संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१५१ ते २००

चतुःशालविधानं नामैकोनविंशोऽध्यायः - १५१ ते २००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


N/Aविशोषणं नाम गृहं दक्षिणोत्तरदिङ्मुखम् ।
तृतीया यत्र तुर्या च स्यात् षष्ठी सप्तमी गृहे ॥१५१॥
प्रतीच्यमीप्सितद्वारं तद्गृहं सर्वकामदम् ।
यत्राद्यापञ्चमीषष्ठीसप्तम्यस्त्रिसमं हि तत् ॥१५२॥
प्रभूतवृद्धिदं वेश्म समस्तैरन्वितं गुणैः ।
द्वितीयापञ्चमीषष्ठीसप्तम्यो यत्र वेश्मनि ॥१५३॥
तदिह स्वैरमित्याहुर्धनधान्यसुखावहम् ।
तृतीयापञ्चमीषष्ठीसप्तम्यो द्वारमुत्तरम् ॥१५४॥
पश्चिमं वा भवेद्यत्र सुप्रतीकं च वृद्धिकृत् ।
तुर्याद्याभिश्चतसृभिर्नलमुत्तरदिङ्मुखम् ॥१५५॥
आद्याद्वित्र्यष्टमीभिः स्यात्सर्वरुग्भीतिकृत् क्षयम् ।
व्याप्ते पूर्वा द्वितीया च स्याच्चतुर्थी तथाष्टमी ॥१५६॥
आद्यातृतीयातुर्याः स्युराक्रीडे तद्वदष्टमी ।
द्व्याद्यास्तिस्रः क्रमाद्व्यर्थे मूषाः स्यादष्टमी तथा ॥१५७॥
ईशानाख्ये स्युराद्याद्वित्रिपञ्चम्योऽष्टमी तथा ।
पूर्वाष्टमीत्रिपञ्चम्यो यस्मिंस्तत् सुखसंज्ञितम् ॥१५८॥
तत्पूर्वोदङ्मुखं वृद्ध्यै जायते हानयेऽन्यथा ।
यत्र स्युरष्टमीद्वित्रिपञ्चम्यस्तदिहाव्ययम् ॥१५९॥
द्वारं यथेष्टमेतस्य वास्तुविद्याविदो जगुः ।
यस्मिन् पूर्वाष्टमीतुर्यापञ्चम्यो मगधं हि तत् ॥१६०॥
प्रागुदक्पश्चिमद्वारमिदं शंसन्ति सूरयः ।
यत्र द्वितुर्यापञ्चम्यो मूषाः स्युस्तद्वदष्टमी ॥१६१॥
तत्क्षिप्तं नाम सुखकृद्यथेष्टं द्वारमिष्यते ।
त्रिपञ्चम्यष्टमीतुर्या आगस्त्ये पश्चिमामुखे ॥१६२॥
द्वितीयाद्याष्टमीषष्ठ्यो यत्रैकोजं तदुच्यते ।
तृतीयाद्याष्टमीषष्ठ्यो यत्र तद्द्विर्गतं गृहम् ॥१६३॥
द्वित्रिषष्ठ्योऽष्टमी चापि यस्मिंस्तल्लिहमुच्यते ।
आद्यातुर्याष्टमीषष्ठ्यो यत्र तत्पर्कमुच्यते ॥१६४॥
षष्ठ्यष्टमीद्वितुर्याभिः स्याद्विलोमाभिधं गृहम् ।
षष्ठ्यष्टमीद्वितुर्याभिरुद्दण्डमिति कीर्तितम् ॥१६५॥
यस्मिन्नाद्याष्टमीषष्ठीपञ्चम्यो मुण्डमेव तत् ।
द्विपञ्चम्यष्टमीषष्ठ्यो मूषा मातङ्गसंज्ञिते ॥१६६॥
त्रिपञ्चम्यष्टमीषष्ठ्यो भवन्त्यस्खलनामनि ।
तत्खर्वनाम तुर्याद्यास्तिस्रो यस्मिंस्तथाष्टमी ॥१६७॥
आद्याद्वितीयासप्तम्यः पिनाके स्युस्तथाष्टमी ।
त्रिसप्तम्यष्टमीपूर्वा यत्रोद्यन्तं तदुच्यते ॥१६८॥
अष्टमीद्वित्रिपञ्चम्यो यस्मिंस्तद्विशिखं गृहम् ।
आद्या चतुर्थीसप्तम्यः प्रसभे स्युस्तथाष्टमी ॥१६९॥
रजे द्वितुर्यासप्तम्यो मूषाः स्युस्तद्वदष्टमी ।
त्रिसप्तम्यष्टमीतुर्या यत्र तद्रुचकं विदुः ॥१७०॥
प्राक्प्रत्यग्द्वारमेतस्य शूद्रा णामतिवृद्धिदम् ।
सप्तम्याद्याष्टमी मूषा पञ्चम्यपि च सैफले ॥१७१॥
वामे द्विपञ्चसप्तम्यो मूषा ज्ञेयास्तथाष्टमी ।
त्रिपञ्चसप्तम्यष्टम्यो यस्मिंस्तद्वर्धमानकम् ॥१७२॥
विशेषतो वृद्धिकरं वैश्यानामिति तद्विदः ।
चतुःपञ्चाष्टसप्तम्यो यस्मिंस्तद्धावनं भवेत् ॥१७३॥
सप्तम्याद्याष्टमीषष्ठ्यो यत्र तत्सहमुच्यते ।
द्विसप्तषष्ठ्यष्टमीभिर्मूषाभिश्चयनं भवेत् ॥१७४॥
षष्ठ्यष्टमीद्विसप्तम्यो यस्मिंस्तत् सेव्यमीरितम् ।
यत्र तुर्याष्टमी षष्ठी सप्तमी चेति तत्कलम् ॥१७५॥
तीर्णे षष्ठ्यष्टमीपञ्चसप्तम्यः सर्वकामदे ।
यत्राद्याः पञ्च तत् प्रोक्तं कानलं सर्वकामदम् ॥१७६॥
एकद्वित्रिचतुःषष्ठ्यो यत्र तल्लोलुपं स्मृतम् ।
आद्यास्तिस्रः पञ्चषष्ठ्यौ यस्मिंस्तज्जिह्ममुच्यते ॥१७७॥
प्रगाले पञ्चमीषष्ठीतुर्यापूर्वाद्वितीयकाः ।
त्रितुर्यापञ्चमीषष्ठ्यः साद्याः स्युः सालिनाभिधे ॥१७८॥
यत्र द्वित्रिचतुःपञ्चषष्ठ्यस्तज्जिनमुच्यते ।
एकद्वित्रिचतुर्थ्यः स्युः सुजये सप्तमीयुताः ॥१७९॥
पञ्चमीसप्तमीद्वित्रिपूर्वाः स्युर्विजयाभिधे ।
यत्रैकद्विचतुःपञ्चसप्तम्यो यामनाम तत् ॥१८०॥
यत्रैकत्रिचतुःपञ्चसप्तम्यस्तज्जयं विदुः ।
मूषा द्वित्रिचतुःपञ्चसप्तम्यो ज्ञातसंज्ञिते ॥१८१॥
आद्यास्तिस्रस्तथा षष्ठीसप्तम्यौ यत्र तज्जपम् ।
आद्याद्वितुर्याषष्ठीभिः सप्तम्या च तपं विदुः ॥१८२॥
षष्ठीत्रितुर्यासप्तम्यो जये मे पूर्वान्विता मताः ।
द्वित्रितुर्यास्तथा षष्ठीसप्तम्यौ वरसंज्ञिते ॥१८३॥
चरं तद्यत्र पूर्वे द्वे पञ्चषट्सप्तमीयुते ।
चैत्ये स्यात्सप्तमी षष्ठी पञ्चम्याद्या तृतीयका ॥१८४॥
विशिरवे द्वित्रिपञ्चम्यः स्यात् षष्ठी सप्तमी तथा ।
चतुर्थी पञ्चमी षष्ठी सप्तम्याद्या च सुप्रभे ॥१८५॥
प्रभाख्ये द्विचतुःपञ्चषष्ठ्यः स्युः सप्तमी तथा ।
त्रिचतुःपञ्चसप्तम्यः षष्ठी च स्यात्प्रतीक्षके ॥१८६॥
आद्याश्चतस्रो यत्र स्युः साष्टम्यः क्षमिणं हि तत् ।
सप्त पूर्वा द्वित्रिपञ्चम्यो युक्तनाम्नि तथाष्टमी ॥१८७॥
शान्ते द्वितुर्यापञ्चम्यः पूर्वा स्यादष्टमी तथा ।
पूर्वात्रितुर्यापञ्चम्यः साष्टम्यस्त्रैतसंज्ञिते ॥१८८॥
विनोदे द्वित्रिपञ्चम्यश्चतुर्थी चाष्टमी तथा ।
सन्दोहे त्वष्टमिषष्ठ्यौ तिस्रः पूर्वादिकास्तथा ॥१८९॥
आद्याद्वितुर्याषष्ठीभिरष्टम्या विप्रदोहकम् ।
षष्ठ्यष्टमीत्रितुर्याद्या यस्मिंस्तद्विद्रुतं विदुः ॥१९०॥
द्वित्रितुर्याष्टमीषष्ठ्यो यत्र तत्सततं मतम् ।
आद्याद्विपञ्चमीषष्ठ्यस्ततनाम्नि तथाष्टमी ॥१९१॥
आद्यात्रिपञ्चमीषष्ठ्यो व्याकुले स्युस्तथाष्टमी ।
द्वित्रिपञ्चचतुष्षष्ठ्यो विज्ञेया लीनसंज्ञके ॥१९२॥
तुर्याद्यापञ्चमीषष्ठ्य आलीने स्युस्तथाष्टमी ।
द्वितुर्यापञ्चमीषष्ठ्यो विचित्रे तद्वदष्टमी ॥१९३॥
आद्याश्चतस्रो मूषाः स्युः साष्टम्यो लम्बनाह्वये ।
आद्यास्तिस्रोऽष्टमी तद्वत्सप्तम्यपि भवेत् खरे ॥१९४॥
शेखरे सप्तमीतुर्याद्वितीयाद्यास्तथाष्टमी ।
विबुधे त्वष्टमी तुर्या तृतीयाद्याथ सप्तमी ॥१९५॥
चैत्राख्ये द्व्यष्टमीतुर्यासप्तम्यः सतृतीयकाः ।
आद्याद्विपञ्चसप्तम्यो व्यासक्ताख्ये तथाष्टमी ॥१९६॥
आद्यात्रिपञ्चसप्तम्यः साष्टम्यः सम्पदाभिधे ।
यत्र द्वित्र्यष्टमीपञ्चसप्तम्यस्तत्पदं विदुः ॥१९७॥
तुर्याद्यापञ्चमी षष्ठी सप्तम्यस्त्रिशिखे तथा ।
द्विपञ्चम्यष्टमीतुर्यासप्तम्यश्चतुराभिधे ॥१९८॥
त्रिसप्तम्यष्टमीतुर्यापञ्चम्यः प्रान्तनामनि ।
आद्याद्वितीयासप्तम्यः षष्ठ्यष्टम्यौ च सुस्थिते ॥१९९॥
दुःस्थितं यत्र षष्ठ्याद्या चतुर्थी सप्तमी तथा ।
स्थितेऽष्टमीद्विसप्तम्यस्त्रिषष्ठ्यावपि च स्मृते ॥२००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP