संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|और्ध्वदेहिकादिप्रकरणम्|
अथातीर्थेस्थिक्षेपपूर्वांगविधि:

और्ध्वदेहिकादिप्रकरणम् - अथातीर्थेस्थिक्षेपपूर्वांगविधि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ दशाहांतरस्थिक्षेपेनास्तादिविचार: ॥ दशाहोत्तरंतु ॥ अस्तंगतेगुरौशुक्रेतथामासेम
लिम्लुचे ॥
गंगायामस्थिनिक्षेपनंकुर्यादितिगौतम: ॥ यत्रास्थीनिखातानिसंतितत्रदेशकालनिर्देशांतेस्म
त्पित्रादेरमुकशर्मणोमुकगोत्रस्यतीर्थेस्थिक्षेपार्थमस्थ्युध्दरणंकरिष्ये ॥ पृथग्गोमूत्रादिभि
र्गायत्र्यादिमंत्रैस्तांमूमिंप्रोक्ष्य ॥
उपसर्पेतिचतसृणांशंख:पितरस्त्रिष्टुप् क्रमेणभूप्रार्थनखननमृदुध्दरणास्थिग्रहणेषुविनियोग: ॥ एताभिऋग्भि:क्रमेणास्थिग्रहणांतानिकर्माणिकृत्वाजलाशयेगृह्योक्तविधिनास्नानात्वा
स्थिशुध्दिंक्रुयात् ॥
अस्थीनिस्पृष्ट्वाएतोन्विंद्रमितितिसृणामांगिरसस्तिरश्चीइंद्रोनुष्टुप् अस्थिमार्जनेवि०
इतितृचावृत्त्यापंचगव्यै:स्नात्वास्पृष्ट्वैवदशस्नानानिकुर्यात् ॥
तत्रगायत्र्यादिपंचमंत्रैर्गोमूत्रगोमयक्षीरदधिसर्पि:स्नानानिकृत्वादेवस्यत्वेतिकुशोदकेनमानस्तोकइतिभस्मनाअश्वक्रांतेरथक्रांतइतिमृदामधुवाताइतिमधुनाआपोहिष्ठेतिशुध्दोदकेनच
स्नानायात् ॥
एवंदशस्नानांतेस्न्थ्रांकुशैर्मार्जनंकुर्यात् ॥ तत्रमंत्रा: ॥ अतोदेवाइत्यृक् १ ॥ अथसप्तसू
क्तानि ॥
एतोन्विंद्रमितितिसृणामांगिरसस्तिरश्चीइंद्रोनुष्टुप्  ३ शुचीवोहव्येतिमैत्रावरुणिर्वसिष्ठो
मरुतस्त्रिष्टुप् ३ नतमहंत्यष्टर्चस्यांहोमुग्विश्वेदेवाबृहतीअंत्यात्रिष्टुप् ८ इतिवाइतित्रयोद
शर्चस्यलंबइंद्रोगायत्री १३ ॥
यदंतियच्चेतिसप्तानांवसिष्ठोद्वयो:पवमान:सोमोंत्यानामग्निर्गायत्री ७ ममाग्नइतिदशर्च
स्यविहव्योविश्वेदेवास्त्रिष्टुबंत्याजगती १० ॥
कद्रुदायेतिनवर्चस्यघौर:कण्वोरुद्रोगायत्री ९ एतै:प्रतिमंत्रंमार्जयित्वततोयदीयान्यस्थीनित
स्यकृतसपिंडीकरणस्यपार्वणविधिनास्थिक्षेपांगभूतंश्राध्दंहिरण्येनकुर्यात् ॥ दशाहांतरस्थि
क्षेपकरणेएकोद्दिष्टविधिनाश्राध्दं ॥
देशकालसंबंधनामगोत्रादिस्मृत्वागंगायांकरिष्यमाणास्थिक्षेपांगभूतंश्राध्दंहिरण्येनकरिष्ये
तिलोदकं० ॥
पुरुवार्द्रवविश्वेदेवार्थेत्वयाक्षण:करणीयइतिदैवे पित्राध्यर्थेइतिपित्र्येक्षणंदत्त्वा एवमुभयत्रास
नादिआच्छादनांतंपूजांकृत्वासक्तुभिरग्नौकरणं ॥
यथाशक्तिहिरण्यंपात्रेनिधाय देवेभ्य:पितृभ्यश्वत्यक्त्वातृप्तिप्रश्नवर्जंसंपन्नवचनांतंकृत्वा
सक्तुभि:पिंडदानं ॥
तत:अपहतेत्यादिवासोदानांतेनमोव:पितरइत्यत्रइषेपदस्थानेहेमद्रव्यायेत्यूह: तत:श्राध्दसमा
प्त्यंतंप्रकृतिवत् स्मृत्युक्तसंकल्पेतुउशंतस्त्वेत्यादिमंत्रेष्वपियथायथमूहोबोध्य: ॥
एवंश्राध्दंसमाप्यवक्ष्यमाणपदार्थैरस्थीनिवेष्टयेत् ॥
यक्षकर्दमेनानुलिप्यहेममौक्तिकरौप्यप्रवालनीलमणीनस्थिषुप्रक्षिप्यअजिनकंबलदर्भभूर्जपत्र
शाणभूर्जपत्रताडपत्रै:क्रमेणसप्तधावेष्टयताम्रपुटेस्थापयेत् ॥
तत:स्वसूत्रोक्तविधिनास्थंडिलेग्निंप्रतिष्ठाप्याष्टोत्तरंतिलाज्याहुती:पृथक् जुहुयात् ॥
उदीरतामितिचतुर्दशस्यशंख:पितरस्त्रिष्टुबेकादशीजगतीअस्थीप्रक्षेपांगतिलाज्यहोमेवि०
एतत्सूक्तस्यसप्तावृत्तिभि:अष्टमावृत्तौअंत्यानांचतुर्णांत्यागेन १०८ हुत्वास्विष्टकृदादिहोम
शेषंसमाप्यास्थीनिगृहीत्वाचांडालपतितव्रात्यादिस्पर्शमकृत्वैवशुचिस्तीर्थंगच्छेत् ॥
मूत्रपुरीषशौचाचमनकालेस्थीन्यन्यत्रस्थापयेत् ॥
ततस्तीर्थंप्राप्यतीर्थप्राप्तिनिमित्तकंस्नानादिविधायास्थीनिस्त्रापयित्वामुकगोत्रस्यमुकशर्मणोब्रह्मलोकादिप्राप्तयेमुकतीर्थेऽस्थिप्रक्षेपमहंकरिष्येइतिसंकल्प्य पलाशपर्णपुटेपंचगव्ये
नास्थीन्या सिच्यहिरण्यशकलमाल्यघृततिलमिश्रितास्थीनिमृत्पिंडेनिधायदक्षिणांदिशमवे
क्षमाणोनमोरतुधर्मायेतिवदंस्तीर्थेप्रविश्यनाभिमात्रजले स्थित्वासमेप्रीतोस्त्वित्युक्तातीर्थे
क्षिपेत् ॥
तत:स्नानात्वाजलाब्दहिरागत्यसूर्यंदृष्ट्वाहरिंस्मृत्वाविप्राययथाशक्तिदक्षिणांदध्यात् ॥
(एतदशक्तौनिर्दिष्टप्रयोगांतर्गतहिरण्यश्राध्दहोमौवर्जयित्वान्यत्सर्वंयथावत्कुयादितिशौनका
दय:) ॥
इत्यस्थ्युध्दरणविधिस्तीर्थेस्न्थ्रांप्रक्षेपविधिश्च ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP