संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|समराङ्गणसूत्रधार|
१०१ ते १२३

प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः - १०१ ते १२३

समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।


नवांशपञ्चके यद्वा क्षेत्रस्यैव लुमादितः ।
पृथुत्वार्धे लुमापृष्ठद्वयलेखां निवेशयेत् ॥१०१॥
शेषैः षड्भिस्ततो भागैरन्यत्तु प्राग्वदाचरेत् ।
भागार्धं निर्गमः कार्यः प्रासादानां कनीयसाम् ॥१०२॥
छाद्यकस्यैव भागैस्तु ज्यायसां निर्गमो यतः ।
तदन्तरे ये प्रासादास्तेषां क्षेत्रानुसारतः ॥१०३॥
छाद्यस्य निर्गमः कार्यो विद्वद्भिरनुपाततः ।
निर्गमस्य त्रिभागेन कनीयाञ्छाद्यकोदयः ॥१०४॥
अर्धभागेन परमो भाज्यं षड्भिस्तदन्तरम् ।
अन्ये भागोत्तराः पञ्च सप्तैव मुदया मताः ॥१०५॥
इदानीमभिधास्यामः सिंहकर्णस्य लक्षणम् ।
छाद्योदयोदयः स स्याद्दशभिस्तं विभाजयेत् ॥१०६॥
तैः स्यात् षोडशभिर्भागैस्तस्यैव तलविस्तृतिः ।
ऊर्ध्वतश्चतुरो भागांस्त्यक्त्वा शङ्कुं निवेशयेत् ॥१०७॥
चतुरश्रीकृते क्षेत्रे कर्णेनारभ्य शङ्कुतः ।
ततो वृत्तं लिखेत्पश्चाच्छङ्कुं समधिरोपयेत् ॥१०८॥
ऊर्ध्वदेशात्तु भागेन स स्याद्भागचतुष्टये ।
लिखेद्वृत्तं त्रिभागोनद्व्यंशकर्कटकोद्भवम् ॥१०९॥
तस्योपरिष्टात्तदनु ग्रीवा कार्यैकभागिनी ।
गर्भे शृङ्गाग्रयोर्मध्ये तिर्यग्भागद्वयं भवेत् ॥११०॥
मध्ये कर्णाग्रयोस्तिर्यक्कार्यं भागत्रयं बुधैः ।
ग्रीवाया उपरिष्टाच्च भागमेकं शिखा भवेत् ॥१११॥
शिखाग्रमुपरिष्टाच्च कर्तव्यं गर्भसङ्गतम् ।
शिखाग्रमूर्ध्वतस्तद्वदर्धभागावलम्बितम् ॥११२॥
भागावलम्बि कर्णाग्रं स्कन्धाग्रं तावदेव तु ।
स्यात्कर्णखण्डयोर्मूलं स्कन्धदेशस्य सङ्गतम् ॥११३॥
स्वस्तिको द्व्यंशविस्तारायामः प्राग्वृत्तमध्यतः ।
एवं शङ्कुमधःसूत्रादूर्ध्वं भागो निवेशयेत् ॥११४॥
भागे निवेशितं कुर्यात्पूर्ववृत्ताद्यशेषतः ।
स्वस्तिकान्तं च पूर्वोक्तं पूर्ववत्सर्वमाचरेत् ॥११५॥
तलसूत्रादुपर्यंशैश्चतुर्भिर्गर्भतः समः
द्वाभ्यां द्वाभ्यामुभयतो भागाभ्यां तिर्यगेव च ॥११६॥
भागेन तद्वदेवाधःसूत्रादुपरि गर्भतः ।
चतुर्भिश्च चतुर्भिश्च भागैरुभयतः समम् ॥११७॥
वृत्तार्धानि लिखेदेककर्णयुक्तानि पूर्ववत् ।
एकशृङ्गाणि च ग्रीवास्वस्तिकार्धयुतानि च ॥११८॥
तलसूत्रबहिर्देशाद्बाह्यवृत्तसमुद्भवः ।
पदत्रयप्रविष्टः स्यात्पार्ष्णिरत्र परिस्फुटः ॥११९॥
त्रिवलीललितो नाम सिंहकर्णोऽयमीरितः ।
दशभागीकृते प्राग्वदुदये तत्प्रमाणतः ॥१२०॥
चतुर्दशांशविस्तीर्णे कर्णे सार्धे वलिर्भवेत् ।
दशभागोच्छ्रिते प्राग्वत्स्यात्त्रयोदशविस्तृतः ॥१२१॥
क्षेत्र एकवलिर्नाम सिंहकर्णस्तथापरः ।
एते शोभान्विताः कार्यास्त्र्यश्रसंवरणास्त्रयः ॥१२२॥
प्रासादानामिति निगदितं द्वारमानं निवेशः ।
स्तम्भानां च स्फुटमिह वितानानि तेषां लुमाश्च ।
वृत्तच्छाद्योच्छ्रितिरभिहिता छाद्यसंस्था लुमाश्च ।
प्रोक्ताः सप्त प्रथितमपरं सिंहकर्णप्रमाणम् ॥१२३॥

इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादद्वारस्तम्भनिवेशवितानलुमालक्षणवृत्तच्छाद्यलुमा-सिंहंकर्णप्रमाणं नाम चतुष्पञ्चाशोऽध्यायः ।

N/A

References : N/A
Last Updated : November 26, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP