संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १०१ ते १५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १०१ ते १५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार यन्त्रविधानं नामैकत्रिंशोऽध्यायः - १०१ ते १५० Translation - भाषांतर दृग्ग्रीवातलहस्तप्रकोष्ठबाहूरुहस्तशाखादि ।सच्छिद्रं वपुरखिलं तत्सन्धिषु खण्डशो घटयेत् ॥१०१॥श्लिष्टं कीलकविधिना दारुमयं सृष्टचर्मणा गुप्तम् ।पुंसोऽथवा युवत्या रूपं कृत्वातिरमणीयम् ॥१०२॥रन्ध्रगतैः प्रत्यङ्गं विधिना नाराचसङ्गतैः सूत्रैः ।ग्रीवाचलनप्रसरणविकुञ्चनादीनि विदधाति ॥१०३॥करग्रहणताम्बूलप्रदानजलसेचनप्रमाणादि ।आदर्शप्रतिलोकनवीणावाद्यादि च करोति ॥१०४॥एवमन्यदपि चेदृशमेतत्कर्म विस्मयविधायि विधत्ते ।जृम्भितेन विधिना निजबुद्धेः कृष्टमुक्तगुणचक्रवशेन ॥१०५॥पुंसो दारुजमूर्ध्वं रूपं कृत्वा निकेतनद्वारि ।तत्करयोजितदण्डं निरुणद्धि प्रविशतां वर्त्म ॥१०६॥खड्गहस्तमथ मुद्गरहस्तं कुन्तहस्तमथवा यदि तत्स्यात् ।तन्निहन्ति विशतो निशि चौरान् द्वारि संवृतमुखं प्रसभेन ॥१०७॥ये चापाद्या ये शतघ्न्यादयोऽस्मिन्नुष्ट्रग्रीवाद्याश्च दुर्गस्य गुप्त्यै ।ये क्रीडाद्याः क्रीडनार्थं च राज्ञां सर्वेऽपि स्युर्योगतस्ते गुणानाम् ॥१०८॥इदानीं प्रक्रमायातं वारियन्त्रं प्रचक्ष्महे ।क्रीडार्थं कार्यसिद्ध्यै च चतुर्धा तद्गतिं विदुः ॥१०९॥निम्नगं भवति द्रो णीदेशादूर्ध्वस्थिताज्जलम् ।यत्र तत्पातयन्त्रः स्याद्वाटिकादिप्रयोजनम् ॥११०॥उच्छ्रायसमपाताख्यं यत्रोर्ध्वा नाडिका पयः ।जलाधारगुणान्मुञ्चेदधस्तात्समनाडिका ॥१११॥यत्र पातसमुच्छ्रायं पतित्वोच्छ्रायतो जलम् ।तिर्यग्गत्वा प्रयात्यूर्ध्वं सच्छिद्र स्तम्भयोगतः ॥११२॥पतित्वोच्छ्रायतस्तोयं तिर्यगूर्ध्वोर्ध्वमेत्यथ ।सच्छिद्र स्तम्भयोगेन तत्स्यात्पातसमोच्छ्रयम् ॥११३॥वाप्यां वापि च कूपे विधानतो दीर्घिकादिका विहिता ।यत्रोर्ध्वमम्बु गमयति तदिहोच्छ्रयसंज्ञितं कथितम् ॥११४॥दारुजमिभस्य रूपं यत्सलिलं पात्रसंस्थितं पिबति ।तन्माहात्म्यं निगदितमेतस्योच्छ्रायतुल्यस्य ॥११५॥सलिलं सुरङ्गदेशानीतं निम्नेन वर्त्मना दूरे ।अद्भुतमम्भस्थानं तदिह समोच्छ्रायतः कुरुते ॥११६॥धारागृहमेकं स्यात्प्रवर्षणाख्यं ततो द्वितीयं च ।प्राणालं जलमग्नं नन्द्यावर्तं तथान्यदपि ॥११७॥प्राकृतजनार्थमेतन्न विधेयं योग्यमेतदवनिभुजाम् ।मङ्गल्यानां सदनं दिव्यमिदं तुष्टिपुष्टिकरम् ॥११८॥सलिलाशयस्य सविधे कस्याप्याश्रित्य शोभनं देशम् ।यन्त्रोत्सेधाद्द्विगुणा त्रिगुणा वा नाडिका कार्या ॥११९॥जलनिर्वाहसहासावन्तर्मसृणा बहिश्च नीरन्ध्रा ।निर्व्यूढाम्भसि तस्यां शुभे मुहूर्ते गृहं कार्यम् ॥१२०॥सर्वाभिरोषधीभिर्युक्तं सहिरण्यपूर्णकुम्भैश्च ।सुविचित्रगन्धमाल्यं विनादितं भ्रमघोषेण ॥१२१॥रत्नोद्भवैर्विचित्रैः स्तम्भैर्युक्तं हिरण्यघटितैर्वा ।रजतोद्भवैः कदाचित्सुरदारुसमुद्भवैरथवा ॥१२२॥श्रीखण्डोत्थैरथवा सालकमुख्यप्रशस्तवृक्षोत्थैः ।शतसङ्ख्यैर्द्वात्रिंशत्सङ्ख्यैर्यदि वापि षोडशभिः ॥१२३॥अथवा चतुस्समन्वितविंशतिसङ्ख्यैर्दिनेशसङ्ख्यैर्वा ।भूषितमतिरमणीयैश्चतुर्भिरपि वा विधातव्यम् ॥१२४॥प्राग्ग्रीवैरतिचित्रैः शालैर्जालैर्विभूषितं विविधैः ।वेदीभिः परिकरितं कपोतपालीभिरभिरामम् ॥१२५॥रमणीयसालभञ्जिकमनेकविधयन्त्रशकुनिकृतशोभम् ।मिथुनैश्च वानराणां जम्भकनिवहैश्च नैकविधैः ॥१२६॥विद्याधरसिद्धभुजङ्गकिन्नरैश्चारणैश्च रमणीयम् ।नृत्यद्भिः परमगुणैः शिखण्डिभिर्मण्डितोद्देशम् ॥१२७॥कल्पतरुभिर्विचित्रैश्चित्रलतावल्लिगुल्मसंछन्नम् ।परपुष्टषट्पदालीमरालमालामनोहारि ॥१२८॥प्रवहत्सकलस्रोतःसुश्लिष्टनिविष्टनाडिकं मध्ये ।सच्छिद्र नाडिकयुतं नानाविधरूपरमणीयम् ॥१२९॥सुश्लिष्टनाडिकाग्रे स्तम्भतुलाभित्तिसंश्रिते परितः ।सम्यक्कृत्वा दृढतरविलेपनं वज्रलेपाद्यैः ॥१३०॥लाक्षासर्जरसदृषन्मेषविषाणोत्थचूर्णसंमिश्रम् ।अतसीकरञ्जतैलप्रविगाढो वज्रलेपः स्यात् ॥१३१॥दृढसन्धिबन्धहेतोः स तत्र देयो द्विशः कदाचिद्वा ।शणवल्कश्लेष्मातकसिक्थकतैलैः प्रलेपश्च ॥१३२॥उच्छ्रययन्त्रेणैतद् भ्रान्तजलेनाथ तदभितः कृत्वा ।चित्रानुपातयुक्तं प्रदर्शयेन्नृपतये स्थपतिः ॥१३३॥कार्याण्यस्मिन् करिणां मिथुनान्यभितोऽम्बुकेलियुक्तानि ।अन्योन्यपुष्करोञ्झितसीकरभयपिहितनयनानि ॥१३४॥वर्षानुकृतं चास्मिन् प्रीतिमति प्रतिमङ्गजो वीक्ष्य ।दृक्कटमेहनहस्तैर्मदमिव मुञ्चञ्जलं कार्यः ॥१३५॥स्तनयोर्युगेन सृजती जलधारे तत्र कापि कार्या स्त्री ।आनन्दाश्रुलवानिव सलिलकणान् पक्ष्मभिः काचित् ॥१३६॥नाभिह्रदनदिकामिव विनिर्गतां कापि बिभ्रती धाराम् ।काप्यङ्गुलीनखांशुभिरिव योषित्सिञ्चती कार्या ॥१३७॥एवम्प्रायांश्चित्रान् स्वभावचेष्टान् बहूंश्च रमणीयान् ।क्षोभान् विधाय कुर्यादाश्चर्यं नरपतेः स्थपतिः ॥१३८॥मध्ये तस्य विधेयं सिंहासनममलहेममणिघटितम् ।तत्रासीदेन्नरपतिरवनिपतिः श्रीपतिर्देवः ॥१३९॥स्नायात्कदाचिदस्मिन् मङ्गलगीतैर्विवर्धितानन्दः ।वादित्रनाट्यनिपुणैर्निषेव्यमाणः सुरेन्द्र इव ॥१४०॥य एतस्मिन् गाढग्लपितघनघर्मव्यतिकरे ।शुचौ धाराधाम्नि स्फुटसलिलधारे नरपतिः ।सुखेनास्ते पश्यन् विविधजलशिल्पानि स भवे- ।न्न मर्त्यः कन्त्वेष क्षितिकृतनिवासः सुरपतिः ॥१४१॥जलदकुलाष्टकयुक्तं पूर्ववदन्यद्गृहं समारचयेत् ।वर्षद्धारानिकरैः प्रवर्षणाख्यां तदाप्नोति ॥१४२॥प्रतिकुलमस्मिन् कार्या दिव्यालङ्कारधारिणः पुरुषाः ।विधिना त्रयः सुरूपाश्चत्वारः सप्त वा सुदृढाः ॥१४३॥यन्त्रेण समोच्छ्रायेण तांश्चतुर्थेन वा ततः पुरुषान् ।कृत्वा सवक्रनालानम्भोभिः पूरयेद् विमलैः ॥१४४॥सलिलप्रवेशरन्ध्राण्यखिलानि पिधाय तत्र पुरुषाणाम् ।अङ्गानि वारिमोक्षाण्यखिलान्यथ मोचयेत् तेषाम् ॥१४५॥सलिलं सवक्रनालं द्वारप्रतिरोधमोचनैः पुरुषाः ।मुञ्चन्ति स्वच्छममी विचित्रपातेन चित्रकरम् ॥१४६॥इत्थमिमन् वारिधरान् सामस्याद् द्व्यन्तरेण वा सलिलम् ।त्र्यन्ततो वा स्वेच्छं प्रवर्षयेदतिमहच्चित्रम् ॥१४७॥इदं नानाकारं कुलभवनमाद्यं रतिपते- ।र्निवासश्चित्राणामनुकरणमेकं जलमुचाम् ।पयःपातैर्ग्रीष्मे रविकरपरीतापशमनं ।न केषामत्यर्थं भवति नयनानन्दजननम् ॥१४८॥एकेनाथ चतुर्भिः स्तम्भैरष्टभिरथार्कसङ्ख्यैर्वा ।षोडशभिर्वा कुर्यान्मनोहरं गृहमिह द्वितलम् ॥१४९॥भद्रै र्यतं चतुर्भिश्चतुरश्रं सर्वभित्तिसंयुक्तम् ।ईलीतोरणयुक्तं कर्तव्यं पुष्पकाकारम् ॥१५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP