संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथविरजाहोम: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथविरजाहोम: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथविरजाहोम: Translation - भाषांतर श्री: ॥ प्राणापानव्यानोदानसमानामेशुध्द्यंतांज्योतिरहंविरजाविपाप्माभूयासस्वाहाप्राणादिभ्यइदं० वाड्मनश्चक्षु:श्रोत्रजिह्वाघ्राणरेतोबुध्द्याकूतिसंकल्पामेशुध्द्यंतांज्योति० वागादिभ्यइदं० त्वक् चर्ममांसरुधिरमेदोमज्जास्नायवोस्थीनिमेशुध्द्यंतां० त्वगादिभ्यइदं० शिर:पाणिपादपार्श्वपृष्ठोरुदरजंघाशिश्नोपस्थपायवोमेशुध्द्यं० शिरआदिभ्य० उत्तिष्ठपुरुषहरितपिंगललोहिताक्षदेहिदेहिददापयितामेशुध्दयं० पुरुषादिभ्य० पृथिव्यापस्तेजोवायुराकाशामेशुध्दयं० पृथिव्यादिभ्य० शब्दस्पर्शरुपरसगंधामेशुध्यं० शब्दादिभ्य० मनोवाक्कायकर्माणिमेशुध्दयंतां० मनआदिकर्मभ्य० अव्यक्तभावैरहंकारैर्ज्योतिरहं० अव्यक्तादिभ्य० आत्मामेशुध्द्यतांज्यो० आत्मन० अंतरात्मामे० अंतरात्मन० परमात्मामे० परमात्मन० क्षुधेस्वाहा क्षुधइदं० क्षुत्पिपासायस्वाहा क्षुत्पिपासायेदं० विविध्यैस्वाहा विविध्यायाइदं० ऋग्विधानाय० कर्षोत्कायस्वा० क्षुत्पिपासामलांज्येष्ठामलक्ष्मींनाशयाम्यहं अभूतिमसमृध्दिंचसर्वांनिर्णुदमेपाप्मानंस्वाहाअग्नयइदं० अन्नमयप्राणमयमनोमयबुध्दिमयआनंदमयआत्मामेशुध्द्यंतांअन्नमयादिभ्य० एवंसमिच्चर्वाज्यै:प्रतिद्रव्यंचत्वारिंशदाहुतिर्हुत्वा यदिष्टंयच्चपूर्तंयच्चापध्यनापदि प्रजापतौतन्मनसिजुहोमिविमुक्तोहंदेवकिल्बिषात्स्वाहेत्याज्यंहुत्वाप्रजापतयइदमितित्यजेत् ॥ तत:पुरुष:सूक्तंअग्निमीळेइत्यादिचतुर्वेदादींश्चजपित्वास्विष्टकृदादिहोमशेषंसमाप्य ब्रह्मचार्यादिभ्योगोहिरण्यवस्त्रादिदत्त्वासंमासिंचंतुमरुतइतिमंत्रेणगृह्याग्निमुपस्थायतत्रदारुपात्राणिदहेत्तैजसानिगुरवेदध्यात् ॥ ततआत्मन्यग्निसमारोपंअयंतेयोनिरित्यृचायाते अग्नेयज्ञियातनूस्तयेह्यारोहात्मात्मानमित्यादियजुषाचत्रिरुक्तेनाग्नेर्ज्वालांप्राश्नन्कुर्यात् ॥ कृष्णाजिनमादायगृहान्निष्क्रम्य ॥ सर्वेभवंतुवेदाढया:सर्वेभवंतुसोमपा: ॥ सर्वेपुत्रमुखंदृष्टवासर्वेभवंतुभिक्षुकाइतिपुत्रादिभ्यआशिषंदत्वा नमेकश्चिन्नाहंकस्यचित् इतिपुत्रादीनुक्त्वाविसृजेत् ॥ जलाशयंगत्वांजलिनाजलमादायाशु:शिशानइतिसूकेनाभिमंत्र्यसर्वाभ्योदेवताभ्य:स्वाहेतित्यजेत् ॥ तिथ्यादिस्मृत्वाऽपरोक्षब्रह्माऽपरोक्षब्रह्मावाप्तयेसंन्यासंकरोमीतिसंकल्प्यजलांजलिंगृहीत्वा ॐ एषहवाअग्नि:सूर्य:प्राणंगच्छस्वाहा ॐ स्वांयोनिंगच्छस्वाहा ॐ आपोवैगच्छस्वाहेतिमंत्रत्रयेणजलेष्वंजलित्रयंदध्यात् ॥पुत्रेषणावित्तेषणालोकेषणासर्वेषणामयापरित्यक्ताअभयंसर्वभूतेभ्योमत्त:स्वाहाइत्यंजलिंजलेक्षिपेत् ॥ पुनरेवमभयंदत्त्वावदेत् ॥ यत्किंचिब्दंधनंकर्मकृतमज्ञानतोमया ॥ प्रमादालस्यदोषोत्थंतत्सर्वंसंत्यजाम्यहं ॥ त्यक्तसर्वोविशुध्दात्मागस्त्र्नेहशुभाशुभ: ॥ एषत्यजाम्यहंसर्वंकामभोगसुखादिकं ॥रोषंतोषंविवादंचगंधमाल्यानुलेपनं ॥ भूषणंनर्तनंगेयंदानमादानमेवच ॥ नमस्कारंजपंहोमंयाश्चनित्या:क्रियामम ॥ नित्यंनैमित्तिकंकाम्यंवर्णधर्माश्रमाश्चये ॥ सर्वमेवपरित्यज्यददाम्यभयदक्षिणां ॥ पभ्ध्यांद्वराभ्यांविहरन्नाहंवाक्कायमानसै: ॥ करिष्येप्राणिनांपीडांप्राणिन:संतुनिर्भया: ॥ सूर्यादिदेवान्विप्रांश्चसाक्षित्वेनध्यात्वानाभिमात्रेजलेप्राड्मुख:सावित्रीप्रवेशंपूर्ववत्कृत्वातरत्समंदीतिसूक्तंपठित्वा पुत्रेषणायावित्तेषणायालोकेषणायाश्चव्युत्थितोहंभिक्षाचर्यंचरामीतिजलेजलंजुहुयात् ॥ प्रेषोच्चार: ॥ ॐ भू:संन्यस्तंमया ॐ भुव:संन्यस्तंमया ॐ स्व:संन्यस्तंमया ॐ भूर्भुव:स्व:संन्यस्तंमयेतित्रिर्मंदध्योच्चस्वरेणोक्त्वा अभयंसर्वभूतेभ्योमत्त:स्वाहेतिजलंजलेक्षिपेत्॥ शिखामुत्पाठययज्ञोपवीतमुध्दृत्यकरेगृहीत्वा ॥ आपोवैसर्वादेवता:सर्वाभ्योदेवताभ्योजुहोमिस्वाहा ॥ ॐ भू:स्वाहेतिजलेजलै:सहहुत्वाप्रार्थयेत् ॥ त्राहिमांसर्वलोकेशवासुदेवसनातन ॥ संन्यस्तंमेजगध्योनेपुंडरीकाक्षमोक्षद ॥ युष्मच्छरणमापन्नंत्राहिमांपुरुषोत्तम ॥ ततोदिगंबर:पंचपदान्युदड्मुखोगच्छेत् ॥ विविदिषुश्चेत्तस्मैआचार्योनत्वाकाषायकौपीनाच्छादनेदत्त्वादंडंदध्यात् ॥ सचकौपीनंवासश्चपरिधाय ॐ इंद्रस्यवज्रोसिसखेमांगोपायेतिदंडंगृह्णीयात् ॥ वार्त्रघ्न:शर्ममेभवयत्पापंतन्निवारय प्रणवेनगायत्र्यावाकमंडलुं इदंविष्णुरित्यासनं ॥ तत:समित्पाणिर्गुरुंनत्वागरुडासनोपविष्टोगुरुंवदेत् ॥ त्रायस्वभोजगन्नाथगुरोसंसारवन्हिना ॥दग्धंमांकालदष्टंचत्वामहंशरणंगत: ॥ यौब्रह्माणंविदधातिपूर्वंयोवैवेदांश्चप्रहिणोतितस्मै ॥तंहदेवमात्मबुध्दिप्रकाशंमुमुक्षुर्वैशरणमहंप्रपध्ये ॥ इतिगुरुमुपस्थायदक्षिणंजान्वाच्यपादावुपसंगृह्य अधीहिभगवोब्रह्मेतिवदेत् ॥ गुरुरात्मानंब्रह्मरुपंध्यात्वाजलपूर्णंशंखंद्वादशप्रणवैरभिमंत्र्यतेनशिष्यमभिषिच्यशंनोमित्रइतिशांतिपठित्वा तच्छिरसिहस्तंदत्त्वापुरुषसुक्तंजपित्वाशिष्यहृदयेहस्तंकृत्वा ममव्रतेहृदयंतेदधामीत्यादिमंत्रंजप्त्वादक्षिणकर्णेप्रणवमुपदिश्यतदर्थंचपंचीकरणाध्यवबोध्य प्रज्ञानंब्रह्मअयमात्माब्रह्मतत्वमसिअहंब्रह्मास्मीतिऋग्वेदादिमहावाक्येष्वन्यतमंशिष्यशाखानुसारेणोपदिश्यतदर्थंबोधयेत् ॥ ततस्तीर्थाश्रमादिसंप्रदायानुसारेणनामदध्यात् ॥ तत:पर्यंकशौचंकारयित्वायोगपट्टंदध्यात् ॥ N/A References : N/A Last Updated : August 25, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP