संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथव्दादशाहेनारायणबलि:

और्ध्वदेहिकादिप्रकरणम् - अथव्दादशाहेनारायणबलि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशादिस्मृत्वासिध्दिंगतस्यभिक्षो:संभावितसर्वपापक्षयपूर्वकंविष्णुलोकावाप्तिव्दारा
श्रीनारायणप्रीत्यर्थंनारायणबलिंकरिष्ये इतिसंकल्प्यत्रयोदशयतीन्विप्रान्वानिमंत्र्य शुक्लप
क्षेकेशवरुपिगुर्वर्थेत्वयाक्षण:कर्तव्यइत्येवंदामोदरांतकेशवादिव्दादशनामभि:क्षणोदेय: ।
कृष्णेतुसंकर्षणादिव्दादशनामभि: । त्रयोदशंविप्रंविष्ण्वर्थंत्वयाक्षण:कर्तव्यइतिनिमंत्र्यपादा
न्प्रक्षाल्यप्राड्मुखानुपवेशयेत् । विप्राग्रेस्थंडिलेग्निप्रतिष्ठापनादि । अन्वाधानेचक्षुषीआ
ज्येनेत्यंतेग्निंवायुंसूर्यंप्रजापतिंचव्यस्तसमस्तव्याहृतिभिरेकैकपायसाहुत्या विष्णुमतोदेवा
इतिषड्भि:प्रत्यृचमेकैकपायसाहुत्या नारायणंपुरुषसूक्तेनप्रत्यृचमेकैकपायसहुत्या शुक्लेके
शवादिव्दादशदेवता: कृष्णेसंकर्षणादिव्दादशदेवता: एकैकपायसाहुत्याशेषेणेत्यादिव्दिपंचा
शदधिकशतमुष्टीन्निरुप्यबलिपर्याप्तंतंडुलानोप्याष्टत्रिंशदाहुतिपर्याप्तंपुरुषाहारमितविष्णुनैवेध्यपर्याप्तंचक्षीरेश्रपयित्वाज्यभागांतेग्निपूर्वत: शालग्रामेविष्णुसूक्तेनाष्टाक्षरेणचषोड
शोपचारै:संपूज्य स्त्रुचाहस्तेनवान्वाधानानुसारेणहोमत्यागौविदध्यात् ।
एवंशुक्लकृष्णभेदेनकेशवादिव्दादशांता:संकर्षणाध्यंतावाष्टत्रिंशदाहुतीर्हुत्वास्विष्टकृदादिशेषं
समाप्य पुन:शालग्रामंसंपूज्यविष्णुगायत्र्याविष्णवेर्घ्यंदत्त्वाहुतशेषपायसेनविष्णवेबलिंदत्त्वा
निमंत्रितत्रयोदशविप्रान्केशवादिक्रमेणकेशवरुपिगुरवेनम इदमासनमित्यादिनासनगंधपुष्प
धूपदीपाच्छादनानिदत्त्वा त्रयोदशेविप्रेपुरुषसूक्तेनप्रत्यृचांतेविष्णवेनम इत्येवमादिनाविष्णुं
दीपांतोपचारै:पूजयेत् ।
चतुरस्त्रमंडलेषुत्रयोदशभोजनपात्राण्यासाध्योपस्तीर्यान्नंपरिषिच्य पृथिवीतेपात्रमित्यादिना
केशवादिव्दादशोद्देशेनविष्णूद्देशेनचान्नंत्यक्त्वा ॐ अतोदेवा० ॐ तद्ब्रह्म ॐ तद्वायुर्ब्रह्मार्पणमित्याध्यापोशनादिप्राणाहुत्यंतेनारायणाध्युपनिषभ्दागान्पठेत् ।
तृप्तिप्रश्नांतेआचांतेषुविप्रेषुप्रागग्रान्दर्भानास्तीर्याष्टाक्षरेणाक्षतोदकंचत्त्वा केशवरुपिणेगुरवे
ऽयंपिंड:स्वाहानममइत्येवंव्दादशपिंडान्दध्यात् । कृष्णेतुसंकर्षणादिनामभिरितिसर्वत्र ।
पिंडेषुविष्णुंसंपूज्यपुरुषसूक्तेनस्तुत्वाविसर्जयेत् । विप्रेभ्यस्तांबूलदक्षिणादिदत्त्वात्रयोदशाय
विप्रायनाभ्याआसीदित्याधृक् त्रयेणफंलतांबूलदक्षिणांदत्त्वानमस्कृत्यतांशालग्रामममूर्तिमा
चार्यायदध्यात् । इतिनारायणबलि: ।
अत्रव्दादशाहेत्रयोदशाहेवायथाचारमाराधनमपेक्षितं तत्प्रयोग:प्रथमेप्रकरणेश्राध्दकांडेगतस्त
तोवगंतव्य: ॥

N/A

References : N/A
Last Updated : August 25, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP