संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १५०

समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः - १०१ ते १५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


बहिरन्तश्चतुःशालद्वयादेकं समासतः ।
अन्यानि सर्वभद्रा दिद्वयसंयोगतो दश ॥१०१॥
एकोनत्रिंशता क्षेत्रं चतुरश्रं विभाजयेत् ।
भागद्वयेन मूषा स्याच्छाला भागचतुष्टयात् ॥१०२॥
कुर्वीत पञ्चभिर्भागैस्तन्मध्येऽङ्गणवापिकाम् ।
चतस्रश्च प्रतिदिशं मूषाः स्युस्तत्र वास्तुनि ॥१०३॥
शालयोनं सप्तशालं षट्शालं द्वितयोज्झितम् ।
त्रिहीनं पञ्चशालं स्यादष्टशालमिदं क्वचित् ॥१०४॥
तुल्यत्रिशालद्वितयं द्विशालेन युतं यदा ।
अष्टौ तदाष्टशालानि गृहाण्यन्यानि निर्दिशेत् ॥१०५॥
मूषाव्यूढिवशादष्टशालानामथ कथ्यते ।
सङ्ख्या तत्र विभद्रं स्यादवहन्मूषसंज्ञितम् ॥१०६॥
षोडशैवैकभद्रा णि द्विभद्रा णां शतं विदुः ।
विंशं षष्ट्या त्रिभद्रा णां विज्ञेयं शतपञ्चकम् ॥१०७॥
अष्टादशाहुर्विंशानि चतुर्भद्र शतानि च ।
पञ्चभद्र सहस्राणि चत्वारि स्युः शतत्रयम् ॥१०८॥
अष्टषष्टिश्च गेहानि तानि सम्यग्विभावयेत् ।
सहस्राष्टकमष्टौ च षड्भद्रा णि प्रचक्षते ॥१०९॥
एकादशसहस्राणि तथा शतचतुष्टयम् ।
जानीयात्सप्तभद्रा णि चत्वारिंशद्गृहाणि च ॥११०॥
द्वादशैवाष्टभद्रा णां सहस्राणि शताष्टकम् ।
सप्तत्याभ्यधिकं प्राहुर्वास्तुविद्याविशारदाः ॥१११॥
एकादशसहस्राणि तथा शतचतुष्टयम् ।
चत्वारिंशच्च गेहानि नवभद्रा णि सङ्ख्यया ॥११२॥
अष्टौ स्युर्दशभद्रा णां सहस्राण्यष्टभिः सह ।
तथैकादशभद्रा णां सङ्ख्या स्यात्पञ्चभद्र वत् ॥११३॥
अष्टादशशतानि स्युर्विंशतिर्भवनानि च ।
इति द्वादशभद्रा णां सङ्ख्या भवति वेश्मनाम् ॥११४॥
स्यात्त्रयोदशभद्रा णां षष्ट्यग्रं शतपञ्चकम् ।
स्याच्चतुर्दशभद्रा णां विंशत्यभ्यधिकं शतम् ॥११५॥
वेश्मानि स्युस्तथा पञ्चदशभद्रा णि षोडश ।
एकमेव हि विज्ञेयं गृहं षोडशभद्र कम् ॥११६॥
पञ्चषष्टिसहस्राणि षट्त्रिंशं शतपञ्चकम् ।
गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥११७॥
स्यात्समानचतुश्शालद्वययोगात्समासतः ।
एकैकशालयोग्गाच्च नवशालचतुष्टयम् ॥११८॥
सर्वतोभद्र मुख्यानां मिथो द्वितययोगतः ।
एकैकशालयोगाच्च चत्वारिंशत्तथापरा ॥११९॥
तुल्यत्रिशालत्रितयोगेन च चतुष्टयम् ।
गृहाणां नवशालानामन्यदुक्तं पुरातनैः ॥१२०॥
संस्थानमुक्तं गेहानां नवशालात्मनामिदम् ।
मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥१२१॥
अवहन्मूषमेकं स्याद्वहन्त्याष्टादशैकया ।
द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥१२२॥
तिसृभिः स्युः शतान्यष्टौ सह षोडशभिर्गृहैः ।
षष्ट्या सहस्रत्रितयं ताभिश्चतसृभिर्भवेत् ॥१२३॥
पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः ।
वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ॥१२४॥
अष्टादशसहस्राणि तथा पञ्चशतानि च ।
चतुःषष्टिं च गेहानि मूषाभिः षड्भिरादिशेत् ॥१२५॥
एकत्रिंशत्सहस्राणि सहितान्यष्टभिः शतैः ।
चतुर्विंशतियुक्तानि मूषाभिः सप्तभिर्विदुः ॥१२६॥
चत्वारिंशत्सहस्राणि त्रिसहस्री च वेश्मनाम् ।
शतानि चाष्टपञ्चाशत्सप्त मूषाभिरष्टभिः ॥१२७॥
चत्वारिंशत्सहस्राणि सहस्राण्यष्ट षट्शती ।
विंशतिं चैव मूषाभिर्गृहाणां नवभिर्विदुः ॥१२८॥
चत्वारिंशत्सहस्राणि सहस्रत्रयमोकसाम् ।
मूषाभिर्दशभिः साष्टपञ्चाशच्छतसप्तकम् ॥१२९॥
एकत्रिंशत्सहस्राणि चतुर्विंशच्छताष्टकम् ।
मूषाभिरेकादशभिर्गृहाणां मुनयो जगुः ॥१३०॥
अष्टादशसहस्राणि तथा पञ्चशतानि च ।
धाम्नां द्वादशमूषाणां चतुःषष्टिश्च जायते ॥१३१॥
भवन्त्यष्टौ सहस्राणि तथा पञ्चशतानि च ।
स्यात्त्रयोदशमूषाणामष्टषष्टिश्च वेश्मनाम् ॥१३२॥
स्याच्चतुर्दशमूषाणां त्रिसहस्री सषष्टिका ।
मूषाभिः पञ्चदशभिः षोडशाष्टशती तथा ॥१३३॥
धाम्नां षोडशमूषाणां त्रिपञ्चाशच्छतं भवेत् ।
स्युः सप्तदशमूषाणि वेश्मान्यष्टादश स्फुटम् ॥१३४॥
मूषाभिरष्टादशभिर्वेश्मैकं तद्विदो विदुः ।
लक्षद्वयं सहस्राणि द्वाषष्टिश्च शतान्विता ॥१३५॥
वेश्मनां नवशालानां चत्वारिंशच्चतुर्युता ।
स्यात्समानचतुःशालद्वययोगात्समासतः ॥१३६॥
एकेन च द्विशालेन दशशालचतुष्टयम् ।
सर्वतोभद्र मुख्यानां मिथो द्वितययोगतः ॥१३७॥
एकद्विशालयोगाच्च चत्वारिंशत्तथापरा ।
तुल्यत्रिशालत्रितयमेकशालयुतं यदा ॥१३८॥
साधारणं तदान्यत्स्याद्दशशालचतुष्टयम् ।
तुल्ये त्रिशाले युज्येते सर्वभद्रा दिभिर्यदा ॥१३९॥
तदान्या दशशालानां समुत्पद्येत विंशतिः ।
तेष्वेकमवहन्मूषं विंशतिर्मूषयैकया ॥१४०॥
वहन्त्या स्यादुभाभ्यां तु नवत्यभ्यधिकं शतम् ।
चत्वारिंशानि तिसृभिः शतान्येकादश ध्रुवम् ॥१४१॥
चत्वारि स्युश्चतसृभिः सहस्राणि शताष्टकम् ।
चत्वारिंशच्च गेहानि जायन्ते पञ्चभिः सह ॥१४२॥
पञ्चभिस्तु सहस्राणि मूषाभिर्दशपञ्च च ।
जायन्ते सचतुष्काणि तथा पञ्चशतानि च ॥१४३॥
अष्टात्रिंशत्सहस्राणि षड्भिः सप्त शतानि च ।
षष्ट्युत्तराणि जायन्ते वेश्मनां परिसङ्ख्यया ॥१४४॥
गृहाणां स्युः सहस्राणि सप्तभिः सप्तसप्ततिः ।
शतपञ्चकमन्यच्च भवेद्विंशतिसंयुतम् ॥१४५॥
लक्षमेकं सहस्राणि पञ्चविंशतिरष्टभिः ।
शतानि नव जायन्ते सप्तत्यभ्यधिकानि च ॥१४६॥
लक्षमेकं सहस्राणि सप्तषष्टिः शतानि च ।
नव स्युः षष्टियुक्तानि नवमूषाप्रचारतः ॥१४७॥
लक्षं चतुरशीतिश्च सहस्राणि शतानि च ।
सप्त स्युर्दशभिस्तद्वद्पञ्चाशच्च षडुत्तरा ॥१४८॥
लक्षमेकं सहस्राणि सप्तषष्टिश्च वेश्मनाम् ।
शतानि चैकादशभिः षष्ट्यानि नव निर्दिशेत् ॥१४९॥
लक्षं तथा सहस्राणि जायन्ते पञ्चविंशतिः ।
शतानि च द्वादशभिर्नव तद्वच्च सप्ततिः ॥१५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP