संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
५१ ते १००

रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः - ५१ ते १००

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


---॥५१॥
भद्र क ।
भद्रं त कर्णयोर्मध्ये कारयेदुदकान्तरम् ।
तदा हंसो विजानीयात्प्रासादो देवतालयः ॥५२॥
हंसः ।
हंसस्येव यदा कुर्याद्भद्र स्यान्ते जलान्तरम् ।
तदा हंसोद्भवो नाम प्रासादः परिकीर्तितः ॥५३॥
हंसोद्भवः ।
रथान्तकर्णयोश्चैवं यदा स्यादुदकान्तरम् ।
प्रतिहंसस्तदा प्रोक्तः प्रासादोऽयं मनोरमः ॥५४॥
प्रतिहंसः ।
प्राग्ग्रीवा रुचकस्यैव सीमाविस्तारविस्तृताः ।
निर्गता भद्र मानेन तदा नन्दः स उच्यते ॥५५॥
नन्दः ।
प्राग्ग्रीवैर्भद्र मानेन नन्दो यदि विभूष्यते ।
निर्गतैर्भागमानेन चतुरश्रैः समन्ततः ॥५६॥
प्राग्ग्रीवः पुरतः कार्यः स्तम्भद्वयविभूषितः ।
नन्द्यावर्तस्तदा प्रोक्तः प्रासादो विजयावहः ॥५७॥
नन्द्यावर्तः ।
नन्द्यावर्ते यदा कुर्याद्भद्रा न्ते जलनिर्गमम् ।
धराधरस्तदा ज्ञेयः प्रासादो भुवनोत्तमः ॥५८॥
धराधरः ।
दशधा भाजिते क्षेत्रे चतुरश्रे समन्ततः ।
भागद्वयेन कर्णः स्याद्भजेच्छेषं च सप्तधा ॥५९॥
भागत्रयेण रथको मध्यमोऽस्य विधीयते ।
द्वाभ्यां द्वाभ्यां तु भागाभ्यां रथकौ वामदक्षिणौ ॥६०॥
भागस्यैव त्रिभागेन भवेदस्य विनिर्गमः ।
कथितो वर्धमानोऽयं  ।
वर्धमानः ।
गिरिकूटोऽथ कथ्यते ॥६१॥
वर्धमानस्य भद्र स्थमध्यसूत्रेण योजयेत् ।
कर्णिसूत्रं तदग्राभ्यां न्यस्येत्सूत्रचतुष्टयम् ॥६२॥
तदुत्पन्नैस्तु भद्र स्थकर्णैः स्याच्चित्रकूटकः  ।
गिरिकूटः ।
कर्णान्ते च रथान्ते च यदि स्यात्सलिलान्तरम् ॥६३॥
वर्धमानस्य भवति श्रीवत्सः स्यात्तदा शुभः ।
श्रीवत्सः ।
गिरिकूटस्य संस्थाने तद्रू पे विनिवेशिते ॥६४॥
कर्णा प्रतिरथेष्वस्य निखिलेष्वपि योजयेत् ।
प्राग्वत्प्रतिरथोद्भूतसूत्राभ्यां कर्णवर्त्मना ॥६५॥
त्रिकूटाख्यस्तदैव स्यात्प्रासादो देवतालयः ।
त्रिकूटः ।
त्रिकूटस्यैव संस्थाने भद्र कर्णपरिच्युते ॥६६॥
स्वरूपभद्र संस्थाने मुक्तकोणः प्रजायते  ।
मुक्तकोणः ।
चतुर्भिस्तृतैर्भागैः क्षेत्रे पञ्चभिरायते ॥६७॥
भागेन भित्तिः कर्तव्या शेषं गर्भगृहं भवेत् ।
अस्य क्षेत्रार्धसूत्रेण पृष्ठतो वृत्तमालिखेत् ॥६८॥
पुरतः शूरसेनोऽस्य पृष्ठतोऽपि गजाकृतिः ।
प्रासादोऽयं गजो नाम गणेशस्य विधीयते ॥६९॥
गजः ।
वर्धमानस्य संस्थाने गरुडं विनिवेशयेत् ।
तस्य पक्षौ विधातव्यौ प्रासादार्धेन निर्गतौ ॥७०॥
पक्षयोस्तु दशस्तस्य वर्धमानं विभाजयेत् ।
जातिशुद्धा रथाः कार्याः पार्श्वयोर्गरुडो भवेत् ॥७१॥
गरुडः ।
वर्धमानस्य संस्थाने प्राग्वत्कर्णौ नियोजयेत् ।
द्विभागा रथिका कार्या शेषं भद्रं प्रकल्पयेत् ॥७२॥
जङ्घास्य पञ्चभिर्भागैः पीठं चास्य तदर्धतः ।
विरण्ड्यर्धांशिकाद्भिश्च भागश्चान्तरपत्रयोः ॥७३॥
तथोत्सेधत्रिभागैश्च नवभिः शिखरोच्छ्रितः ।
कुम्भश्चामलसारश्च सिंहेऽस्मिद्रा गमागतः ॥७४॥
सिंहः ।
चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजितैः पदैः ।
सीमाविस्तारमानेन रथांस्तस्य प्रकल्पयेत् ॥७५॥
पादेनैकेन निर्यातान् दिक्षु सर्वास्वनुक्रमात् ।
प्राग्ग्रीवान् पुनरस्यैव भागद्वितयविस्तृतान् ॥७६॥
पदषड्भागनिर्यातान्विदधीत चतुर्दिशम् ।
चतुर्भागायतो गर्भः कार्योऽस्य द्व्यंशविस्तृतः ॥७७॥
जङ्घोत्सेधश्च पीठं च यथा भद्रे तथा भवेत् ।
प्रासादो भवसंज्ञोऽयं देवतात्रितयाश्रयः ॥७८॥
भवः ।
भवस्यैव यदा कुर्याद्र थान् सजलनिर्गमान् ।
द्विभङ्गं संश्रयोऽन्यः सा प्रासादो विभवाभिधः ॥७९॥
त्रिलिङ्गः ।
अष्टधा भाजिते क्षेत्रे चतुरश्रे समन्ततः ।
विदध्याद्गर्भसूत्राणि कर्णसूत्राणि च क्रमात् ॥८०॥
दिक्सूत्रेष्वखिलेष्वस्य सीमार्धं पदमेव च ।
पदस्याष्टादशो भागस्तद्योगाद्वृत्तमालिखेत् ॥८१॥
विस्तारार्धं भवेद् गर्भो गर्भार्धास्तस्य भित्तयः ।
तद्वृत्तबाह्यसूत्रेण भागान् षोडश कारयेत् ॥८२॥
दिक्सूत्रकर्णसूत्रेषु रथकान् सम्प्रकल्पयेत् ।
द्विभागा रथिका कार्या सलिलान्तरभूषिता ॥८३॥
सलिलान्तरमेतस्य श्रीवत्सस्येव कल्पयेत् ।
जङ्घोत्सेधे च पीठे च शिखर च तथा भवेत् ॥८४॥
भालाधारः स विज्ञेयः सबःह्यभ्यन्तरः समः ।
मालाधरः ।
मालाधरस्य संस्थाने यत्क्षेत्रं पूर्ववत्स्थितम् ॥८५॥
उदकान्तरविच्छिन्नं पद्मं तत्र निवेशयेत् ।
तथाग्रे कारयेत्कर्णव्यासार्धेन विनिर्गमान् ॥८६॥
पद्मपत्रनिभाकाराञ्जातिशुद्धान्सलक्षणान् ।
पद्मः ।
षड्भागानायते क्षेत्रे विस्तारे चतुरश्रके ॥८७॥
द्विभागाद्विपुलो गर्भश्चतुर्भागायतो भवेत् ।
गर्भव्यासमितं सूत्रं पदपादसमन्वितम् ॥८८॥
वृत्तार्धं भ्रमयेत्तेन दक्षिणेनोत्तरेण च ।
सीमाविस्तारसूत्रेण पदपादयुतेन च ॥८९॥
पुरतः पृष्ठतश्चापि तद्वृत्तमनुवर्तयेत् ।
वृत्तक्षेत्रमिदं तस्य भागैर्द्वादशभिर्भवेत् ॥९०॥
द्विभागो भद्र विस्तारो भागिकी भागविस्तृतिः ।
भद्रा णां च रथान्मध्ये भागेनैकेन विस्तृता ॥९१॥
उदकान्तरकं चात्र मालाधरवदाचरेत् ।
वृत्तायतस्तु कर्तव्यः प्रासादो मलयाभिधः ॥९२॥
मलयः ।
मलयस्यैव कर्णेषु रथिकान् यदि कल्पयेत् ।
उदकान्तरविच्छिन्नान् पदषड्भागनिर्गतान् ॥९३॥
पीठोत्सेधश्च जङ्घा च शिखरं चात्र यद्भवेत् ।
एकमात्रासमायुक्तं लतिना ते प्रतीयते ॥९४॥
त्र्यंमाशाणां चतुरश्राणां कोणेष्वर्धपरिक्षयात् ।
अष्टाश्रं जायते यत्र वाजाग्रमपि तां नरम् ॥९५॥
अष्टाश्रं चतुरो भागान् विदध्यात्तत्र भागिकी ।
भित्तिर्विधेया भागाभ्यां भवेद्गर्भगृहं ततः ॥९६॥
रथिकासु विधेयोऽस्य परितो जलनिर्गमः ।
वज्रको नाम कथितः प्रासादः शुभलक्षणः ॥९७॥
वज्रकः ।
वज्रकस्यैव संस्थाने सलिलान्तरवर्जिते ।
चत्वारिंशद्भागभक्ते रथिकाः स्युस्त्रिभागिकाः ॥९८॥
अष्टासु दिक्षु कर्णाश्च भवन्त्यस्य द्विभागिकाः ।
कर्णैः पद्मकतुल्योऽयं स्वस्तिकः समुदाहृतः ॥९९॥
स्वस्तिकः ।
वज्रकस्यैव संस्थाने ये रथाः प्राक्प्रदर्शिताः ।
एकैकस्तेषु कर्तव्यश्चतुरश्चतुरॐऽशकान् ॥१००॥

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP