संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१ ते ५०

इन्द्र ध्वजनिरूपणं नाम सप्तदशोऽध्यायः - १ ते ५०

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


सुराणामर्थसिद्ध्यर्थं वधाय च सुरद्रुहाम् ।
यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥१॥
भगवन्तमथाम्भोजसंभव वचसांपतिः ।
प्रोवाच कथमिन्द्रे ण जेतव्यास्त्रिदशद्विषः ॥२॥
सोऽब्रवीत्सर्वरत्नानां ध्वजं कुरुत सङ्गताः ।
तं चाभिचारिकैर्मन्त्रैरुद्वहन्तोऽभिमन्त्रितम् ॥३॥
स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम् ।
अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥४॥
सहस्रधारमप्येकमन्यं रिपुकुलान्तकम् ।
दिव्यरूपमयं प्रादाद्ध्वजमिन्द्रा य दुर्धरम् ॥५॥
वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते ।
कर्मणानेन निःशेषाञ्शक्रः शत्रूञ्जयेदिति ॥६॥
जयैषी तमथ क्षिप्रमसृजच्चेतसा ध्वजम् ।
यन्त्रस्थितं स येनाजावमोहयदरीन् हरिः ॥७॥
आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।
अलञ्चक्रुस्तमालोक्य मरुतश्च विभूषणैः ॥८॥
तेजो वीर्यं वपुश्चेष्टां बलमप्येष पश्यताम् ।
अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥९॥
तमभ्यर्च्य सुराधीशः शत्रून् बलवतोऽप्यसौ ।
त्रिरात्रेणाजयद्युद्धे कुलिशेन बलाद्बली ॥१०॥
ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ ।
त्रैलोक्यराज्यं प्राप्याभ्यषिञ्चद्बलनिषूदनः ॥११॥
स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः ।
ध्वजमभ्यर्च्य तुष्टाव वाक्यैर्वृत्रनिषूदनः ॥१२॥
ततस्तमन्तिके वीक्ष्य ध्वजं प्रोवाच वासवः ।
इन्द्र ध्वजाक्षया लोकाः करिष्यन्ति तवार्चनम् ॥१३॥
वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः ।
ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥१४॥
वरप्रदानादिन्द्र स्य नृपैः शक्रध्वजोऽर्च्यते ।
दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥१५॥
विचित्राः स्थालिकापाका भक्षपानानि यानि च ।
एतान्यायतनात् प्राक्स्युर्यद्वान्यानि प्रकल्पयेत् ॥१६॥
विजेतुं यदि वाञ्छास्ति दुर्धर्षान् द्वेषिणो रणे ।
तेजो बलं यशश्चाप्तुं तदैन्द्रं कारयेद्ध्वजम् ॥१७॥
सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम् ।
विजयार्थं महीपालैरभिप्रशमनाय च ॥१८॥
यथा शक्रध्वजोत्थानविधानं जगतीभुजः ।
करिष्यन्ति तथा सम्यक् कार्त्स्न्येन प्रतिपाद्यते ॥१९॥
वनादुपाहृतं द्र व्यमथ प्राग्विधिना सुधीः ।
पाद्यार्घ्यादिभिरभ्यर्च्य गन्धैर्माल्यैरलङ्कृतम् ॥२०॥
द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः ।
पूर्वाग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥२१॥
प्रागुदग्वा पुरस्याथ स्थपतिः कर्मवानपि ।
कारयेत् सर्वयन्त्राणि ध्वजपूर्वाणि शिल्पिभिः ॥२२॥
श्रेष्ठं द्वात्रिंशता हस्तैर्विंशत्या युतयाष्टभिः ।
मानं स्यान्मध्यमं तस्य चतुरन्वितयाधमम् ॥२३॥
मूलविस्तृतिरायामादङ्गुलार्धं करे करे ।
विष्कम्भोऽग्रे च मूलार्धात् तत्त्र्यंशाद्वाखिलेष्वपि ॥२४॥
ध्वजमूलाष्टमांशोनं विस्तारात्कुष्यमिष्यते ।
विस्तारार्धेन च स्थूलं स्थूलत्वत्रिगुणायतम् ॥२५॥
ध्वजविस्तारबहलं साङ्घ्रिबाहल्यविस्तृतम् ।
भ्रमपीठं विधातव्यं सार्धायामं शुभावहम् ॥२६॥
सम्मितो ध्वजकुष्येण वेधः स्याद्भ्रमपीठगः ।
कुष्यकोट्यधिकावृत्तावक्षौ कोटिद्वयायतौ ॥२७॥
कार्यावङ्घ्री भ्रमस्थूलौ भ्रमविस्तृतिविस्तृतौ ।
तद्युक्तिवेधे तावेत द्विस्तृतेर्द्विगुणोच्छ्रितौ ॥२८॥
ध्वजायतिचतुर्भागात्पीठमत्र प्रकल्पयेत् ।
मल्लप्रतिष्ठितं मध्ये प्रान्तयोः स्तम्भधारितम् ॥२९॥
तत्पीठस्तम्भनीयाभ्यां द्वाराभ्यामन्वितं दृढम् ।
याम्योत्तरप्रतिक्षोभं प्राङ्मुखं सुदृढार्गलम् ॥३०॥
केतुव्यासार्धविस्तारं तद्दैर्घ्याष्टांशकोच्छ्रितम् ।
विस्तारसदृशायामं मध्ये स्याद्वज्रिणो गृहम् ॥३१॥
मल्लश्च पीठिकाङ्घ्री च बाहू स्तम्भविनिर्गतौ ।
शक्रमाता कुमार्यश्च ध्वजविस्तृतिविस्तृताः ॥३२॥
निम्नभागाश्च सर्वेषां स्वविस्तृतिचतुर्गुणाः ।
कार्या वा पञ्चगुणिताः सप्त मूलदेशतः ॥३३॥
कन्यानामुदयः प्रोक्तो यः षष्ठांशस्त्रिसंगुणः ।
इन्द्र माता तु सर्वाभ्यः स्यात्तदष्टांशतोऽधिका ॥३४॥
वेधः स्वविस्तरैः सप्तभागे स्यात् कन्यकोदयात् ।
निर्वेधश्चतुरश्रः स्याल्लकटस्य समाहितः ॥३५॥
निर्वेधावस्य चोर्ध्वाधः सप्तांशान्तरवर्तिनौ ।
कार्यौ सूचीव्यधावन्यौ सूचीमानप्रमाणतः ॥३६॥
कन्याव्यासत्रिभागेन सूची विस्तारतो भवेत् ।
पादोनबहला चारुदारुजा दृढसंहिता ॥३७॥
कुमारीव्याससंयुक्ता द्विगुणा कलटायतिः ।
एतद्बाह्यान्तरं ज्ञात्वा यन्त्रं संयोजयेत्ततः ॥३८॥
तयोरधस्तदर्धेन मृगाल्यौ सूचिविस्तृतौ ।
क्षेत्रस्य लेखितं कार्यं सम्बन्धे सूचिकन्ययोः ॥३९॥
साङ्घ्रिकेतनमूलार्धं लकटे विस्तृतायती ।
अक्षाभ्यां योजयेत् सम्यग्दृढं बाह्वक्षवेधयोः ॥४०॥
पञ्चानामपि तुल्यैव कन्यानां स्यात्प्रकल्पना ।
कृत्वानुपूर्व्या यन्त्राणि स्थापयेदखिलान्यपि ॥४१॥
आश्विने मासि पक्षे च धवले प्रतिपत्तिथौ ।
स्थिरोदयैर्ग्रहैः सौम्यैर्वीक्षिते त्वाष्ट्रभेऽपि च ॥४२॥
पौरजानपदैः सर्ववादित्रध्वनितेन च ।
यन्त्राण्युत्क्षिप्य यष्टिं च कर्मस्थानान्नयेज्जलम् ॥४३॥
चित्रप्रतिसराकीर्णां यष्टिं तत्राज्यलेपिताम् ।
चूर्णैः सर्वौषधीभिश्च स्थपतिः स्नापयेत् स्वयम् ॥४४॥
जलाशयात्समुत्तार्य नॄणां कलकलस्वनैः ।
प्रागग्रां स्थापयेद्दारुहस्तिन्योः प्राक्समुन्नताम् ॥४५॥
अहतेप्सितवासोभिराच्छाद्यार्च्य स्रगादिभिः ।
विक्षिप्य च बलिं दिक्षु द्विजातीन् स्वस्ति वाचयेत् ॥४६॥
त्रिसध्यं पूजितां तत्र सर्वप्रकृतिभिस्ततः ।
पञ्चाहं वासयेद्यष्टिं गुप्तां चापधरैर्नरैः ॥४७॥
तस्मिन्नेवाह्नि यन्त्राणि सर्वाण्यपि च यष्टिवत् ।
स्नातान्याच्छादितानीन्द्र स्थानदेशं प्रवेशयेत् ॥४८॥
सूत्रितेऽथ ध्वजस्थाने यष्टेरष्टांशदैर्घ्यतः ।
तदर्धविस्तृते दिक्स्थे समे प्रागायते शुभे ॥४९॥
विभक्तेऽत्र विभागानामेकाशीत्या ततः क्रमात् ।
विन्यस्तास्वथ सर्वासु देवतासु यथातथम् ॥५०॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP