निम्नोच्चादिफलानि नाम विंशोऽध्यायः
समराङ्गणसूत्रधार भारतीय वास्तुशास्त्र से सम्बन्धित ज्ञानकोशीय ग्रन्थ है जिसकी रचना धार के परमार राजा भोज (1000–1055 ई) ने की थी।
अग्रतःपृष्ठतःशब्दौ द्वारेण नियतौ गृहे ।
यतो द्वारं तदग्रं स्यात्पृष्ठं पृष्ठमुदाहृतम् ॥१॥
द्र व्यायामोदयव्यासैः शाला यत्राधिका भवेत् ।
वामा वा दक्षिणा वपि अग्रतः पृष्ठतोऽपि वा ॥२॥
हन्ति द्र व्याधिका द्र व्यमायामाभ्यधिका कुलम् ।
उच्छ्रायाभ्यधिका पूजां सन्ततिं विस्तराधिका ॥३॥
यस्य निम्ना भवेद्भूमिर्वामा दक्षिणकास्थला ।
बहुदोषं हि तद्वास्तु पुत्रपौत्रविनाशकम् ॥४॥
यस्य दक्षिणका निम्ना भूमिर्वामास्थला भवेत् ।
यत्नेनापि कृतं तत्स्याद्भर्तुरल्पफलोदयम् ॥५॥
पश्चिमेन भवेन्निम्ना भूमिः स्थूलतराग्रतः ।
यत्र तत्सर्ववर्णेषु सर्वकामप्रदं गृहम् ॥६॥
अग्रतश्च यदा हीनं पृष्ठतश्चोच्छ्रितं भवेत् ।
भवनं स्वामिनो ह्याशु विरागव्यसनाय तत् ॥७॥
सच्छत्रं च सकक्षं च तथैव सपरिक्रमम् ।
सप्रभं च समाख्यातं गृहमत्र चतुर्विधम् ॥८॥
बाह्योदकं च सच्छत्रं सकक्षमुभयोदकम् ।
सावश्यायं तु यद्वेश्म तद्विद्यात्सपरिक्रमम् ॥९॥
एकेनाप्यत्र मुखतः पृष्ठतः पार्श्वतोऽपि वा ।
सप्रभं स्यादलिन्देन लक्षणं तु पृथक्पृथक् ॥१०॥
एकोऽलिन्दस्तु कर्तव्यो मुखतो दक्षिणेन वा ।
मुखे राजप्रसादाय दक्षिणेऽर्थविवर्धनः ॥११॥
वामतस्तु न कर्तव्य एकोऽलिन्दो न पृष्ठतः ।
वामतोऽर्थविनाशाय पृष्ठतो म्रियते गृही ॥१२॥
यस्य स्यातामलिन्दौ द्वौ गृहस्योभयपार्श्वयोः ।
धनलाभं विजानीयात्तत्प्रवेशे कुडुम्बिनः ॥१३॥
यस्य स्यातामलिन्दौ द्वावग्रतः पृष्ठतस्तथा ।
धनधान्यमवाप्नोति सौभाग्यं चापि तद्गृही ॥१४॥
यस्य वा हलकालिन्दो मुखतो दक्षिणेन वा ।
राजप्रसादैस्तत्स्वामी धनधान्यैश्च वर्धते ॥१५॥
वामतो हलकालिन्दो मुखतश्च कृतो यदि ।
राजदण्डभयं विद्यात्पत्नी चास्य विनश्यति ॥१६॥
दक्षिणो हलकालिन्दः पश्चिमश्च कृतो यदि ।
ततः परापि वृद्धिः स्यात्सौभाग्यं च परं भवेत् ॥१७॥
पृष्ठतो हलकालिन्दो वामतश्च कृतो यदि ।
कलत्रमरणं तत्र भवेद्दुर्भगतापि च ॥१८॥
पृष्ठतो वामतश्चैव पुरतो दक्षिणेन वा ।
अलिन्दस्य कृतस्याथ वक्ष्यामोऽनुक्रमात्फलम् ॥१९॥
पृष्ठतो दारनाशाय धनलाभाय दक्षिणे ।
अग्रे राजप्रसादाय वामतोऽर्थविनाशनः ॥२०॥
समापितं तु यद्वास्तु सर्वतः परिशोधितम् ।
स्वामिनस्तद्भवेद्धन्यं स्थपतेश्च यशस्करम् ॥२१॥
अर्जितं वर्धते तस्य वृद्धिश्च स्यान्नृपश्रिया ।
धर्मकामाश्च वर्धन्ते कीर्त्तिरायुर्यशो बलम् ॥२२॥
नित्यं प्रक्रीडितजनं नित्यं सन्निहितश्रि तत् ।
नृत्यवादित्रगीतैश्च नित्यामोदं निरामयम् ॥२३॥
तत्र नैकप्रकाराणि त्रिशालान्युपलक्षयेत् ।
प्रकारेषु च सर्वेषु निन्द्यौ याम्यापरोज्झितौ ॥२४॥
एकस्मिन्स्वामिनो मृत्युरपरस्मिन् धनक्षयः ।
पूर्वोत्तरोज्झितौ धन्यौ संज्ञाश्चैषां प्रकारतः ॥२५॥
स्युरुदक्पूर्वयाम्याप्यशलाहीनान्यनुक्रमात् ।
हिरण्यनाभसुक्षेत्रचुल्लीपक्षघ्ननामभिः ॥२६॥
विनियोगो यथालिन्दमलिन्दव्यूढिरिच्छया ।
वेश्मान्यथ द्विशालानि कीर्त्यन्ते षड् यथाक्रमम् ॥२७॥
दिक्कर्णेसु द्विशालानि तत्कर्णान्येषु निर्दिशेत् ।
संमुखे द्वे समेतानि षडेतान्युपलक्षयेत् ॥२८॥
सिद्धर्थं दक्षिणाप्रत्यग्भवन्त्यत्रार्थसिद्धयः ।
यमसूर्यमुदक्प्रत्यक्तत्र मृत्युभयं सदा ॥२९॥
प्रागुदीच्योस्तु दण्डः स्याद्दण्डस्तत्र सदा भवेत् ।
प्राग्याम्ययोस्तु वाताख्यं वास्तु तत्कलहोत्तरम् ॥३०॥
उदग्दक्षिनसाम्मुख्ये द्विशालं काचवास्त्विति ।
तत्र ज्ञातिविरोधः स्यान्न तत्कुर्यात्कदाचन ॥३१॥
प्राक्प्रतीच्योस्तु साम्मुख्ये चुल्लीवास्तु विनिर्दिशेत् ।
तत्र वित्तक्षयो घोरः कदाप्येतन्न कारयेत् ॥३२॥
चतुश्शालं त्रिशालेन प्रान्तं प्राकारवर्तिना ।
पूर्वेण सप्तशालेषु मणिच्छन्द इति स्मृतम् ॥३३॥
अन्यानि चैवं त्रीण्याहुः प्रान्तमेव प्रदक्षिणम् ।
अपरं परिधानं च सपक्षमिति तानि च ॥३४॥
एकभित्ती तु शाले द्वे गृहसंघट्ट उच्यते ।
न तं कुर्यात्स हि सदा बन्धदोषवधप्रदः ॥३५॥
इत्युच्चनीचगृहभागफलं प्रदिष्ट- ।
मस्मिन्नलिन्दफलमप्यशुभं शुभं च ।
यद्द्वित्रिशालगृहलक्ष्म तदप्यमुष्मिन् ।
सामान्यतो द्वितययोगभवं च सम्यक् ॥३६॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे निम्नोच्चलच्छत्रादिसंज्ञालिन्दफलसद्वास्तुफलद्विशालत्रिशालगृह-सङ्घट्टलक्षणफलानि नाम विंशोऽध्यायः ।
N/A
References : N/A
Last Updated : November 26, 2017
TOP