चित्रोद्देशो नामैकसप्ततितमोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
अथ प्रियं वितेऽस्माभिर्विन्यासश्चित्रकर्मणः ।
चित्रं हि सर्वशिल्पानां मुखं लोकस्य च प्रियम् ॥१॥
पदे पदे वा कुड्ये वा यथा चित्रं सं वचने ।
वर्तयः कृतबन्धाश्च लेखामानं यथा भवेत् ॥२॥
वर्णगव्यक्तिया यादृग्यादृशो वर्तनाक्रमः ।
नानोन्मानविधिश्चैव नवस्थाने विधिस्तथा ॥३॥
हस्तानां यश्च विन्यासो लक्षणनात्रसंशय ।
दिव्यानां मानुषाणां च दिव्या सा मुखजन्मना ॥४॥
गणरक्षःकिन्नराणां कुब्जवामनयस्तेषाम् ।
विकल्पाकृतिमानानि रूपसंस्थानमेव च ॥५॥
वृक्षगुल्मलतावल्लीवीरुधां पापकर्मणाम् ।
शूराणां दुर्विधानां च धनिनां पृथिवीभृताम् ॥६॥
ब्राह्मणानां विसासोडजातन क्रूरकर्मणाम् ।
मानिनामथ रङ्गोपजीविनां चेह्रङ्गकथ्यते ॥७॥
रूपलक्षणनैपथ्यं सतीनां राजयोषिताम् ।
दासीप्रव्रजितारण्डायतिवल्लीषु लक्षणा ॥८॥
कन्यानामसंकारणां च विध्याना गजवाजिनाम् ।
मकरव्यालसिंहानां तथा यज्ञोपयोगिनाम् ॥९॥
विना रात्रिविभागस्य ऋतूनां चापि लक्षणम् ।
अत्र योज्यं याप्यंभ्र कथं भवति ॥१०॥
प्रविभागस्य देवानां रेखाणां चापि लक्षणम् ।
लक्षणं पञ्चभूतानां तेषामारम्भ एव च ॥११॥
वृकादीनां विहङ्गानां सर्वेषां जलवासिनाम् ।
चित्रन्यासविधानस्य ब्रूमः सम्प्रति लक्षणम् ॥१२॥
कर्मण कर्मा करमे यस्माच्चित्रकर्मणि वर्तते ।
तस्याङ्गान्यभिधीयन्ते तेन सर्वानि विस्तरात् ॥१३॥
वर्तिका प्रथमं तेषां द्वितीयं भूमिबन्धनम् ।
लेख्यं तृतीयं स्याद् रेखाकर्माणि वर्ततेमिह लक्षणम् ॥१४॥
पञ्चमं कर्षकर्मच्च षाष्ठं स्याद् वर्तनाक्रमः ।
सप्तमं लेखनं लेखकरणं द्विचकर्म तथाष्टमम् ॥१५॥
सङ्ग्रहोऽयमिति चैव कर्मणः ।
सूत्रिति तदनुक्रमेणा थः ।
भावयेन्न खलु मोहमेत्यसौ ।
चित्रकर्मणि कृती च जायते ॥१६॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे चित्रोद्देशाध्यायो नाम एकसप्ततितमोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP