संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार| १०१ ते १५० समराङ्गणसूत्रधार ८३ अध्यायांची नांवे महासमागमनो नाम प्रथमोऽध्यायः पुत्रसंवादो नाम द्वितीयोऽध्यायः प्रश्नो नाम तृतीयोऽध्यायः महदादिसर्गश्चतुर्थोऽध्यायः १ ते ५० ५१ ते १०५ सहदेवाधिकारो नाम षष्ठोऽध्यायः वर्णाश्रमप्रविभागो नाम सप्तमोऽध्यायः भूमिपरीक्षा नामाष्टमोऽध्यायः हस्तलक्षणं नाम नवमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४८ वास्तुत्रयविभागो नामैकादशोऽध्यायः नाड्यादिसिरादिविकल्पो नाम द्वादशोऽध्यायः मर्मवेधस्त्रयोदशोऽध्यायः पुरुषाङ्गदेवतानिघण्ट्वादिनिर्णयश्चतुर्दशोऽध्यायः राजनिवेशो नाम पञ्चदशोऽध्यायः वनप्रवेशो नाम षोडशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१२ नगरादिसंज्ञा नामाष्टादशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२४ निम्नोच्चादिफलानि नाम विंशोऽध्यायः द्वासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः द्विशालगृहलक्षणं नाम द्वाविंशोध्यायः एकशालालक्षणफलादि नाम त्रयोविंशोऽध्यायः द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते १६४ १ ते ५० ५१ ते ८० सभाष्टकं नाम सप्तविंशोऽध्यायः गृहद्र व्यप्रमाणानि नामाष्टाविंशोऽध्यायः शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २२३ गजशाला नाम द्वात्रिंशोऽध्यायः १ ते ५० ५१ ते ७९ अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः शिलान्यासविधिर्नाम पञ्चत्रिंशोऽध्यायः बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः १ ते ५० ५१ ते ८१ वास्तुसंस्थानमातृका नामाष्टात्रिंशोऽध्यायः द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः पीठमानं नाम चत्वारिंशोऽध्यायः चयविधिर्नामैकचत्वारिंशोऽध्यायः शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः अष्टङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १४० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०३ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः अथायतननिवेशो नामैकपञ्चाशोऽध्यायः प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १२३ १ ते ५० ५१ ते १०० १०१ ते १६० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५० २५१ ते ३१२ १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २१० मेर्वादिविंशिका नाम सप्तपञ्चाशोऽध्यायः प्रासादस्तवनं नाम अष्टपञ्चाशोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २४५ १ ते ५० ५१ ते ९९ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते ११७ १ ते ५० ५१ ते १२० १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०१ मण्डपलक्षणं नाम षट्षष्टितमोऽध्यायः १ ते ५० ५१ ते ११४ जगत्यङ्गसमुदायाधिकारो नामाष्टषष्टितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २२० १ ते ५० ५१ ते १०० १०१ ते १५७ चित्रोद्देशो नामैकसप्ततितमोऽध्यायः भूमिबन्धो नाम द्विसप्ततितमोऽध्यायः लेप्यकर्मादिकं नाम त्रिसप्ततितमोऽध्यायः अथाण्डकप्रमाणं नाम चतुःसप्ततितमोऽध्यायः मानोत्पत्तिर्नाम पञ्चसप्ततितमोऽध्यायः प्रतिमालक्षणं नाम षट्सप्ततितमोऽध्यायः देवादिरूपप्रहरणसंयोगलक्षणं नाम सप्तसप्ततितमोऽध्यायः दोषगुणनिरूपणं नामाष्टसप्ततितमोऽध्यायः १ ते ५० ५१ ते १०० १५१ ते १७० वैष्णवादिस्थानकलक्षणं नामाशीतितमोऽध्यायः पञ्चपुरुषस्त्रीलक्षणं नामैकाशीतितमोऽध्यायः रसदृष्टिलक्षणं नाम द्व्यशीतितमोऽध्यायः १ ते ५० ५१ ते १०० १०१ ते १५० १५१ ते २०० २०१ ते २५४ चतुःशालविधानं नामैकोनविंशोऽध्यायः - १०१ ते १५० समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी। Tags : bhojsamarangansanskritvastu shastraभोजवास्तुशास्त्रसंस्कृतसमराङ्गणसूत्रधार चतुःशालविधानं नामैकोनविंशोऽध्यायः - १०१ ते १५० Translation - भाषांतर द्वितीयापञ्चमीषष्ठ्यो यस्मिन् स्युस्तद्द्विमन्दिरम् ।यत्र त्रिपञ्चमीषष्ठ्यस्तद्वदन्ति सुदक्षिणम् ॥१०१॥चतुर्थीपञ्चमीषष्ठ्यो भये स्युस्तन्न वृद्धिकृत् ।पूर्वाद्वितीयासप्तम्यो यत्र तच्छ्लिष्टसंज्ञितम् ॥१०२॥याम्यास्यमिदमिच्छन्ति शुभं सर्वार्थदं नृणाम् ।साद्ये तृतीयासप्तम्यौ प्रमोदे परिकीर्तिते ॥१०३॥यत्र स्युर्द्वित्रिसप्तम्यस्तद्वेश्म व्यायतं स्मृतम् ।यत्राद्या च चतुर्थी च सप्तम्यपि च तद्वियत् ॥१०४॥द्विचतुःसप्तमीमूषमाप्यं स्याद्दक्षिणामुखम् ।त्रिचतुस्सप्तमीभिस्तु सुनागं वेश्म कीर्त्यते ॥१०५॥तच्च याम्यापरमुखं धनधान्यसुखप्रदम् ।सप्तमी पञ्चमी पूर्वा मूषा नागेन्द्र संज्ञिते ॥१०६॥मूषा द्विपञ्चसप्तम्यो याम्यं च मुखमीरिते ।त्रिपञ्चसप्तमीमूषाशोभितं शोभनं भवेत् ॥१०७॥चतुर्थी पञ्चमी यत्र सप्तम्यपि च तद्घनम् ।पूर्वा षष्ठी सप्तमी च स्मृता शस्तोत्तरे गृहे ॥१०८॥द्वितीयासप्तमीषष्ठ्यो यमिंस्तत्कफसंज्ञितम् ।द्वारं वारुणमेतस्य हितं च स्याद्द्विजन्मनाम् ॥१०९॥कर्णं स्यात्पश्चिमद्वारं त्रिषष्ठीसप्तमीयुतम् ।चतुर्थीसप्तमीषष्ठ्यो मूषाः स्युः क्रुष्टसंज्ञिते ॥११०॥सप्तमीपञ्चमीषष्ठीयुक्तं क्रान्तं यशस्करम् ।आद्याष्टमी द्वितीया च मूषा प्रोक्ता क्रमागते ॥१११॥आद्याष्टमी तृतीया च द्विशस्ते भवने स्मृताः ।यत्राष्टमी त्रिद्वितीये द्विभयं तदुदाहृतम् ॥११२॥आद्याष्टमी चतुर्थी च यत्र तच्चक्रसंज्ञितं ।तुर्याष्टमी द्वितीया च यत्र तन्मलयं विदुः ॥११३॥तुर्याष्टमी तृतीया च यत्र तत्प्रोक्तमायतम् ।आद्याष्टमी पञ्चमी च स्याद्यस्मिंस्तद्वनं स्मृतम् ॥११४॥द्वितीया पञ्चमी मूषा यत्र स्यादष्टमी तथा ।तद्भाराख्यमुदग्वक्त्रं शुभं विघ्नकृदन्यथा ॥११५॥त्रिपञ्चम्यष्टमीभिस्तु सुगारं परिकीर्तितम् ।यत्राष्ठमी तदागारं चतुर्थी पञ्चमी तथा ॥११६॥यस्मिन्नाद्याष्टमीषष्ठ्यो वीरं तदिह कीर्तितम् ।षष्ठ्यष्टमी द्वितीया च गृहे व्यायामनामनि ॥११७॥षष्ठ्यष्टमीतृतीयाभिर्मूषाभिः प्रोक्तमायुतम् ।षष्ठ्यष्टमीचतुर्थ्यः स्युर्यत्र तद्व्याहृतं विदुः ॥११८॥षष्ठ्यष्टमीपञ्चमीभिर्दुर्गमं व्याधिकृन्मतम् ।आद्याष्टमीसप्तमीभिः संयुक्तं क्षोभमुच्यते ॥११९॥द्विसप्तम्यष्टमीयुक्तं गृहं कृत्रिमसंज्ञितम् ।त्रिसप्तम्यष्टमीभिस्तु मूषाभिः क्षोभणं भवेत् ॥१२०॥चारुरुच्यं चतुःसप्तम्यष्टमीभिः समन्वितम् ।सप्तपञ्चम्यष्टमीभिर्युक्तं ध्रुवमिति स्मृतम् ॥१२१॥षट्सप्तम्यष्टमीयुक्तं कथं सर्वार्थसिद्धिदम् ।इत्युक्तानि त्रिभद्रा णि शस्तान्येतेषु यानि च ॥१२२॥तानि नित्यं प्रयोज्यानि वर्णानां च मनीषिभिः ।आद्याश्चतस्रो मूषाः स्युर्यत्र तत्कृतसंज्ञितम् ॥१२३॥सर्वद्विगुणकृत्पूर्वप्रत्यग्द्वारं नचान्यथा ।आद्यास्तिस्रः पञ्चमी च यस्मिन्नर्चायनं हि तत् ॥१२४॥तद्भवेत्पश्चिमद्वारं गृहं सर्वगुणान्वितम् ।यस्मिन्नाद्या द्वितीया च चतुर्थी पञ्चमी तथा ॥१२५॥तत्पौष्णं दक्षिणद्वारं सर्ववृद्धिकरं नृणाम् ।आद्यास्तिस्रस्तथाद्या च यस्मिंस्तद्गृहमुद्गतम् ॥१२६॥द्वारेण पश्चिमेनैतच्छस्यते दक्षिणेन वा ।द्व्याद्याश्चतस्रो यत्र स्युस्तन्मिश्रं प्रीतिवर्धनम् ॥१२७॥प्रशस्तं क्षत्रियादीनामस्य द्वाः प्राच्यपाचि वा ।आद्यास्तिस्रस्तथा पष्ठी यस्मिन् मूषास्तदुत्सुकम् ॥१२८॥तच्छस्तं पश्चिमद्वारं विप्रादीनां जयावहम् ।आद्या द्वितीया तुर्या च मूषा षष्ठी च यत्र तत् ॥१२९॥याम्याप्रत्यङ्मुखं शस्तं विघ्नं नाम कुलर्द्धितम् ।आद्या तृतीया तुर्या च यस्मिन् षष्ठी च तच्छुभम् ॥१३०॥विपक्षं नाम धाम स्याद्द्वारमस्य च पश्चिमम् ।द्व्याद्यास्तिस्रो गृहे यस्मिन् मूषा षष्ठी च तच्छुभम् ॥१३१॥स्याद्याम्यपश्चिमद्वारमाहूतं नाम तद्गृहम् ।आयाद्वितीयापञ्चम्यो यत्र षष्ठी च तद्भवेत् ॥१३२॥रुचकं नाम याम्यप्रागद्वारं सकलकामदम् ।एकत्रिपञ्चषष्ठ्यः स्युर्यत्र तद्वर्धमानकम् ॥१३३॥प्राक्पश्चिमोत्तरद्वारं चातुवर्ण्यस्य वृद्धिदम् ।यत्र स्युर्द्वित्रिपञ्चम्यो मूषाः षष्ठी च तद्गृहम् ॥१३४॥स्यात्पूर्वदक्षिणद्वारं प्रथितं पृथुसंज्ञया ।यस्मिन्नाद्याचतुःपञ्चषष्ठ्यस्तत् कलभं विदुः ॥१३५॥गुणैरुपेतं सकलैरुदग्द्वारं निकेतनम् ।द्विचतुःपञ्चमीषष्ठ्यो यस्मिंस्तच्छलमुच्यते ॥१३६॥दक्षिणं मुखमेतस्य पश्चिमं वा प्रशस्यते ।चतसरस्त्र्यादयो यस्मिन्नायास्यं तदुदीरितम् ॥१३७॥अप्रशस्तं वदन्त्येतत् तद्विदो भवनाधमम् ।आद्यास्तिस्रः सप्तमी च मूषाः स्युर्यत्र तद्गृहम् ॥१३८॥त्रिनाभमुत्तरद्वारं शस्तं सर्वगुणान्वितम् ।आद्याद्वितुर्यासप्तम्यो यत्र तत्स्वस्तिकं स्मृतम् ॥१३९॥प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्येऽपि शस्यते ।आद्याचतुर्थीसप्तम्यो मूषाः स्युर्यत्र वेश्मनि ॥१४०॥तदिह स्थिरमित्युक्तं द्वारं चैतस्य दक्षिणम् ।द्व्याद्यास्तिस्रः सप्तमी च यत्र तत्सरलं विदुः ॥१४१॥तद्भवेत्पश्चिमद्वारं सर्वदोषोज्झितं गृहम् ।यत्राद्या च द्वितीया च पञ्चमी सप्तमी तथा ॥१४२॥द्विगुणं नाम तद्वेश्म द्वारं चास्य यथेप्सितम् ।आद्यातृतीयापञ्चम्यः सप्तम्यपि च यत्र तत् ॥१४३॥नाद्यं नामातिशीलाद्यं प्रशस्तं सर्वदेहिनाम् ।द्वितीया च तृतीया च पञ्चमी सप्तमी गृहे ॥१४४॥यत्र तच्चित्रनामेष्टद्वारं चित्रगुणैर्वृतम् ।आद्यावतुर्थीपञ्चम्यो यत्र स्युः सप्तमी तथा ॥१४५॥तद्भ्रान्तं नाम पूर्वोदग्द्वारं भवनमृद्धिकृत् ।यत्र द्वितीया तुर्या च पञ्चमी सप्तमी तथा ॥१४६॥विधारणं गृहं तत्स्यात्सर्वकामविवर्धनम् ।तृतीया यत्र तुर्या च पञ्चमी सप्तमी तथा ॥१४७॥तत्साधारणमित्याहुः सर्वद्वारं सुखावहम् ।आद्या द्वितीया षष्ठी च सप्तमी यत्र तन्नतम् ॥१४८॥आद्या द्वितीया षष्ठी च त्र्यंशे स्यात्सप्तमी तथा ।द्वितीया च तृतीया च ऋषे षष्ठी च सप्तमी ॥१४९॥आद्या तुर्या च षष्ठी च रोगे स्यात्सप्तमी तथा ।यत्र द्वितीया तुर्या च स्यात् षष्ठी सप्तमी च तत् ॥१५०॥ N/A References : N/A Last Updated : November 26, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP