आयादिनिर्णयो नाम षड्विंशोऽध्यायः - ५१ ते ८०
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
करणैश्चतुराद्यैस्तु शुभैरतिशुभं भवेत् ।
न समायव्ययं वेश्म नाव्ययं नाधिकव्ययम् ॥५१॥
न द्वितीयांशमसदृग्योनिभं च न कारयेत् ।
भर्तृतुल्याभिधानं च गृहं दूरात्परित्यजेत् ॥५२॥
समसप्तकमेकर्क्षं तृतीयैकादशं तथा ।
चतुर्थदशकं चेति कर्तव्यं मन्द्रि रं सदा ॥५३॥
षट्कोष्ठकं त्रिकोणं च वर्ज्यं द्विर्द्वादशं तथा ।
षट्कोष्ठके मृतिर्दैन्यं वियोगश्च भवेद्गृहे ॥५४॥
त्रिकोणे वसतां दुःखं वैधव्यं च प्रजायते ।
द्विर्द्वादशे पुत्रपौत्रगुरुबन्धुधनक्षयः ॥५५॥
हृतेऽष्टभिः क्षेत्रफले खनेत्रशशिभाजिते ।
शेषं जीवितमेतस्मिन् पञ्चभक्ते भवेन्मृतिः ॥५६॥
सभुजं सहषड्दारु मुखमण्डपसंयुतम् ।
आयामतः पृथुत्वाच्च मानं कृत्वा विभाजयेत् ॥५७॥
सर्वतः शोधितं वास्तु यच्च सम्यङ्मितं भवेत् ।
स्वामिनस्तद्भवेद्धन्यं स्थपतेश्च यशस्करम् ॥५८॥
अर्चितं वर्धते वास्तु नारीभिः पशुभिर्नरैः ।
कीर्त्त्यायुर्धनधान्यैश्च प्रमोदैस्तु महोत्सवैः ॥५९॥
मेरुश्च खण्डमेरुश्च पताका सूचिका तथा
उद्दिष्टं नष्टमिति षट् छन्दांसीह प्रचक्षते ॥६०॥
एकाद्येकोत्तरान् कोष्ठान् विन्यसेदिच्छयात्मनः ।
आद्यादारभ्य तद्वृद्धिर्यथा स्यात्पार्श्वयोः समम् ॥६१॥
मेरोरेकाधिका सङ्खया शरावस्येव चाकृतिः ।
प्रथमे कोष्ठके रूपमन्तं यावच्च पार्श्वयोः ॥६२॥
आसनोर्ध्वस्थयोर्न्यस्येन्मध्ये सङ्कलितं पृथक् ।
तस्मिन्निष्टविकल्पानां सङ्ख्या स्यादन्त्यपङ्क्तिगा ॥६३॥
खण्डमेरुं तु विन्यस्येत्तद्वदेवैकपार्श्वतः ।
प्रवृद्धैः कोष्टकैस्तत्राप्यङ्काः प्राग्वत्फलं तथा ॥६४॥
अथापरः खण्डमेरुः कोष्ठांस्तत्रेष्टसङ्ख्यया ।
कृत्वैकापचितान् वामविभागापचितानधः ॥६५॥
एकाद्येकोत्तरानङ्कानाद्यपङ्क्तौ निवेशयेत् ।
अन्यासु पङ्क्तिष्वाप्रान्तं शून्यान्याद्येषु कल्पयेत् ॥६६॥
द्वितीयेषु च कोष्ठेषु तासामेकैकमावयेत् ।
द्वितीयायां तृतीयादिकोष्ठकेषु यथाक्रमम् ॥६७॥
विकर्णयोगजानन्यानूर्ध्वाधोयोगसंभवान् ।
फलं विकर्णयोगोत्थमेकस्मिन् परिकल्पयेत् ॥६८॥
एकाधिकानभीष्टायाः सङ्ख्यायास्तिर्यगालिखेत् ।
कोष्ठानेकांच रूपादींस्तन्मध्ये द्विगुणोत्तरान् ॥६९॥
एकोनं पृष्ठतस्तेषामेकं द्विगुणमग्रतः ।
नातिक्रामेत्परां सङ्ख्यां पताकाछन्द उच्यते ॥७०॥
तद्विनेष्टाद्यगा सङ्ख्येत्येकाद्यैस्तैस्ततो गृहे ।
न्यस्ताङ्कसङ्ख्याः सङ्ख्याः स्युरलिन्दाद्यैः प्रकल्पिताः ॥७१॥
एकैकमिष्टस्थानेषु लिखेत्सैकेश्वतः परम् ।
अन्त्यादृते पूर्वपूर्वयुक्तेनायोजयेत्परम् ॥७२॥
अन्त्यादारभ्य तद्वनावेकाद्येषु च पर्ययात् ।
अलिन्दादिषु यत्र स्यात्सङ्ख्या सूचीं तु तां विदुः ॥७३॥
उद्दिष्टे स्थापयेत्सङ्ख्यामुद्दिष्टां सम्भवेच्च ताम् ।
दलयेद्रू पयुक्तां तु दलयेन्नाम सम्भवेत् ॥७४॥
लघुस्वरूपदलने सैकार्धे करणे गुरुः ।
यावदिष्टपदापितः स्याल्लघवोऽलिन्दकोदयः ॥७५॥
कृत्वा छन्दः समुद्दिष्टं तदन्ते लघुनि द्विकम् ।
न्यसेदेकं गुरूणां च द्विगुणं द्विगुणं ततः ॥७६॥
व्यत्ययाल्लघुनः स्थाने द्विगुणादेककं गुरोः ।
कुर्यात्तमाद्यस्थानाङ्कसङ्ख्यं नष्टे गृहं भवेत् ॥७७॥
प्राप्तस्यैकं कोष्ठमेकैकवृद्ध्या न्यस्येदूर्ध्वं पङ्क्तयो यावदिष्टाः ।
इष्टानेकादील्लिखेदानुपूर्व्या कर्णेनाधः शून्यरूपे च दद्यात् ॥७८॥
कर्णस्थाङ्कश्लेषतोऽङ्के भवेद्यस्तं विन्यस्येत्कोष्ठकेषु क्रमेण ।
उद्दिष्टाङ्को भद्र सङ्ख्यानि मध्ये याभ्यः कर्णश्लेषतो मूषिकास्ताः ॥७९॥
एकादिषु द्विगुणितेष्विह यावदिष्टमूषाक्रमव्युपहितेष्वथ तेषु विद्यात् ।
उद्दिष्टवेश्मकृतनिर्गममार्गमूषासत्काङ्कसैकयुतिनिर्मितसङ्ख्यमोकः ॥८०॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयव्ययनक्षत्रराशिफलतद्योगताराङ्कयोनितच्छन्दोगनिर्णयो नाम षड्विंशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP