संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २००

पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः - १५१ ते २००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


कार्यं तद्देशवर्तिभ्यां सभ्रूक्षेपं विचक्षणैः ।
उत्तानेन युतेनाथ पत्राकारं प्रदर्शयेत् ॥१५१॥
हस्तेन चतुरा खे विनमय्य भ्रुवं मनाक् ।
लीलां रतिं स्मृतिं बुद्धिं संज्ञामायाविचारणा ॥१५२॥
सङ्गतं प्रणयं शौचमावर्त्य भावमक्षमम् ।
पुष्टिं सविच शीलं च चातुर्यं मार्दवं सुखम् ॥१५३॥
प्रश्नं वार्तां च वेषं च युक्तिं दाक्षिण्ययौवने ।
विभवाविभवौ स्तोकं सुरतं सद्वरं मृदु ॥१५४॥
गुणागुणौ गृहा दारा वर्णा नानाविधाश्रयाः ।
चतुरेणाभिनेतव्यास्ते सर्वेऽपि यथोचितम् ॥१५५॥
क्वचित्प्रभावता क्वापि भ्रमता मृदुता क्वचित् ।
प्रतीतिर्जायतेऽर्थस्य यस्य यस्य यथा यथा ॥१५६॥
प्राज्ञैस्तथा तथा शीर्षेऽभिनेयान्युक्तपाणिना ।
भ्रूदृष्टिचकुरगोश्च कार्यास्तदनुसारतः ॥१५७॥
मण्डलस्थेन हस्तेन पीतं रक्तं च दर्शयेत् ।
किञ्चिन्नतभ्रूः शिरसा परिमण्डलितेन च ॥१५८॥
तेन द्भूप्रदर्शयेत् कृष्णं नीलं च परिमृद्गता ।
चतुरेण कपोतादीन् वर्णान् स्वाभाविकेन च ॥१५९॥
इति चतुरः ।
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ।
ऊर्ध्वमन्ये प्रकीर्णो --- अङ्गुल्यो भ्रमरे करे ॥१६०॥
कुमुदोत्पलपद्मानां ग्रहणं तेन पाणिना ।
तथैव दीर्घवृन्तानामन्येषामपि रूपयेत् ॥१६१॥
कर्णपूरो विधातव्यः कर्णदेशे स्थितेन च ।
दृष्टिभ्रुवौ चाभिन्ना तेषां कार्ये करानुगे ॥१६२॥
इति भ्रमरः ।
तर्जनीमध्यमाङ्गष्ठाभूताग्निस्था निरन्तरा ।
भवेयुर्हंसवक्त्रस्य शेष सम्प्रसारिता ॥१६३॥
किञ्चित् प्रस्पन्दिताङ्गुष्ठेनामुनोत्क्षिप्य च भ्रुवौ ।
निस्सारमल्पं सूक्ष्मं च दर्शयेन्मृदुलं लघु ॥१६४॥
कर्तव्येऽभिनये चैषां दृग्भ्रुवौ च करानुगे ।
इति हंसवक्त्रः ।
अङ्गुल्यः प्रसृतास्तिस्रस्तथा चोर्ध्वा कनीयसी ॥१६५॥
अङ्गुष्ठः कुञ्चितश्चैव संसपक्ष इति स्मृतः ।
उत्तानेन बहिस्तिर्यग्ग्रीवायजलभूषणम् ॥१६६॥
कर्तव्यं तेन गण्डस्य रूपस्य गण्डवर्तनम् ।
कुर्वीत चैनमुत्तानं भोजने च प्रतिग्रहे ॥१६७॥
तथाचमनकार्ये च कर्तव्योऽयं द्विजन्मनाम् ।
अधस्तादन्तयोरेनं कुर्यात् स्वस्तिकयोगिनम् ॥१६८॥
किञ्चिन्नतेन शिरसा य परि यथारसम् ।
उभाभ्यां पार्श्वयोस्तिर्यग्वैताभ्यां स्तम्भदर्शनम् ॥१६९॥
कुर्वीतैकेन रोमाञ्च वामबाहुप्रसर्पिणा ।
संवाहनेऽनुलेपे च स्पर्शे तद्देशवर्तिनम् ॥१७०॥
विषादे विभ्रमे स्त्रीणां स्तन्यं तत्स्थं यथा रसः ।
अधस्तलं प्रयुञ्जीत तथैनं हनुधारणे ॥१७१॥
अस्यानुयायिनीं दृष्टिं पाणेः कुर्याद् भ्रुवौ तथा ।
इति हंसपक्षः ।
तर्जन्यङ्गुष्ठसन्दंशस्व रोदनस्य यदा भवेत् ॥१७२॥
आभुग्नतलमध्यश्च सन्दंश इति स स्मृतः ।
स चाग्रमुखपार्श्वानां भेदेन त्रिविधो भवेत् ॥१७३॥
तं पुष्पावचये पुष्पर्माग्रथने च प्रयोजयेत् ।
तृणपर्णग्रहे केशसूत्रादिस्तथापरे ॥१७४॥
शिल्पैकादेशग्रहणे त्वग्रसंदंशकं स्थिरम् ।
आकर्षणे तथा कृष्णे वृन्तात्पुष्पस्य चोद्धृतौ ॥१७५॥
विदध्यादेवमेवैनं शलाकारनिरूपणे ।
रोषे धिगिति वाक्ये च बहिर्भागप्रसर्पिणम् ॥१७६॥
यज्ञोपचितं तत्प्रदेशे स्थितेन च ।
उत्तानेनोरसोऽग्रे तु संयुतेन च तिर्द्वतम् ॥१७७॥
वचनं वलहा किञ्चित्समध्येनाधोमुखेन च ।
ग्रहणं गुणसूत्रस्य बाणलक्षनिरूपणम् ॥१७८॥
ध्यानं योगं च हृद्देशवर्तिना संप्रदर्शयेत् ।
स्तोकतिभिन्ना ये कर्तव्यः संयुतस्तूरसः पुरः ॥१७९॥
कुत्सास्तयाकोमलेषु सदोषवचनेषु च ।
विवर्तिताग्रः कर्तव्यो वामो विघटितो मनाक् ॥१८०॥
प्रवालरचने वर्तिग्रहणे नेत्ररञ्जने ।
आलेख्ये चैष कर्तव्यस्तथालक्तकपीडने ॥१८१॥
अस्य भ्रुवौ च दृष्टिं च कुर्यादनुगतां ततः ।
इति सन्दंशः ।
समागताग्रसहिता यस्याङ्गुल्यो भवन्ति हि ॥१८२॥
ऊर्ध्वं हंसमुखस्येव स भवेन्मुकुलः करः ।
कर्तव्यः संहतोऽत्रातो मुकुलाम्भोरुहादिषु ॥१८३॥
पुरः प्रसर्प्योच्चलितः कर्तव्यो विटचुम्बकः ।
इति मुकुलः ।
पद्मकोशस्य हस्तस्य त्वङ्गुल्यः कुञ्चिता यदा ॥१८४॥
ऊर्णनाभः स विज्ञेयश्चौर्यकेशग्रहादिषु ।
चौर्यकेशग्रहे चैष कर्तव्योऽधोमुखः करः ॥१८५
शिरःकण्डूयने मूर्ध्नः प्रदेशे प्रचलन्मुहुः ।
तर्यकवर्ती विधातव्यः कुष्ठव्याधेर्निरूपणे ॥१८६॥
अधोमुखः स्थितेनाधः सिंहव्याघ्रादिरूपणे ।
कार्यो भ्रुकुटिवक्त्रेण संयतोऽस्य ग्रहस्तथा ॥१८७॥
अत्रापि दृष्टिभ्रूकर्म प्राग्वदेव विधीयते ।
इत्यूर्णनाभः ।
मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी ॥१८८॥
मृगव्यालादिविश्वासं बालसन्धारणे तथा ।
अयं हस्तो विधातव्यो भर्त्सने भ्रुकुटीयुतः ॥१८९॥
सिंहव्याघ्रादियोगे च विच्युतः शब्दवान् भवेत् ।
दृष्टिभ्रुवौ च कर्तव्यौ न्यत्यमस्यानुगे बुधैः ॥१९०॥
अपरैः छिदितासंज्ञो हस्तोऽयं परिकीर्तितः ।
इति ताम्रचूडः ।
असंयुतानां हस्तानां चतुर्विंशतिरीरिता ॥१९१॥
त्रयोदशाथ कथ्यन्ते संयुता नामलक्षणैः ।
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥१९२॥
खटकावर्धमानश्चाप्युत्सङ्गनिषधावपि ।
डोलः पुष्पपुटस्तद्वन्मकरो गजदन्तकः ॥१९३॥
वरित्थादश कथ्यन्ते संयता नामलक्षणैः ।
अञ्जलिश्च कपोतस्य कर्कटः स्वस्तिकस्तथा ॥१९४॥
त्रयोदशैते कथिता हस्ताः संयुक्तसंज्ञिताः ।
पताकाभ्यां तु हस्ताभ्यां संश्लेषात्सोऽञ्जलिः स्मृतः ॥१९५॥
शिरश्च विनतं किञ्चित्तत्र कार्यं विपश्चिता ।
कार्यो गुरुनमस्कारो मुखस्यासन्नवर्तिना ॥१९६॥
पेक्षते न मित्राणां न स्थाननियमः कृधे ।
इत्यञ्जलिः ।
उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहात् ॥१९७॥
स हस्तः कपोतनामा स्यात्कर्म चास्याभिधीयते ।
कुर्यात्प्रणमनं वक्षःस्थितेन तु न मच्छिराः ॥१९८॥
गुरुसंभाषणं कुर्यात्तेन शीतं भयं तथा ।
विनयस्याभ्युपगमे चायमित्यभिधीयते ॥१९९॥
तेनैवाङ्गुलिसंघृष्यमाणमुक्तेन पाणिना ।
एतान् वदति नेदानीं कृत्यंधो चेति प्रदर्शयेत् ॥२००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP