संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः

द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


यदत्र नवकर्मोक्तं तद्यज्ञेषु गृहेषु च ।
ज्ञेयं ग्रामे पुरे वापि नगरे पत्तने तथा ॥१॥
संस्थानमाकृतिर्मानं ह्रासवृद्धी च बाहुषु ।
एकमेव विजानीयात्सर्वत्रैव विचक्षाणः ॥२॥
यूपस्यैव निमित्तानि दारुकर्मणि निर्दिशेत् ।
पातं पते विजानीयात्तक्षणं तक्षणेन च ॥३॥
यूपोच्छ्रायमिव ब्रूयाद्दारूणामपि चोच्छ्रयम् ।
भङ्गेन भङ्गो निर्दिश्यः समाधिश्च समाधिना ॥४॥
नवकर्मणि यत्स्निग्धं सुगन्धि प्रियदर्शनम् ।
गम्येहरं मनुष्याणां धन्यं तदभिनिर्दिशेत् ॥५॥
पुरं वा यदि वा ग्रामो गृहं वा यदि निष्प्रभम् ।
आयासबहुलं तद्धि तादृशैर्लक्षणैर्भवेत् ॥६॥
परिध्वस्तोपमं रूक्षं नवकर्मणि यद् भवेत् ।
भ्रमं रोगं च शोकं च तस्मिन् वेश्मनि निर्दिशेत् ॥७॥
जनेन च यदाकीर्णं निश्छायमिव लक्षते ।
कुटुम्बी तत्र षण्मासान्नात्र जीवेन्न संशयः ॥८॥
यच्छून्यमप्यशून्याभं वेश्म वा यदि वा पुरम् ।
सर्वकामगुणैर्युक्तं धनं तदभिनिर्दिशेत् ॥९॥
पूर्वो नगरभागश्चेद्र म्यः स्यात् प्रियदर्शनः ।
प्रियभार्या मनःस्वास्थ्यं धनं धान्यं च भूपतेः ॥१०॥
पूर्वदक्षिणभागश्चेत्पुरस्य प्रियदर्शनः ।
महद् यशस्तदाप्नोति राजा हेम च पुष्कलम् ॥११॥
पुरस्य दक्षिणो भागो यदा रम्यस्तदा भवेत् ।
राज्ञः सेनापतिप्राप्तिर्धनं धान्यं च पुष्कलम् ॥१२॥
रमणीयो यदा भागः पुरदक्षिणपश्चिमः ।
अर्थसंपत्तदा राज्ञः प्रजावृद्धिश्च जायते ॥१३॥
पुरपश्चिमभागेन रमणीयेन पार्थिवः ।
पुत्रबान्धवधान्याढ्यः संप्राप्नोत्युन्नतिं पराम् ॥१४॥
पश्चिमोत्तरभागे तु रमणीये नराधिपः ।
प्रेष्यैः पुत्रैर्वाहनैश्च वृद्धिमेत्युत्तरोत्तराम् ॥१५॥
उत्तरे रमणीये तु पुरभागे नरेश्वरः ।
शत्रून् विजयते सर्वान् वर्धते च पुरोहितः ॥१६॥
यदि पूर्वोत्तरो भागः पुरस्य प्रियदर्शनः ।
यत्राभ्युत्तरमानन्दं क्षिप्रं राज्ञो विनिर्दिशेत् ॥१७॥
निष्पन्नस्य पुरादेर्यो भागो न स्यान्मनोरमः ।
तस्य तस्यैव भागस्य परिहाणिं विनिर्दिशेत् ॥१८॥
नवे यदि पुरद्वारे कपाटं प्रविशीर्यते ।
स्त्रीनामधेयमन्यद्वा स्त्रीनाशं तद्विनिर्दिशेत् ॥१९॥
देवागारे पुरद्वारे प्राकाराट्टालकेषु च ।
हस्तिशालाश्वशालासु रथशालास्तथापि वा ॥२०॥
कोष्ठागारायुधागारे निमित्तं तु शुभाशुभम् ।
यदि किञ्चित्प्रदृश्येत राज्ञस्तदभिनिर्दिशेत् ॥२१॥
भङ्गो यत्रोर्ध्ववंशस्य तत्र राजा विनश्यति ।
अर्गलापीलिकाकुञ्चीभङ्गे च नवकर्मणि ॥२२॥
ग्रामे नश्यन्ति चैतानि तदा ग्रामो विनश्यति ।
द्विगुत्थितं तु राष्ट्राणां गृहार्थेषु कुटुम्बिनाम् ॥२३॥
नवकर्मणि यत्किञ्चिद्भज्यते यदि वा नमेत् ।
विस्ते वा स्फुटे वापि कुटुम्बिमरणं ध्रुवम् ॥२४॥
फलं सर्वनिमित्तेषु शुभं वा यदि वाशुभम् ।
संवत्सरं परं ग्राह्यं नवकर्मकृते गृहे ॥२५॥
परिसंवत्सरान्ते च पुराणमिति निर्दिशेत् ।
तुम्बिका भज्यते यत्र नवकर्मणि निष्टिते ॥२६॥
श्रेष्ठा तु महिला तत्र षड्भिर्मासैर्विनश्यति ।
एवमेव नवं यस्य सदनं तु विनश्यति ॥२७॥
प्रेष्यदासादिविश्वासात्तद्विनाशयति ध्रुवम् ।
पृष्ठवंशो नवो यस्य नवकर्मणि भिद्यते ॥२८॥
कुटुम्बी म्रियते तत्र गृहं संवत्सरात्परम् ।
प्रेष्याश्चात्र विनश्यन्ति दीर्यमाणे विशेषतः ॥२९॥
लुमासु भिद्यमानासु कन्यामरणमादिशेत् ।
मुण्डकेषु विनष्टेषु सुहृदस्य विनश्यति ॥३०॥
अनुपूर्वेषु भिन्नेषु पुत्राणां मरणं ध्रुवम् ।
विपत्तौ मुण्डगोधानां माता तस्य विनश्यति ॥३१॥
नागपाशकभङ्गे तु भृत्यानां मरणं भवेत् ।
कपाटे भ्रातृमरणमर्गलायां स्त्रिया वधः ॥३२॥
सुतस्य चार्गलापार्श्वे विनष्टे मरणं भवेत् ।
द्वारबन्धे विनष्टे तु शीघ्रं कुर्यात्कुलक्षयम् ॥३३॥
इन्द्र कीलो दृढो यस्य भङ्गमायाति मूलतः ।
सपुत्रपशुवर्गस्य तस्य ब्रूयात्कुलक्षतिम् ॥३४॥
तोरणं भज्यते यस्य द्र व्यं तस्य विनश्यति ।
गृहभर्तुश्च मरणं त्रिदशैरवधारयेत् ॥३५॥
वास्तुमध्ये विनष्टे तु कुवृद्धो विनश्यति ।
सोपानं भिद्यते यत्र नवकर्मणि निष्ठिते ॥३६॥
तस्य प्रेष्याश्च गावश्च हिरण्यं च विनश्यति ।
वेदिका भज्यते यस्य भार्या तस्य विनश्यति ॥३७॥
गवाक्षस्तु विनश्येत पट्टस्तम्भोऽपि वा दृढः ।
गजशुण्डाथ भिन्नोऽश्वः कपोताल्यथवा नवा ॥३८॥
स्थपनीपट्टिकाश्चैव स्त्रीविनाशं तदादिशेत् ।
विटङ्कस्य तुलाया वा भङ्गे जाते कथञ्चन ॥३९॥
शालास्तम्भस्य वा नाशे भार्या तस्य विनश्यति ।
स्तम्भशीर्षं यदि भ्रश्येत् स्फुटेत्स्तम्भोऽपि वा दृढः ॥४०॥
भज्यते प्रतिमोको वा स्वामिनस्तु वधो भवेत् ।
भङ्गे तु भङ्गवाहिन्याः कुलवृद्धवधो भवेत् ॥४१॥
आकाशतलके पुत्राः प्रतिच्छिन्ने कुटुम्बिनः ।
विनष्टे च विनश्यन्ति षड्भिर्मासैर्न संशयः ॥४२॥
प्रासादमण्डले भग्ने भग्नासु वलभीषु च ।
भार्या कुटुम्बिनस्तस्य नाशमायात्यसंशयः ॥४३॥
प्रलीनो वा विलीनो वा प्रासादो यस्य भज्यते ।
प्रलीने भृत्यमृत्युः स्याद्विलीने तु धनक्षयः ॥४४॥
मिश्रे विनष्टे प्रासादे हीयन्ते सर्ववृद्धयः ।
मरणं वा भवेत्तत्र कुष्ठव्याधिं च निर्दिशेत् ॥४५॥
येषु स्थानेषु भङ्गो वा विनतिर्वा प्रकीर्तिता ।
उपद्रुतिर्विघातो वा तेषां फलमपीरितम् ॥४६॥
स्निग्धानि अय्दि दृश्यन्ते तानि दार्ढ्यान्वितानि च ।
धनमायुश्च हर्षं च पूर्वोक्तानां तदादिशेत् ॥४७॥
कर्णिकाभ्यन्तरी स्थूणा शालापादोऽथ हीयते ।
यदि तद्दुःखमाप्नोति गृहभर्ता न संशयः ॥४८॥
संप्रधार्य च मेधावी बलाबलमतन्द्रि तः ।
निर्दिशन् बलमाप्नोति धनमायुर्यशस्तथा ॥४९॥
एवमादिकनिमित्तसूचितं संप्रधार्य मतिमान् बलाबलम् ।
स्पष्टमादिशति योऽत्र शास्त्रवित्कीर्त्तिवित्तधनानि सोऽश्नुते ।

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP