानं ॥ यज्ञसाधनभूतायाविश्वस्याघौघनाशिनी ॥
विश्वरुपधरोदेव:प्रीयतामनयागवा ॥ भूमिदानं ॥ सर्वेषामाश्रयाभूमिर्वराहेणसमुध्दृता ॥
अनंतसस्यफलदाअत:शांतिंप्रयच्छमे ॥ तिलदानं ॥
महर्षेगोत्रंसंभूता:काश्यपस्यतिला:स्मृता: ॥ तस्मादेषांप्रदानेनपितृपापंव्यपोहतु ॥ हिरण्य
दानं ॥
हिरण्यगर्भगर्भस्थंहेमबीजंविभावसो: ॥ अनंतपुण्यफलदमत:शांतिंप्रयच्छमे ॥ आज्यदानं ॥ कामधेनो:समुभ्दूतंसर्वक्रतुषुसंस्थितं ॥
देवानामाज्यमाहारस्तत:शांतिंप्रयच्छमे ॥ वस्त्रदानं ॥ शीतवातोष्णसंत्राणंलज्जायारक्षणंप
रं ॥ देहालंकरणंवस्त्रमत:शांतिंप्रयच्छमे ॥ धान्यदानं ॥
सर्वदेवमयंधान्यंसर्वोत्पत्तिकरंमहत् ॥ प्राणिनांजीवनोपायस्तत:शांतिंप्रयच्छमे ॥
गुडदानं ॥ गुडमिक्षुरसोभ्दूतंमंत्राणांप्रणवोयथा ॥ दानेनानेनचैतस्यपरालक्ष्मी:स्थिरागृहे ॥ रौप्यदानं ॥ प्रीतिर्यत:पितृणांचविष्णुशंकरयो:सदा ॥
शिवनेत्रोभ्दवंरुप्यमत:शांतिप्रयच्छमे ॥ लवणदानं ॥ यस्मादन्नरसा:सर्वेनोत्कृष्टालवणं
विना ॥
शंभो:प्रीतिकरंयस्मादत:शांतिंप्रयच्छमे ॥ अनेनदशदानाख्येकर्मणाप्रेतोध्दर्तामहाविष्णु:प्री
यतां ॥
इतिदशदानानि ॥ (सर्वंत्रपुत्रकर्तृकेसंकल्पवाक्येदानमंत्रे‘मे-मम’ इत्यादिस्थले पितु:-तस्य’
इत्याध्यूह:कार्य: ) ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP