संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथप्रथमदिनविधि:

और्ध्वदेहिकादिप्रकरणम् - अथप्रथमदिनविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ कर्तातुआर्द्रावस्त्रस्तस्मिन्दिनेतत्कालएवअन्यदिनेषुवा पूर्वाह्णएवप्रागुदीच्यांग्रामा
ब्दहि:सरित्संगमेमहाजलसन्निधौवागत्वाभूमिंसंशोध्यतत्रदशाहांतंकर्मकुर्यात् ॥
स्नात्वाआर्द्रेनवीनेवाससीधृत्वाचम्यदेशकालौस्मृत्वासोत्तरीय:प्राचीनावीतिदक्षिणामुख:अमुक
गोत्रस्यामुकप्रेतस्यपित्रादे: (मात्रादौतुअमुकगोत्रायाअमुक (देवीदाया:) प्रेताया:) प्रेतत्वनिवृ
त्त्याउत्तमलोकप्राप्त्यर्थंप्रथमदिनविधिंकरिष्यइतिसंकल्प्य ताम्रादिमयंनवंभांडंसंशोध्यतस्मि
न् पिंडार्थंसकृत्प्रक्षालितान्प्रसृतिपरिमितांस्तंडुलान्सोदकान्निधायतत्पात्रंलौकिकाग्नावधि
श्रित्यस्वयंचरुंश्रपयित्वामृत्तिकास्नानादिकुर्यात् ॥
देशकालौसंकीर्त्यप्राचीनावीतीपित्रादेरमुकगोत्रस्यामुकप्रेतस्यप्रेतत्वनिवृत्त्याउत्तमलोकप्राप्त्यर्थंप्रथमेहनिदाहजनिततापोपशमनार्थंमृत्तिकास्नानादिकरिष्येइतिसंकल्प्य ॥
ॐ उदुत्यंजातवेदसंदेवंवहंतिकेतव: ॥ दृशेविश्वायसूर्यं ॥ इतिशुध्दमृदमादाय ॥
ॐ आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतंमर्त्यंच ॥ हिरण्ययेनसवितारथेनादेवोयातिभुव
नापिपश्यन् ॥ इतिसूर्यायदर्शयित्वा ॥
ॐ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष:सहस्त्रपात् ॥ सभूमिंविश्वतोवृत्वात्यतिष्ठदृशांगुलं ॥
इतिशिरसिविलिप्य ॥
ॐ अंगादंगाल्लोम्नोलोम्नोजातंपर्वणिपर्वणि ॥ यक्ष्मंसर्वस्मादात्मनस्तमिदंविवृहामिते ॥
इतिसर्वांगेलिंपेत् ॥ स्नात्वाआचम्यएवंपुनर्द्विवारंकार्यं ॥
तत:आचम्यअध्येत्यादिप्राचीनावीतीपित्रादेरमुकगोत्रस्यामुकप्रेतस्यदाहजनिततृषोपशमनार्थं
तिलतोयांजलिदानंकरिष्य इतिसंकल्प्य कुशोपर्यश्मानंस्थापयित्वातदुपरिअमुकगोत्रामुकप्रे
तदाहजनिततृषोशमनार्थंएषतिलतोयांजलिस्तवोपतिष्ठतां ॥
इतिदक्षिणामुख:तिलतोयांजलिंदध्यात् ॥ प्रत्यंजलिस्नानकार्यं ॥ तिलांजलिसंख्या ॥
प्रतिदिनंएकैकइतिदश ॥ प्रतिदिनंत्रयस्त्रयइतित्रिंशत् ॥ प्रतिदिनंएकैकवृध्दिरितिपंचपंचा
शत् ॥
प्रत्यहंदशदशेत्येवंशतंभवति ॥ प्रत्यहंद्वयोत्तरंवृध्दिरितिदशोत्तरशतं ॥ एषांपक्षाणांमध्ये
न्यतमपक्षाश्रवयणेनतिलांजलिर्देय: ॥
स्नात्वाआचम्य तत:तिलसर्पिर्मधुशर्करापयोमिश्रितंभक्तपिंडंकृत्वाअमुकगोत्रस्यामुकप्रेत
स्यआध्येहनिशिरोवयवनिष्पत्त्यर्थंएषपिंडस्तवोपतिष्ठतामितिकुशोपरिमहांतंपिंडंदत्त्वा पुन:
अमुकगोत्रामुकप्रेतएतत्तेतिलोदकमुपतिष्ठतामितिपिंडोपरिपितृतीर्थेनतिलोदकंप्रक्षिप्यपुनरमुकेत्यादिउपतिष्ठतामित्यंनतुलसीदलंभृंगराजपत्रंधूपदीपादिचदत्त्वा ॥
अनादिनिधनोदेव:शंखचक्रगदाधर: ॥ अक्षय्य:पुंडरीकाक्ष:प्रेतमोक्षप्रदोस्तुवै ॥ इतिपठित्वा ॥ इदंपिंडदानंसतिलोदकंप्रेताप्यायनमस्तु ॥ अस्तुप्रेताप्यायनमितिप्रतिवचनंआचार्योवदेत् ॥ तत:पिंडंजलेप्रवाह्यस्नात्वाआचामेत् ॥ इतिप्रथमदिनीयावयवपिंडदानविधि: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP