संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथत्रयोदशदिनविधि: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथत्रयोदशदिनविधि: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथत्रयोदशदिनविधि: Translation - भाषांतर श्री: ॥ तत:कर्ताअभ्यंगस्नानंकृत्वादेशकालौस्मृत्वाममसपरिवारस्यसकलारिष्टोपशांतयेमायु:सिध्यर्थंश्रीपरमेश्वरप्रीत्यर्थंनिधनशांतिंकरिष्ये तदंगत्वेनगणेशपूजनंस्वस्तिवाचनंचकरिष्येइतिसंकल्प्ययथाशाखंस्वस्त्ययनंवाचयित्वाशांतिसूक्तानिनिधनसूक्तानिजपेयु: ॥ ॐ आनोभद्रा:० वर्ग १ ॐ स्वस्तिनोमिमीता० वर्ग २ ॐ शंनइंद्राग्नी० वर्ग०३ ॐ शंवती:पार० वर्ग १ ॐ आशु:शिशानो० वर्ग ३ ॐ मुंचामित्वा० वर्ग १ त्यमूषुवाजिनं० वर्ग १ ॐ महित्रीणाम० वर्ग १ ॥ॐ ईळेध्यावापृथिवीपूर्वचित्तयेग्निंघर्मंसुरुचंयामन्निष्टये ॥ याभिर्भरेकारमंशायजिन्वथस्ताभिरुषऊतिभिरश्विनागतम् ॥यवोर्दानायसुभराअसश्चतोरथमातस्थुर्वचसंनमंतवे ॥ याभिर्धियोवथ:कर्मन्निष्टयेताभिरुषुऊतिभिरश्विनागतम् ॥युवंतासांदिव्यस्यप्रशासनेविशांक्षयथोअमृतस्यमज्मना ॥ याभिर्धेनुमस्वं १ पिन्वथोनराताभिरुषुऊतिभिरश्विनागतम् ॥ याभि:परिज्मातनयस्यमज्मनाद्विमातातूर्षुतरणिर्विभूषति ॥ याभिस्त्रिमंतुरभवद्विचक्षणस्ताभिरुषुऊतिभिरश्विनागतम् ॥ याभीरेभंनिवृतंसितमभ्ध्यऽउद्वंदनमैरयतंस्वदृशे ॥ याभि:कण्वंप्रसिषासंतमावतंताभिरुषुऊतिभिरश्विनागतं ॥१॥याभिरंतकंजसमानमारणेभुज्यंयाभिरव्यथिभिर्जिजिन्वथु: ॥ याभि:कर्कंधुवय्यंचजिन्वथस्ताभिरुषुऊतिभिरश्विनागतं ॥ याभि:शुचंतिंधनसांसुषंसदंतप्तंघर्ममोम्यावंतमत्रये ॥ याभि:पृश्निगुंपुरुकुत्समावतंताभिरुषुऊतिभिरश्विनागतं ॥ याभि:शचीभिर्वृषणापरावृजंप्रांधंश्रोणंचक्षसएतवेकृथ: ॥ याभिर्वर्तिकांग्रसिताममुंचतंताभिरुषुऊतिभिरश्विनागतं ॥ याभि:सिंधुंमधुमंतमसश्चतंवसिष्ठंयाभिरजरावजिन्वतं ॥ याभि:कुत्संश्रुतर्यंनर्यमावतंताभिरुषुऊतिभिरश्विनागतं ॥ याभिर्विश्पलांधनसामथर्व्यंसहस्त्रमीह्लआजावजिन्वतं ॥ याभिर्वशमश्व्यंप्रेणिमावतंताभिरुषऊतिभिरश्विनागतं ॥२॥याभि:सुदानूऔशिजायवणिजेदीर्घश्रवसेमधुकोशोअक्षरत् ॥ कक्षीवंतंस्तोतारंयाभिरावतंताभिरुषुऊतिभिरश्विनागतं ॥याभीरसांक्षोदसोग्द:पिपिन्वथुरनश्वंयाभीरथमावतंजिषे ॥ याभिस्त्रिशोकउस्त्रियाउदाजतताभिरुषुऊतिभिरश्विनागतं ॥ याभि:सूर्यपरियाथ:परावतिमंधातारंक्षैत्रपत्येष्वावतं ॥ याभिर्विप्रंप्रभरद्वाजमावतंताभिरुषुऊतिभिरश्विनागतं ॥याभिर्महामतिथिग्वंकशोजुवंदिवोदासंशंबरहत्यआवतं ॥ याभि:पूर्भिध्येत्रसदस्युमावतंताभिरुषुऊतिभिरश्विनागतं ॥ याभिर्वम्रंविपिपानमुपस्तुतंकलिंयाभिर्वित्तजानिंदुवस्यथ: ॥ याभिर्व्यश्वमुतपृथिवातंताभिरुषुऊतिभिरश्विनागतं ॥३॥याभिर्नराशवेयाभिरत्रयेयाभि:पुरामनवेगातुमीषथु: ॥ याभि:शारीराजतंस्य़ूमरश्मयेताभिरुषुऊतिभिरश्विनागतं ॥याभि:पठर्वाजठरस्यमज्मनाग्निर्नादीदेच्चितइध्दोअज्मन्ना ॥ याभि:शर्यातमवथोमहाधनेताभिरुषुऊतिभिरश्विनागतं ॥याभि:पठर्वाजठरस्यमज्मनाग्निर्नादेच्चितइध्दोअज्मन्ना ॥ याभि:शर्यातमवथोमहाधनेताभिरुषुऊतिभिरश्विनागतं ॥ याभिरंगिरोमनसानिरण्यथोग्रंगच्छथोविवरेगोऽअर्णस: ॥ याभिर्मनुंशूरमिषासमावतंताभिरुषुऊतिभिरश्विनागतं ॥ याभि:पत्नीर्विमदायन्यूहथुराघवायाभिररुणीरशिक्षतं ॥ याभि:सुदासऊहथु:सुदेव्यं १ ताभिरुषुऊतिभिरश्विनागतं ॥४॥याभि:कृशानुमसनेदुवस्यथोजवेयाभिर्यूनोअर्वतमावतं ॥ मधुप्रियंभरथोत्सरड्भ्यस्ताभिरुषुऊतिभिरश्विनागतं ॥ याभिर्नरंगोषुयुधंनृषाह्येक्षेत्रस्यसातातनयस्यजिन्वथ: ॥ यभीरथाँअवथोयाभिरर्वतस्ताभिरुषुऊतिभिरश्विनागतं ॥याभि:कुत्समार्जुनेयंशतक्रतूप्रतुर्वीतिंप्रचदभीतिमावतं ॥ याभिर्ध्वसंतिंपुरुषंतिमावतंताभिरुषुऊतिभिरश्विनागतं ॥अप्नस्वतेमश्विनावाचमस्मेकृतंनोदस्त्रावृषणामनीषां ॥ अध्यूत्येवसेनिह्वयेवांवृधेचनोभवतंवाजसातौ ॥ ध्युभिरक्तुभि:परिपातमस्मानरिष्टोभिरश्विनासौभगेभि: ॥ तन्नोमित्रोवरुणोमामहंतामदिति:सिंधु:पृथिवीउतध्यौ: ॥५॥निवर्तध्वंमानुगातास्मान्त्सिषक्तरेवती: ॥ अग्नीषोमापुनर्वसूअस्मेधारयतंरयिं ॥ पुनरेनानिवर्तयपुनरेनान्याकुरु ॥ इंद्रएनानियच्छत्वग्निरेनाउपाजतु ॥ पुनरेतानिवर्तंतामस्मिन्पुष्यंतुगोपतौ ॥ इहैवाग्नेनिधारयेहतिष्ठतुयारयि: ॥ यंनियानंन्ययनंसंज्ञानंयत्परायणं ॥ आवर्तनंनिवर्तनंयोगोपाअपितंहुवे ॥ यउदानड्व्ययनंयउदानट्परायणं ॥ आवर्तनंनिवर्तनमपिगोपानिवर्ततां ॥ आनिवर्तनिवर्तयपुनर्नइंद्रगादेहि ॥ जीवाभिर्भुनजामहै ॥ परिवोविश्वतोदधऊर्जाघृतेनयसा ॥येदेवा:केचयज्ञियास्तेरशय्यासंसृजंतुन: ॥ आनिवर्तनिवर्तयनिनिवर्तनिवर्तय ॥ भूम्याश्चतस्त्र:प्रदिशस्ताभ्यएनानिवर्तय ॥१॥भद्रंनोअपिवातयमन: ॥ शांतापृथिवीशिवमंतरिक्षंध्यौर्नोदेव्यभयंनोअस्तु ॥ शिवादिश:प्रदिशउद्दिशोनआपोविध्युत:परिपांतुसर्वत:शांति:शांति:शांति: ॥ तवगृहेसर्वारिष्टशांतिरस्तु ॥ यजमान:तथास्तु ॥ तत:स्थापितकलशोदकेनसमुद्रज्येष्ठादिमंत्रैर्यजमानाभिषेक: ॥ नूतनवस्त्रधारणं ॥ तत:अशुभनिवृत्त्याचंदनादिभोगधारणाधिकारार्थंसदक्षिणानिचंदनपुष्पफलतांबूलगुडदानानिकरिष्येइतिसंकल्प्यतानिकृत्वाकुलदेवतामिष्टदेवतादींश्चनत्वाअभ्यारमितिदेवतांविसृज्यद्विराचम्यब्राह्मणै:सहबंधुभि:स्वयंभुंजीत ॥ श्रीखंडंधृत्वातांबूलादिभक्षयित्वाभूयसींदक्षिणांदध्यात् ॥ आचार्यायवस्त्रदक्षिणांदत्त्वातोषयेत् ॥ इतित्रयोदशदिनविधि: ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP