संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्| अथौर्ध्वदेहिकाविधि: और्ध्वदेहिकादिप्रकरणम् अथसर्वप्रायश्चित्तप्रयोग: अथब्रह्मकूर्चपंचगव्यविधि: अथप्रायश्चित्तोत्तरांगानि अथस्त्रीशूद्रप्रायश्चित्तम् अथातुरसन्निधौजाप्यम् अथमरणोत्तरविधि: अथगृहाच्छ्मशानेशवनयनप्रकार: अथप्रेतस्यपुन:संधानम् अथौर्ध्वदेहिकाविधि: अथपंचकादिदाहविधि: अथचितिपूरणम् अथतिलांजलिदानम् अथप्रथमदिनविधि: अथनवश्राध्दम् अथनग्नप्रच्छादनश्राध्दम् अथपाथेयश्राध्दम् अथास्थिसंचयनम् अथास्थिसंचयनश्राध्दम् अथातीर्थेस्थिक्षेपपूर्वांगविधि: अथद्वितीयादिदिनविधि: अथवृषोत्सर्ग: अथमहैकोद्दिष्टम् अथाग्नौमहैकोद्दिष्टम् अथरुद्रगणश्राध्दम् अथवसुगणश्राध्दम् अथषोडशमासिकश्राध्दानि अथदशदानानि अथाष्टदानानि अथोपदानानि अथप्रायश्चित्तगोदानप्रयोग: अथपंचगोदानानि अथाश्वदानम् अथशय्यादानम् अथभूमिदानम् अथसपिंडीकरणम् अथपाथेयश्राध्दम् अथत्रयोदशदिनविधि: अथत्रयोदशश्रवणामान्नविधि: अथउदकुंभश्राध्दम् अथमासिकश्राध्दानि अथजीवच्छ्राध्दविधि: अथपालाशविधि: अथऔर्ध्वदेहिकोपयोगिनारायणबल्यादि अथसर्पहतेव्रतम् अथब्रह्मचारिमरणविधि: अथस्नातकमरणविधि: अथरजस्वलामरणविधि: अथगर्भिणीमरणविधि: अथसूतिकामरणविधि: अथसकेशामरणेविधि: अथप्रसंगात्सकेशावपनविधि: अथसहगमनविधि: अथातुरसंन्यासविधि: अथसंन्यासग्रहणविधि: अथसावित्रीप्रवेश: अथविरजाहोम: अथपर्यंकशौचप्रयोग: अथयोगपट्ट: अथब्रह्मान्वाधानम् अथमृतयतिसंस्कार: अथएकादशेनिपार्वणश्राध्दम् अथव्दादशाहेनारायणबलि: अथयतिधर्मा: अथत्रिंशच्छ्लोकी (आशौचनिर्णय:) और्ध्वदेहिकादिप्रकरणम् - अथौर्ध्वदेहिकाविधि: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथौर्ध्वदेहिकाविधि: Translation - भाषांतर श्री: ॥ ततोदाहगर्तादीशानेजानुमात्रंवितस्तिमात्रंवागर्तंकृत्वाजलमापूर्यतत्रावकांशीपालं (शैवालं) चनिक्षिपेत् ॥ अस्मिन्कर्मणिप्राय:प्राचीनावीतित्वमाग्नेय्यभिमुखतादक्षिणापवर्गत्वंचज्ञेयं ॥ तत:कर्ताहस्तौपादौप्रक्षाल्य आचम्य अमंत्रकंप्राणायामंकृत्वादेशकालौसंकीर्त्य ॥ अमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वविमोक्षार्थंऔर्ध्वदेहिकंकरिष्येइतिसंकल्प्य ॥ प्राचीनावीती ॥ उपसर्पेतिसंकुसुक:पितृमेधस्त्रिष्टुप् ॥ भूमिप्रार्थनेविनियोग: ॥ ॐ उपसर्पमातरंभूमितामुरुव्यचसंपृथिवींसुशेवां ॥ ऊर्णम्रदायुवतिर्दक्षिणावतएषात्वापातुनिऋतेरुपस्थात् ॥ ॐ अपसर्पंतुतेप्रेतायेकेचिदिहपूर्वजा: ॥ स्वस्तिन:कृणुतामाशुआपात:पुनरागमत् ॥ इतिभूमिंप्रार्थ्य ॥ ॐ दिविजाताअप्सुजातायाओषधीभ्य: ॥ अथोयाअद्रिजाआपस्तान:शुंधुंतुशंधनी: ॥ इतिस्थलशुध्दिकृत्वा ॥ अपेतेतियम:पितरस्त्रिष्टुप् ॥ भूमिप्रोक्षणेवि० ॥ॐ अपेतवीतविचसर्पतातोस्माऽएतंपितरोलोकमक्रन् ॥ अहोभिरभ्दिरक्तुभिर्व्यक्तंयमोददात्यवसानमस्मै ॥ इतिमंत्रेणपूर्वोक्तगर्तोदकेनान्यजलेनवाशमीशाखयात्रिरप्रदक्षिणंपरिव्रजन्खातंप्रोक्षेत् ॥ प्रतिपरिव्रजनंमंत्रावृत्ति: ॥ ततोवायव्यांखातांतरेतब्दहिर्वात्रिकोणंस्थंडिलंकृत्वोपलिप्योल्लिख्य अग्नेत्वंक्रव्यादनामासीतिऔपासनाग्निंप्रतिष्ठापयेत् ॥ कुशमूलेनखातमध्येयमायदहनपतयेचोल्लिखामित्येकांरेखामुल्लिख्य ॥ यमायदहनपतयेपितृभ्य:स्वधानम:इतिमध्यरेखायां ॥कालायदहनपतयेपितृभ्य:स्वधानम:इतिमध्यादुत्तरस्यां ॥ मृत्यवेदहनपतयेपितृभ्य:स्वधानमइतिमध्याद्दक्षिणस्यां ॥ तत:खातेहिरण्यशकलानितिलांश्चप्रक्षिप्य सजातीयाहृतैर्यज्ञियकाष्ठैश्चितिंकुशल:कुर्यात् ॥ तत:कर्तातस्यांबर्हिरास्तीर्यतदुपरिऊर्ध्वलोमकृष्णाजिनमास्तीर्यप्रेतमग्नेरुत्तरेणनीत्वादक्षिणशिरस्कंचितौनिवेशयेत् ॥ तत:प्रेतस्यमुखेनासिकाद्वयेचक्षुर्द्वयेश्रोत्रद्वये एवंसप्तछिद्रेषुहिरण्यशकलानि तदभावेआज्यबिंदून्वानिक्षिप्य प्रेतशरीरेघृताक्तांस्तिलान्प्रक्षिप्य ॥ ततोदेशकालौसंकीर्त्यप्रेतोपासनंकरिष्येइतिसंकल्प्य समिद्वयमादाय अग्निंकामंलोकंअनुमतिंएता:प्रधानदेवता:अग्नावाज्येनप्रेतंतोरसिआज्येनयक्ष्ये ॥ व्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती अन्वाधानसमिध्दोमेविनियोग: ॥ॐ भूर्भुव:स्व:स्वाहाप्रजापातयइदंनमम ॥ अग्निंपरिसमुह्यचितिसहितमग्निंपरिस्तीर्यपर्युक्ष्यदक्षिणतोऽग्रे:प्रोक्षणींस्त्रुवंचमसंआज्यभाजनंचेतिएकैकश: उत्तानानिपात्राण्यासादयेत्ततोगर्तोदकंचमसेआसिच्यदर्भैराच्छाध्यप्रणयेत् ॥ इममग्नइतिदमनोग्निस्त्रिष्टुप् चमसानुमंत्रेणविनियोग: ॥ ॐ इममग्नेचमसंमाविजिह्वर:प्रियोदेवानामुतसोम्यानां ॥ एषयश्चमसोदेवपानस्तस्मिन्देवाअमृतामादयंते ॥ इतिचमसानुमंत्रणंकृत्वा प्रोक्षण्यांकुशैकरुपंपवित्रंनिधायजामापूर्यगंधादिक्षिप्त्वाअपस्त्रिरुत्पूयपात्राणिसंप्रोक्ष्यअन्यदर्भेणाच्छाध्य तत्पवित्रंआज्यपात्रेनिधाय आज्यपात्रंपुरत:संस्थाप्यतस्मिन्नाज्यमासिच्यस्वस्थानेनिधायज्वलतादर्भोल्मुकेनावज्वल्य अंगुष्ठपर्वमात्रंप्रक्षालितंदर्भाग्रद्वयमाज्येप्रक्षिप्यपुनर्ज्वलतातेनैवदर्भोल्मुकेनाज्यंत्रि:पर्यग्निकृत्वातदुल्मुकंनिरस्याप: स्पृष्ट्वातत्रस्थमेवाज्यंतूष्णीमुत्पूयपवित्रमभ्दि:प्रोक्ष्याग्नौप्रहरेत् ॥ ततआत्मनोग्रतोभूमिंप्रोक्ष्यतत्रदर्भेषुआज्यपात्रंनिधायस्त्रुवंदक्षिणहस्तेनगृहीत्वासव्येनदर्भानादायसहैवाग्नौप्रताप्य दर्भाग्रै:स्त्रुवस्यबिलंपृष्ठंचत्रि:संमृज्यमूलैर्मूलंचप्रोक्ष्यप्रताप्यआज्यादुत्तरत:संस्थाप्यतूष्णीमग्निमलंकृत्यवामंजान्वाच्य प्राचीनावीतीपराचीनपाणि:स्त्रुवेणाज्यंजुहुयात् ॥ ॐ अग्नयेस्वाहा अग्नयइदं० ॥ ॐ कामायस्वाहा कामायेदं० ॥ ॐ लोकायस्वाहा लोकायेदं० ॥ ॐ अनुमतयेस्वाहा अनुमतयइदं० ॥ एवंचतस्त्रआज्याहुतीर्हुत्वा ॥ ॐ अस्माद्वैत्वमजायथाअयंत्वदभिजायतां ॥ असौस्वर्गायलोकायस्वाहेतिमंत्रेणप्रेतस्योरसिपंचमींजुहुयात् ॥ असावित्यत्रसंबुध्दयाप्रेतनामनिर्दिशेत् ॥अमुकप्रेतायेदंनममेतित्यजेत् ॥ अत्रस्विष्टकृध्दोम:पात्रसंयोजनंचनास्ति ॥ एवंप्रेतौपासनंकृत्वातत:सक्तुभिरपूपपंचकंकृत्वापृषदाज्येनाभिघार्य ॥ अग्नेर्वमेतिदमनोग्निस्त्रिष्टुप् प्रेतस्यललाटेमुखेचसक्तुपिंडदानेविनियोग: ॥ ॐ अग्नेर्वर्मपरिगोभिर्व्ययस्वसंप्रोर्णुष्वपीवसामेदसाच ॥ नेत्वाधृष्णुर्हरसाजर्हषाणोदधृग्विधक्ष्यन्पर्यंखयाते ॥ इतिललाटेमुखेचद्वौपिंडौदत्त्वा ॥ अतिद्रवेतिमंत्रद्वयस्ययमश्वानौत्रिष्टुप् बाहुद्वयेहृदयेचसक्तुपिंडदानेवि० ॥ॐ अतिद्रवसारमेयौश्वानौचतुरक्षौशबलौसाधुनापथा ॥ अथापितृन्त्सुविदत्राँउपेहियमेनयेसधमादंमदंति ॥ यौतेश्वानौयमरक्षितारौचतुरक्षौपथिरक्षीनृचक्षसौ ॥ ताभ्यामेनंपरिदेहिराज्स्न्स्वस्तिचास्माअनमीवंचधेहि ॥ इतिबाहुद्वयेपिंडद्वयंहृदयेएक:पिंडइत्येवंपंचसक्तुपिंडान्दध्यात् ॥ ततोधनिष्ठापंचकत्रिपान्नक्षत्रादौमरणेतद्विधिंकृत्वानंतरंचितिपूरणंकार्यं ॥ N/A References : N/A Last Updated : August 24, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP