संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथब्रह्मकूर्चपंचगव्यविधि:

और्ध्वदेहिकादिप्रकरणम् - अथब्रह्मकूर्चपंचगव्यविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सुवर्णताम्रपलाशपद्मान्यतमपात्रेताम्राया:गोमूत्रंत्रिपलमष्टमाषंवागायत्र्याप्रणवेनवा
दाय श्वेतगोशकृदंगुष्ठार्धपरिमितंषोडशमाषंवागंधद्वारामितिमंत्रेणप्रणवेनवादाय पीताया:
कपिलायावागो:क्षीरंसप्तपलंद्वादशमाषंवा आप्यायस्वेतिप्रणवेनवादाय नीलाया:सप्तपलं
दशमाषंवादधि दधिक्राव्णइतिप्रणवेनवादाय कृष्णायाघृतमेकपलमष्टमाषंवा ॥
ॐ शुक्रमसिज्योतिरसितेजोसिइत्यनेनघृतंमिमिक्षेइत्यनेनवाप्रणवेनवादाय तत:देवस्यत्वे
तिआपोहिष्ठेतिप्रणवेनवाकुशोदकमेकपलंचतुर्माषंवाप्रक्षिपेत् एवंगोमूत्रादीन्येकपात्रेकृत्वाप्र
णवंसमुच्चार्याहस्तेनालोडयपुन:प्रणवमुच्चार्ययज्ञियकाष्ठेननिर्मथ्यप्रणवेनाभिमंत्रयेत् ॥
तत:आज्यपंचगव्यासादनाध्याज्यभागांतेस्त्रुवेण ॥ ॐ भू:स्वाहाअग्नयइदं ॥ ॐभुव:स्वा
हावायवइदं० ॥ ॐ स्व:स्वाहासूर्यायेदं० ॥
ॐ भूर्भुव:स्व:स्वाहाप्रजापतयइदंनममेत्याज्यस्यप्रतिदैवतंसप्तविंशतिरित्येमष्टोत्तरशताहु
ती: प्रतिदैवतंसप्तेत्येवमष्टाविंशतिसंख्याहुतीर्वाहुत्वा साग्रै:सप्तपत्रैर्हरितै:कुशैर्दशाहुतीर्जुहु
यात् ॥ तत्रमंत्रा: ॥
ॐ इरावतीधेनुमतीहिभूतंसूयवसिनीमनुषेदशस्या ॥ व्यस्तभ्रारोदसीविष्णवेतेदाधर्थपृथिवी
मभितोमयूखै:स्वाहा ॥
पृथिव्याइदंनमम १ ॥ ॐ इदंविष्णु० सुरेस्वाहा ॥ विष्णवइ० २ ॥ ॐ मानस्तोकेत
नये० हवामहेस्वाहा ॥ रुद्रायेदं० ३ ॥ ॐ ब्रह्मजज्ञानं० विव:स्वाहा ॥ ब्रह्मणइदं० ४
(ब्रह्मस्थानेशंनोदेवीतिमंत्रेणाभ्ध्यइतिकेचित्) ॥
ॐ अग्नयेस्वाहा अग्नयइदं० ५ ॥ ॐ सोमायस्वाहासोमायेदं० ६ ॥ ॐतत्सवितुर्वरेण्यं०
प्रचोदयात्स्वाहा सूर्यायेदं० ७ ॥ ॐ प्रजापतेन० रयीणांस्वाहा ॥ प्रजापतयइदं० ८ ॥
ॐ स्वाहाप्रजापतयइदं० ९ ॐ अग्नयेस्विष्टकृतेस्वाहा अग्नयेस्विष्टकृतइदं० १० ॥
इतिदशपंचगव्याहुतीर्हुत्वा केवलाज्यस्ययदस्येतिस्विष्टकृतंहुत्वा ॥ प्रायश्चित्तादिहोमशेषं
समाप्य बर्हिषिपूर्णपात्रनिनयनाध्यग्न्युपस्थानपरिस्तरणविसर्जनादियस्यस्मृत्येत्यंते अने
नसर्वप्रायश्चित्तपूर्वांगहोमाख्येनकर्मणायज्ञभोक्तायज्ञनारायणरुपीपरमेश्वर:प्रीयतामित्युक्त्वा ॥
व्रतग्रहणंकरिष्यइतिद्विजान् पृष्ट्वातै:कुरुष्वेत्यभ्यनुज्ञात: ॥ ॐ यत्त्वगस्थितगतंपापंदेहे
तिष्ठतिमामके ॥
प्राशनंपंचगव्यस्यदहत्वग्निरिवेंधनं ॥ इत्युक्त्वाप्रणवेनहुतशेषमशेषंगृहीत्वाप्रणवेनैवसर्वपं
चगव्यंपिबेत् ॥
अशक्तौगोमूत्रादिस्वल्पंग्राह्यंसर्वस्यपेयत्वात् ॥ एतच्चग्रामाब्दहिर्नध्यादेस्तीरेनक्षत्रदर्शने
कार्यम् ॥
मुमूर्षोस्तुगृहादावेव ॥ अस्मिन्दिनेशक्तस्योपवास:अशक्तौहविष्यानम् ॥ अयंचेरावतीत्या
दिपंचगव्यस्यदशाहुतिहोमोब्रह्मकूर्चाख्यपंचगव्यपानेसर्वत्रोह्य: ॥
गृहमागत्यप्रातरारभ्यसंकल्पितप्रायश्चित्तंसंकल्पितप्रत्याम्नायानुसारेणानुष्ठायोत्तरांगानिकुर्यात् ॥
गोनिष्क्रयरजतादिदानपक्षेपंचगव्यप्राशनांतेइदंषडब्देअशीत्युत्तरशतकृच्छ्रप्रत्याम्नायगोनिष्क्रयीभूतंत्र्यब्देनवतिकृच्छ्रप्रत्याम्नायगोनिष्क्रयीभूतं प्रतिकृच्छ्रंनिष्कतदर्धतदर्धान्यतम
प्रमाणंरजतद्रव्यंनानानामगोत्रेभ्योब्राह्मणेभ्योदातुमहमुत्सृज्यइतिद्रव्यदानसंकल्पंकृत्वात
दैवद्रव्यंविभज्यदध्यात् ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP